प्रमाणपद्धतिः

(३०) प्रमाणपद्धतिः

।। ६ ।। अर्थान्तरम् ।। प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरम् । यथा शब्दः प्रमेयत्वादित्त्यत्र प्रमेयत्वं हेतुः । हेतुशब्दश्च हिनोतेः धातोः स्तुन् प्रत्यये कृते सति कृदन्तपदमित्यादि । इदमनाकाङ्क्षितत्वात् असङ्गतिरेव ।

जयतीर्थविजय

प्रकृतेति । अत्रान्वितेत्यनेनान्वितपदादिप्रयोगरूपस्यापार्थकस्य निरासः । शिष्टं सुबोधम् । एतदेवाह वरदराजोऽपि । प्रकृतानुपयुक्तोक्तिरर्थान्तरमिति स्थितिरिति । इत्यादीत्यादिपदेनानित्यः शब्दः । ऐन्द्रियकत्वात् । स चाकाशगुण इत्यादेर्ग्रहणम् । अत्र न्यूनादिसम्भवेऽपि तस्योक्तग्राह्यत्वादस्य चोच्यमानग्राह्यत्वादिदमेवोद्भाव्यम् । अन्यथाऽप्राप्तावसरस्यानुद्भावनेन निग्रहोपपत्तेरित्युक्तं प्रमाणलक्षणटीकायाम् ।

भावदीपः

।। प्रकृतेति । अपार्थकेऽनतिव्याप्तयेऽन्वितेत्युक्तिः । उपयुक्तवचनेऽनतिव्याप्तये प्रकृतानुपयुक्तेत्युक्तिः ।

श्रीविजयीन्द्रतीर्थ

।। प्रकृतेति । अन्वितेत्यनेन निरर्थकापार्थकयोर्व्यवच्छेदः । परार्थान्वयबोधाजनकत्वेनान्वितोक्तिः स्वभावस्याविशेषात् । अस्यान्तर्भावमाह ।। इदमिति । अत्रासङ्गतिरेव दोष इत्यर्थः।

अभिनवामृतम्

।। इदमनाकाङ्क्षितत्वादिति । अनेन कथारूपसाधारणासङ्गतेरुदाहरणं सूचितम् ।

आदर्शः

।। असङ्गतिरेवेति । अयं भावः । प्रकृतानुपयुक्तान्वितोक्तित्वेन न हेतुना । तथा सत्यन्वितपदस्य वैय्यर्थ्यापत्तेः । प्रकृतानुपयुक्तोक्तिमात्रेण समयानभिज्ञत्वरूपपराजयानुमितेः सम्भवात् । अज्ञानविपर्ययादावन्वितोक्तेरप्रयोजकत्वात् । अनुपयुक्तत्वं च जिज्ञासानभिधायकमेवेति तेनैव रूपेणोद्भावनीयता न त्वर्थान्तरत्वेन । तथा सत्याधिक्येन निग्रहप्रसङ्गादिति वादिनोद्भावनासम्भवेऽपि पर्यनुयोज्योपेक्षणस्येव मध्यस्थेन प्राश्निकैर्वोद्भावनसम्भवात् । प्रतिवादिनाऽपि स्वसामान्य ज्ञानायाधिकविद्यत्वज्ञानाभावाय वोद्भावनीयत्वसम्भवात् । तथा च कथाफलस्याधिकविद्यत्वज्ञानस्यासम्भव एव । न चार्थान्तरोद्भावनेन कथायाः कथानिवृत्तेर्जायमानत्वात्तस्य कथं न निग्रहस्थानत्वमिति वाच्यम् । यतो दोषोद्भावनमात्रेण न कथापरिसमाप्तिः किन्तु यद्रूपावच्छिन्नमुद्भाव्यते तद्रूपावच्छिन्नप्रयोज्य विपर्ययाद्यनुमित्यैव । अन्यथा पुरःस्फूर्तिकानधिकृतोद्भावितस्यापि कथासमाप्तिहेतुत्वापत्तेः । न च वादिप्रतिवादिनोरन्यतरापेक्षयाऽन्यतरस्यापकर्षज्ञानप्रयोजकानुमितेरेव पराजयपदार्थः । तत्प्रयोजकस्यैव निग्रहस्थानत्वं कथं समाप्तिहेतुत्वं च । न चान्योद्भावितदोषस्य तादृशत्वं सम्भवतीति वाच्यम् । तर्हि प्रकृतेऽपि तादृशानुमितेरसम्भवात् । न चार्थान्तरप्रयोज्यानुमितिरुत्पद्यते किन्तु तद्घटकासङ्गतिप्रयोज्यैवेति तदभावान्न कथापरिसमाप्तिः । व्यर्थविशेषणघटितहेत्वाद्युक्तेः । स्वस्मिन्नप्यज्ञानाद्यनुमापकत्वेन स्वस्मिन्नुत्कर्षाज्ञापकत्वाच्च । तथा चाखण्डाहङ्कारकर्तृकपराहङ्कारखण्डनस्यैव परपराजयपदार्थत्वात्तद्धेतोरेव निग्रहस्थानत्वमिति नार्थान्तरस्य निग्रहस्थानत्वमिति ।

श्रीविट्टलभट्ट

।। प्रकृतानुपयुक्तेति । प्रकृतस्य प्रसक्तस्य साधनस्य दूषणस्य वाऽनुपयुक्तमसङ्गतमनन्वितं च । यत्तस्योक्तिरर्थान्तरमित्यर्थः । प्रकृतानुपयुक्तानन्वित शब्दप्रयोगेऽपार्थकेऽतिव्याप्तिपरिहारायान्वितपदोपादानम् । समीचीनपदव्यावृत्त्यर्थं प्रकृतानुपयुक्तेति विशेषणम् ।। कृदन्तपदमित्यादीति । शब्दो नित्यः स चाकाशगुण इत्यादिरादिशब्दार्थः।। इदमिति । अर्थान्तरमपि प्रकृतोपयोगाभावेन श्रोतुर्नाकाङ्क्षितत्वादाकाङ्क्षाभावरूपासङ्गतिरेव भवतीत्यर्थः । प्रकृतासङ्गतोक्तेनैवार्थान्तरस्य दोषत्वादर्थान्तरमसङ्गतिरिति भावः ।