प्रमाणपद्धतिः
(७७) प्रमाणपद्धतिः
प्रमाणबाधिते पक्षे वर्तमानो हेतुः कालात्ययापदिष्टः । यथा सर्वं तेजोऽनुष्णं द्रव्यत्वादिति । अत्र धर्मिग्राहकेण साध्यप्रतियोगिग्राहकेण चोपजीव्येन प्रत्यक्षेण पक्षो बाधितः । चक्षू रूपग्राहकं न भवति । इन्द्रियत्वादिति धर्मिग्राहकानुमानेन (बाधितः) । ब्राह्मणेन सुरा पेया । द्रवद्द्रव्यत्वादित्यागमबाधितः । अयं प्रतिज्ञायाः प्रबलप्रमाणविरोध एव । समबलप्रमाणविरुद्धः सत्प्रतिपक्षः । यथा वायुः प्रत्यक्षः । प्रत्यक्षस्पर्शवत्त्वादिति । वायुर्न प्रत्यक्षः । रूपरहितद्रव्यत्वादित्यनेन प्रतिरुद्धत्वात् । अयं प्रतिज्ञायाः समबलप्रमाणविरोध एव ।
जयतीर्थविजय
।। प्रमाणेति । प्रमाणबाधितसाध्यक इत्यर्थः । विभक्तधना भ्रातरः पीतजला गाव इतिवदुत्तरपदलोपेन विभक्ता भ्रातरः पीता गाव इतिवत् साध्यपदलोपो द्रष्टव्यः । यथा श्रुतेऽनुपपत्तेरित्थं व्याख्यातम् ।। धर्मिग्राहकेणेति । धर्मिभूततेजोग्राहकेणेत्यर्थः ।। साध्यप्रतियोगीति । साध्यमनुष्णत्वमुष्णत्वाभावः । तत्प्रतियोगि यदुष्णत्वं तद्ग्राहकेणेत्यर्थः ।। पक्ष इति । अत्र पक्षपदेन तदेकदेशसाध्यधर्मो लक्ष्यते ।। धर्मिग्राहकेति । धर्मि चक्षुः । तद्ग्राहकेण देवदत्तस्य रूपापरोक्षग्राहकेण तदन्वयव्यतिरेकानुविधायित्वादित्यनुमानेनेत्यर्थः ।। आगमेति । न सुरां पिबेदित्यागमेत्यर्थः । अयमिति । कालात्ययापदिष्ट इत्यर्थः । क्रमप्राप्तं सत्प्रतिपक्षं लक्षयति ।। समेति ।
भावदीपः
।। प्रमाणबाधित इति । प्रमाणेन निश्चितसाध्याभाववतीत्यर्थः । सद्धेतुव्यावृत्तय एतद्विशेषणम् । प्रमाणबाधितत्वं च पूर्वोक्तदिशा प्रत्यक्षादित्रयेणेति क्रमेणोदाहृत्य दर्शयति ।। यथेत्यादिना । तेजोऽनुष्णमित्येवोक्ते तेजोऽन्तरे त्वचौष्ण्यग्रहणसम्भवेन चक्षुर्गृहीते पक्षीकृते कस्मिंश्चित्तेजसि धर्मिग्राहकेण वा साध्यप्रतियोगिग्राहकेण वा बाधाभावात्सर्वं तेज इत्युक्तम् । एवं पक्षीभूत एव तेजस्यौष्ण्यस्य त्वचा ग्रहणेनोक्तरूपद्विविधप्रत्यक्षबाधोक्तिर्युक्तेति भावः ।। पक्षो बाधित इति । निश्चितसाध्याभावधर्मिभूतं तेजोजातमित्यर्थः । बाधकत्वे हेतुरुपजीव्येनेति । तत्र हेतुद्वयं धर्मिग्राहकेणेत्यादि । इन्द्रियत्वादितीत्यनन्तरमत्रेति पक्षो बाधित इति च पदत्रयानुषङ्गः । एवमग्रेऽप्यत्रेति पक्ष इति च पदद्वयानुषङ्गः ।। धर्मीति । रूपज्ञानं करणसाध्यं क्रियात्वादिति सामान्यपरिशेषाभ्यां चक्षुषो धर्मिणो ग्रहणाद्येनानुमानेन चक्षुषः सिद्धिस्तेनैव रूपग्राहकत्वेन सिद्धेस्तदनुमानेनबाधित इत्यर्थः ।। आगमेति । ब्राह्मणो न सुरां पिबेदित्यागमेनेत्यर्थः । आगमस्य निर्दोषतया बलवत्त्वादिति भावः । सत्प्रतिपक्षस्य लक्षणोदाहरणपूर्वमन्तर्भावमाह ।। समबलेति । स्पर्शवत्त्वादित्यनन्तरमयं हेतुरित्यनुषङ्गः । तस्य समबलप्रमाणविरोध एवेत्यन्वयः ।
श्रीविजयीन्द्रतीर्थ
।। अत्रेति । तेजोरूपपक्षग्राहकत्वं चौष्ण्यग्राहकप्रत्यक्षेण नाविशिष्टग्रहादिति भावः ।। चक्षुरिति । रूपग्राहकत्वेनैव तत्सिद्धेरिति भावः ।
श्रीवेदेशभिक्षु
।। प्रत्यक्षेणेति । स्पार्शनप्रत्यक्षेणेत्यर्थः ।। पक्ष इति । विशेषणबाधे विशिष्टबाधादिति भावः । चक्षुरिति । रूपग्राहकत्वेनैव तत्सिद्धेरिति भावः ।। अयमिति । त्रिविधोऽपि कालात्ययापदिष्ट इत्यर्थः ।
अभिनवामृतम्
।। समबलप्रमाणेति । समबलतया प्रमाणतयाऽभिमानेन प्रतिरुद्धः सत्प्रतिपक्ष इत्यर्थः। अत्र प्रतिरुद्धत्वमेव लक्षणमितस्तदुपपादनाय साधन इति । दूषणतया प्रवेशाभावेनेति शेषः । मूकोऽहं वक्ता वचनसमर्थत्वादिति तत्साधने प्राप्तस्य स्वक्रियाविरोधस्य तथा प्रयत्नान्तरव्यङ्ग्यत्वेन घटादीनामनित्यत्वं प्रसाध्यम् । यदा साधयति वर्णा नित्या विभुत्वादिति । तन्न । प्राप्तस्वन्यायविरोधस्य च साधने दूषणतया प्रवेशाभावेन हेत्वाभासान्तर्भावादित्यर्थः ।
श्रीविट्टलभट्ट
।। प्रमाणबाधित इति । प्रमाणेन साध्यरहिततया निश्चित इति वा प्रबलप्रमाणविरुद्ध इति वाऽर्थः । सद्धेतुव्यावृत्त्यर्थं प्रमाणबाधितपदम् । धर्मिग्राहकानुमानेन पक्षो बाधित इत्यनुवर्तते ।। द्रव्यत्वादीति । अत्रेति शेषः । आगमबाधितः पक्ष इत्यनुवर्तते । अयमपि कालात्ययापदिष्टः । प्रबलप्रमाणविरोध एवान्तर्भवतीति शेषः । यद्वा प्रबलप्रमाणविरोध एव भवतीत्यर्थः ।। समबलप्रमाणविरुद्ध इति । समपदं प्रमाणबाधितहेतुव्यवच्छेदाय ।। स्पर्शवत्त्वादिति । इतीत्यनन्तरं हेतुः सत्प्रतिपक्ष इति शेषः । तस्य सत्प्रतिपक्षत्वे हेतुमाह ।। वायुरिति ।