प्रमाणपद्धतिः

(२०) प्रमाणपद्धतिः

सम्भवन्ति चान्येऽपि प्रकाराः । पर्वतोऽग्निमान्धूमवत्त्वान्महानसवदिति वा । धूमवान्पर्वतोऽग्निमानिति हेतुगर्भं पक्षवचनं वा । विवादेनैव प्रतिज्ञासिद्धौ कुतः पर्वतोऽग्निमानिति प्रश्ने धूमवत्त्वादिति हेतुमात्रं वा । पर्वतस्याग्निमत्त्वे किं प्रमाणमिति पृष्टे धूमवत्त्वमिति लिङ्गोक्तिमात्रं वा । धूमवन्महानसवत्पर्वतोऽग्निमानिति सप्रतिज्ञं हेतुगर्भं दृष्टान्तवचनं वा । अग्निव्याप्यो धूमोऽत्र पर्वतेऽस्तीत्युपनयो वा । व्याप्त्यादिमद्धूमवत्त्वात्पर्वतोऽग्निमानिति निगमनं वेति । सांव्यावहारिकैश्चैते प्रकाराः सर्वेषु शास्त्रेष्वित्येवं प्रकारमनुमानमिति ।

जयतीर्थविजय

।। महानसवदिति । इति प्रतिज्ञाहेतूदाहरणैकदेशदृष्टान्तवचनमात्रेण वेत्यर्थः । अनुमानमुद्राभिज्ञस्य व्याप्तिग्रहणस्थल उक्ते व्याप्तिस्मृतिर्भवत्येवेति न न्यूनता । व्याप्तिवाचकतुशब्दस्तु यो यो धूमवानसावसावग्निमानित्युदाहरणभागान्तरेऽपि नास्तीति भावः ।। पक्षवचनं वेति । अग्निव्याप्तधूमवान्पर्वतोऽग्निमानिति पक्षवचनं वेत्यर्थः । अत्र धूमवत्त्वादिति पञ्चम्यन्ताभावेऽपि लोके शास्त्रे च हेतुगर्भप्रयोगान्दृष्टवतो व्युत्पन्नस्य धूमवत्त्वं हेतुरिति धीर्भवत्येवेति न न्यूनतेति भावः ।। हेतुमात्रं वेति । ननु प्रतिज्ञाभावेन साध्यानुपस्थित्या न्यूनतेत्यत आह ।। विवादेनैवेति । अत्र धूमवत्त्वादिति हेतुश्रवणजनिताकाङ्क्षाशामकप्रतिज्ञाया अभावेऽपि प्रश्नस्थेनाग्निमानित्यनेन धूमवत्त्वादित्यस्यान्वयान्नापार्थकतेति ज्ञेयम् ।। दृष्टान्तवचनं वेति । अत्र महानसवदिति व्याप्तेर्धूमवदिति दृष्टान्तवचनेन दृष्टान्तविशेषणेन च पक्षधर्मतायाश्चोपस्थितिरिति न न्यूनता । न चैवं वादिवाक्यस्याप्याप्तवाक्यवदनुसरणीयत्वे निग्रहोद्भावनं न स्यादिति वाच्यम् । प्रमापकतांशत्यागेन ज्ञापकत्वांशे लोके शास्त्रे प्रकृतरीत्यनुसारिणो वादिवाक्यस्याप्यनुसरणीयत्वात् । अन्यथाऽग्निमानित्युक्तेऽग्निशब्दस्य चित्रमूलाद्यर्थत्वमादायार्थान्तराद्युद्भावनं न स्यात् । यत्तु सुधायां सादृश्यसम्बन्धादिकं किमप्यन्वेष्टव्यमित्यादिना व्याप्तिपक्षधर्मतयोरन्यतरस्मिन्नुक्तेऽन्यस्य स्मृतिर्भविष्यतीत्युक्तिः सा दृश्यते खलु लोके पदैकदेशादितोऽपि पदार्थस्मरणादिकमित्युक्तिवदर्धवाक्याभिप्राया वैकोक्तिमात्रेणान्यस्मृतिमत्पुरुषविशेषाभिप्रायां वा कैमुत्याभिप्राया वा न तु द्वयोरन्यतरदेवाभिधेयमित्यभिप्राया वा । अत एव विष्णुतत्त्वनिर्णयटीकायां स्मरणं तु यदैकदेशादिभिरपि दृष्टं किमुत प्रतिज्ञादिभिरित्युक्तम् । अत एव च ब्रह्मतर्के युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका । तथोपनयरूपा च परा निगमनात्मिकेत्यवयवपञ्चकस्य प्रत्येकं परार्थानुमानत्वं प्रतिज्ञायान्ते व्याप्तिमाश्रित्य केवलमित्युक्त्या सर्वत्रापि व्याप्त्यभिधानं सूचितम् । विष्णुतत्त्वनिर्णयटीकायामपि व्याप्तिमाश्रित्येत्यपि पक्षान्तरमित्युक्त्या प्रतिज्ञादावपि व्याप्त्यभिधानं सूचितम् । प्रमाणलक्षणेऽपि हेतुगर्भा प्रतिज्ञा केवलाऽपि । सिद्धौ प्रतिज्ञायां हेतुमात्रं च । दृष्टान्तः सप्रतिज्ञो हेतुगर्भ इति व्याप्यरूपलिङ्गवचनार्थकेन हेतुशब्देन सर्वत्रापि व्याप्त्यभिधानं सूचितम् । सुधायामपि स्वसामर्थ्यलिङ्गप्रतिपादकं वाक्यमुपदेश इत्युक्तम् । उक्तानामेकादशप्रकाराणां सर्ववादिव्यवहारसिद्धत्वं वदन्नेवानुमानविभागमुपसंहरति ।। सांव्यावहारिका इति ।। सर्वेषु शास्त्रेष्विति । चार्वाकशास्त्रातिरिक्तसर्वशास्त्रेष्वित्यर्थः । अयमाशयः । पञ्चावयवादिनियमोऽपि विप्रतिपन्नं मीमांसकं प्रति नैयायिकेनानुमानेनैव साध्यः । तस्य प्रत्यक्षाद्यविषयत्वात् । पञ्चावयवादिप्रयोगेण तत्साधने मीमांसादिकान्प्रत्याधिक्यं स्यात् । तत्परिहारार्थं पञ्चावयवादिनियमस्य तात्त्विकत्व साधने चानवस्था स्यात् । तद्रीत्या त्र्यवयवादिप्रयोगे च नैयायिकस्य न्यूनत्वापातात्तन्मतरीत्या प्रयोक्तव्यमिति वा यावता व्याप्त्यादिविशिष्टलिङ्गधीस्तावत्प्रयोक्तव्यमिति वा समयबन्धे च मीमांसकादिना स्वाभिमतावयवसिद्ध्यर्थं कृतेन त्र्यवयवादिप्रयोगेण नैयायिकस्य व्याप्तिस्मृतिरावश्यकीति स्वीकृतत्वेन नैयायिकैरेव पञ्चावयवनियमस्त्याज्यः । एवं मीमांसकादिभिरपि स्वाभिमतो नियमस्त्याज्य इति कथं तन्नियम इति ।। इत्येवंप्रकारमिति । अत्राद्य इतिशब्दो हेत्वर्थः । यतः सांव्यावहारिकास्तस्माद्धेतोरित्यर्थः । द्वितीय इतिशब्दोऽनुमानविभागनिरूपणसमाप्त्यर्थः ।। एवं प्रकारमिति । कार्यकारणाकारणदृष्टसामान्यतोदृष्टसाधनदूषणस्वार्थपरार्थभेदभिन्नमित्यर्थः ।

भावदीपः

।। सम्भवन्ति चेति । व्याप्तिस्मरणलिङ्गज्ञानजननविषय इति योज्यम् ।। महानसवदिति । व्याप्तिग्रहस्थले उक्तेऽभिज्ञस्य व्याप्तिस्मृतिर्भवतीति भावः ।। धूमवान्पर्वत इति । वह्निव्याप्यधूमवानिति विशेषणं ध्येयम् । लोके शास्त्रे च हेतुगर्भप्रयोगान् दृष्टवतो व्युत्पन्नस्य धूमवत्त्वं हेतुर्भवत्येवेति भावः ।। विवादेनैवेति । अग्निमानिति कश्चिन्नाग्निमानित्यन्य इति विवादेनाग्निमान्पर्वत इति प्रतिज्ञासिद्धावित्यर्थः । अत्र पक्षे धूमवत्त्वादित्यस्य प्रश्नस्थेनाग्निमानित्यनेनान्वयान्नापार्थकता । अत्राप्यग्निव्याप्यधूमवत्त्वादिति विशेषणं ध्येयम् । धूमवत्त्वमित्यत्राप्यग्निव्याप्यधूमवत्त्वमिति ज्ञेयम् ।। धूमवन्महानसवदिति । अस्मिन्पक्षे महानसवदित्यनेन व्याप्तिः । धूमवदिति दृष्टान्तविशेषणेन पक्ष (धर्म) तायाश्चोपस्थितिरिति भावः । इति पदस्येत्यन्ये प्रकारा इति पूर्वेणान्वयः । एते सप्तापि प्रकारा नालौकिका इत्याह ।। सांव्यावहारिकाश्चेति । सम्यग्व्यवहारसिद्धा इत्यर्थः । उपसंहरति ।। इत्येवं प्रकारमनुमानमिति । इति हेतोरस्मदुक्तप्रकारमेवानुमानमिति ।

श्रीविजयीन्द्रतीर्थ

परसिद्धप्रकारैरनियममुक्त्वा स्वयं प्रकारान्तराणि सप्तविधान्याह ।। सम्भवन्तीति । प्रतिपाद्यपुरुषवैचित्र्यादिति भावः । नन्वागमतया न्यायस्य बोधकत्वाभावेऽपि कथकसम्प्रदायसिद्धतयाऽवयवनियमो युक्त इत्यत आह ।। सांव्यवहारिकाश्चेति । कथकसम्प्रदायोऽसिद्धः शास्त्रकारैरेव पूर्वोक्तनानाप्रकारैर्व्यवहारादिति भावः । एवं च स्वमते वाक्याद्यघटकोपपत्तिप्रतिपादकवाक्यत्वं न्यायत्वम् । वाक्याघटकपदेन प्रतिज्ञादिपञ्चकादिप्रयोगे तदन्तर्गतहेतुवचनस्य मात्रस्य न्यायत्वं परिहृतम् ।

श्रीवेदेशभिक्षु

।। अन्येऽपीति । प्रमाणलक्षणब्रह्मतर्काद्युक्ता इत्यर्थः । ननूक्तप्रकारेषु न्यूनाधिक्योद्भावनमेव कस्मान्न क्रियते । युक्तमवोयं ब्रवीतीति वादिनि प्रतिवादिनः प्रत्ययाभावादित्यत आह ।। सांव्यावहारिका इति । प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणमित्यादि तत्र तत्र शास्त्रे परीक्षकैर्व्यवहृताः सर्व एवैते प्रकारा इत्यर्थः । तथा च परीक्षकव्यवहारातिक्रम एव न्यूनाधिकमुद्भावनीयमिति भावः । उपसंहरति ।। इतीति । निरूपितमिति शेषः ।

श्रीविट्टलभट्ट

न केवलपरोक्ताश्चत्वार एव परोपदेशाः किन्त्वन्येऽपि सम्भवन्तीत्याह ।। सम्भवन्ति चान्येऽपीति । तानेव प्रकारान्दर्शयति ।। पर्वतोऽग्निमानित्यादिना । महानसवदित्यनन्तरं वचनमिति शेषः । आद्यपक्षे व्याप्तिग्रहणस्थल उक्तेऽनुमानमुद्राभिज्ञस्य व्याप्तिस्सृतिर्भवत्येवेति न्यूनता । न हि यो यो धूमवानसावग्निमानित्युदाहरणभागान्तरेऽपि व्याप्तिवाचकं पदमस्ति येन तदावश्यकं स्यादिति भावः । द्वितीयेऽपि लोकशास्त्रयोर्हेतुगर्भविशेषणानि दृष्टवतो व्युत्पन्नवतो धूमवत्त्वस्य लिङ्गत्वप्रतीतेः प्रतिज्ञासाध्यस्य लिङ्गधर्मिणश्च प्रतीतेर्व्याप्तिपक्षधर्मताविशिष्टलिङ्गप्रतीतिर्भवतीति न्यूनतेति भावः । सुधायाम् । न सामर्थ्यलिङ्गवत्प्रतीतिजनकं वाक्यं परोपदेशयुक्तत्वात् । अत्राप्यग्निना व्याप्तो धूमः पर्वतेऽस्तीत्युपनयो वा व्याप्त्यादिधूमवत्त्वात्पर्वतोऽग्निमानिति निगमनं चेत्युक्तत्वाच्च । धूमवानित्यत्राग्नि व्याप्त्येति पूरणीयम् । एवं तृतीये धूमवत्त्वादित्यत्र चतुर्थे धूमवत्त्वमित्यत्रेदं दूषणं ज्ञातव्यम् । यद्वा सुधायां संस्कारोद्बोधकं सादृश्यसम्बन्धादिकं किमपेक्ष्यमित्यादिना व्याप्तिपक्षधर्मतयोरन्यतरस्मिन्नुक्तेऽ न्यस्य स्मृतिर्भविष्यतीत्युक्तत्वान्नात्रेदं विशेषणमुपादेयम् । न चैवं न्यूनतावभाससामर्थ्यलिङ्गस्मृतित्वादिकं तावत एव वक्तव्यत्वेनैतावताऽप्यनुमानमुद्राभिज्ञस्य सामर्थ्यलिङ्गस्मृत्यादेर्जायमानत्वात् । प्रतिवादिन आकाङ्क्षाक्रमेण व्याप्त्यादेर्द्वितीयतृतीयकक्ष्यासूक्तिसम्भवाच्च । न ह्युत्तरक्रमेणाकाङ्क्षिष्यमाणं सर्वमादावेव वाच्यमिति श्राद्धनियमः । अन्यथाऽऽकथापरिसमाप्ति यावद्वक्तव्यं तावत आदावेवोक्तिप्रसङ्गात् । न चैवं सति प्रकारचतुष्टये वोपनये वा निगमनं चेति स्वोक्तप्रकारद्वये वाऽऽधिक्यं स्यादिति वाच्यम् । लोकशास्त्रे च सूक्ष्मबुद्धिमन्दबुद्धिपुरुषापेक्षयोभयथाऽपि प्रयोगदर्शनान्मन्दबुद्धिपुरुषापेक्षया सामर्थ्यलिङ्गोपस्थित्यर्थमेवं प्रयोगस्य वक्तव्यत्वान्नोक्तशङ्कावकाश इति तृतीये हेतुना लिङ्गोपस्थिते विवादलब्धं प्रतिज्ञया प्रश्नवाक्येन वा साध्यधर्मस्य लिङ्गधर्मिणश्चोपस्थितेः सामर्थ्यलिङ्गस्मृत्यादिसम्भवान्न न्यूनता । धूमवत्त्वादित्यस्य प्रश्नस्थेनाग्निमानित्यनेनान्वयेनापार्थकताऽपीति भावः । चतुर्थे धूमवत्त्वमित्यस्य प्रश्नस्थेन प्रमाणमित्यनेनान्वयान्नापार्थकता । प्रत्यक्षशब्दातिरिक्तस्य प्रामाण्यलिङ्गविधयैवेति जानतो भवत्येव । ततः सामर्थ्यलिङ्गस्मृत्यादिकमिति न न्यूनताऽपीति भावः । लिङ्गोक्तिमात्रमित्यत्र पदं पञ्चम्यन्तविभक्तिव्यावृत्त्यर्थमुपात्तं च । पञ्चमे धूमवदिति दृष्टान्तविशेषणे च पक्षधर्मतायाश्च स्मृतिर्न न्यूनतेति भावः ।। निगमनं वेतीति । इत्यन्ये प्रकाराः सम्भवन्तीति पूर्वेणान्वयः । सर्वैरपि वादिभिरेवमेव व्यवहारान्नियमपक्षो युक्त इत्यत आह ।। सांव्यावहारिकाश्चैत इति । एते परोक्ता अस्मदुक्ताः परोपदेशप्रभेदाः सर्वे सर्वेषु शास्त्रेषु सांव्यावहारिकाः । पर्वतोऽग्निमान्धूमवत्त्वान्महानसवदित्यादिरूपेण व्यवह्रियमाणश्चेति हेतोरेवंप्रकारमस्मदुक्तानियतावयववाक्यप्रभेदोपेतमनुमानं परोपदेशात्मकमनुमानमित्यर्थः । अनियतावयववाक्यं स्वशास्त्रे प्रयुञ्जता परेणावयवनियमाभिधाने क्रियाविरोधः स्यादिति भावः । यद्वा सर्वेषु शास्त्रेष्वितीति शब्दः परोपदेशनिरूपणपरिसमाप्तौ वर्तते । एवंप्रकारमनुमानमित्यनेनानुमानविभागनिरूपणमुपसंहरति । सर्वेष्विति । एवंप्रकारं कार्यानुमानमकार्यकारणानुमानं चेत्यादिप्रकारेणास्मदुक्तविभागोपेतमनुमानमित्यर्थः ।