अपसिद्धान्तस्तु स्ववचनविरोध एव
(७१) प्रमाणपद्धतिः
।। अपसिद्धान्तः ।। अपसिद्धान्तस्तु स्ववचनविरोध एव । यथा प्राभाकरस्येश्वराभ्युपगमः ।
जयतीर्थविजय
।। स्ववचनविरोध एवेति । पूर्वाचार्यवाक्यस्यापि स्वयमभ्युपगतत्वेन स्ववचनत्वादिति भावः ।। प्राभाकरस्येति । तस्य निरीश्वरवादित्वादिति भावः ।
भावदीपः
एवं प्रतिज्ञाहान्यादिनिग्रहस्थाननिर्देशकन्यायसूत्रे निर्दिष्टानां निरनुयोज्यानुयोगान्तानां विंशतिनिग्रहस्थानानां सप्रभेदं स्वरूपमन्तर्भावं चाभिधाय क्रमप्राप्तमेकविंशमपसिद्धान्तमपि प्राङि्नरूपितस्वरूपं स्ववचनविरोधप्रभेदतयोक्त्याऽर्थात्तत्रान्तर्भावं प्राप्तमपीहान्तर्भावप्रस्तावात्स्पष्टत्वायान्तर्भावयति ।। अपसिद्धान्तस्त्विति ।
श्रीविजयीन्द्रतीर्थ
अपसिद्धान्तरूपं निग्रहस्थानमन्तर्भावयति ।। अपसिद्धान्तस्त्विति ।
श्रीवेदेशभिक्षु
एवं निरनुयोज्यानुयोगस्य प्रभेदस्यान्तर्भावं निरूप्येदानीं क्रमप्राप्तस्यापसिद्धान्तरूपनिग्रहस्थानस्य लक्षणस्य पूर्वमेवोक्तत्वादन्तर्भावमेवाह ।। अपसिद्धान्तस्त्विति । पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वादिति भावः ।
आदर्शः
।। अपसिद्धान्तस्त्विति । स्ववचनविरोध इत्यस्य स्वस्मिंस्तदर्थाङ्गीकारज्ञापकवचनविरोध इत्यर्थः । न तु स्वकर्तृकवचनविरोधः । तथा च पूर्वाचार्यवचनस्यापि तादृशत्वेन स्ववचनविरोधरूपत्वमिति ज्ञेयम् । न च स्वाचार्यवचनविरोध एवापसिद्धान्तः । तस्य तेनैव रूपेणोद्भावनीयत्वमस्त्विति वाच्यम् । तथा सति ख्यात्याद्यर्थं परसिद्धान्तमवलम्ब्य कथायां प्रवृत्तस्य निग्रहस्थानत्वाभावप्रसङ्गात् । तत्सिद्धान्तकर्तुस्तदाचार्यत्वाभावादाभिमानिकं तदस्तीति वाच्यम् । तत्पक्षसाधनमात्रेण फलोपपत्तौ तत्काले तदभिमानाङ्गीकारे प्रयोजनाभावात् । तत्सिद्धान्तविरुद्धं न वक्तव्यमिति समयबन्धमात्रेण कथाफलोपपत्तौ तत्कालेऽभिमानाङ्गीकारे प्रयोजनाभावात् तत्सिद्धान्तविरुद्धं न वक्तव्यमिति समयबन्धमात्रेण कथाप्रवृत्तिसम्भवात् । मम तु तत्सिद्धान्तसिद्धप्रमेयाङ्गीकाराभिमानस्य तदानीं सत्त्वं विना प्रवृत्त्ययोगात्तादृशाभिमानस्य तदानीमावश्यकत्वेनाभिमानाङ्गीकारानुमापकत्वं तदाचार्यवचसां भवतीत्यपसिद्धान्तस्य दोषत्वं सम्भवतीति ध्येयम् ।
श्रीविट्टलभट्ट
अपसिद्धान्तस्य स्ववचनविरोधप्रभेदत्वे स्वोक्तत्वेऽपि परोदीरिताशेषनिग्रहस्थानान्तर्भावकथनप्रकरणत्वात्तस्यान्तर्भावमाह ।। अपसिद्धान्तस्त्विति । लक्षणस्य प्रागेवोक्तत्वादत्रानुक्तिरिति बोध्यम् ।