प्रमाणपद्धतिः
(२९) प्रमाणपद्धतिः
।। ५ ।। हेत्वन्तरम् । प्रथममविशिष्टतयोक्ते साधकांशे पुनरधिकप्रक्षेपो हेत्वन्तरम् । हेतुरुदाहरणे प्रयोजकांश उपनयो दूषणं चेति साधकांशः । यथा शब्दो नित्य ऐन्द्रियकत्वादित्युक्ते सामान्येनानैकान्त्येऽभिहिते सामान्यवत्त्वे सतीत्यादि । एतत्प्रतिज्ञान्तरनिरासेनैव निरस्तम् । प्रतिज्ञाग्रहणस्योक्तोपलक्षणत्वेन पृथङ् न वक्तव्यं च । अनुपलक्षणत्वे तूदाहरणान्तरादिकमपि पृथग्वाच्यं स्यात् । प्रतिज्ञापदेन साध्यांश एवोपलक्ष्यत इति चेन्न । वैय्यर्थ्यात् । अन्यथा प्रतिज्ञाहान्यादावपि किं विभागो न क्रियत इति ।
जयतीर्थविजय
।। प्रथममिति । साधकांशशब्देन साध्यसाधकधूमवत्त्वादिति हेतुमात्रप्रतीतेराह ।। हेतुरिति ।। प्रयोजकांश इति । यो यो धूमवानित्यादिहेत्वंश इत्यर्थः ।। प्रतिज्ञान्तरनिरासेनेति । एकस्य साधनस्य दूषणतयेत्याद्युक्तरीत्या हेत्वन्तरस्यापि जल्पवितण्डयोर्निग्रहस्थानत्वाभावात् । वादे तु शङ्कानिवृत्तिपर्यन्तं प्रतिवक्तव्यत्वादिव्युक्तन्यायस्यात्रापि साम्यादिति भावः । दूषणान्तरमाह ।। प्रतिज्ञेति ।। उक्तोपलक्षणत्वेनेति । उक्तमात्रोपलक्षणत्वेनेत्यर्थः । यद्यपि नैयायिकग्रन्थेषु हेत्वन्तरलक्षणे प्रतिज्ञापदमेव नास्ति तथाऽपि प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिरिति प्रतिज्ञाहानिलक्षण सूत्रस्थप्रतिज्ञाग्रहणस्याक्तमात्रोपलक्षणत्ववत्प्रतिज्ञार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरमिति प्रतिज्ञान्तरलक्षणसूत्रस्थप्रतिज्ञापदस्योक्तमात्रोपलक्षणत्वाङ्गीकारे बाधकमाह ।। अनुपलक्षणत्व इति । प्रतिज्ञाग्रहणस्येत्यनुवर्तते ।। पृथग्वाच्यमिति । तथा च निग्रहस्थानानां द्वाविंशतित्वं भज्येतेति भावः ।। अन्यथेति । यदि वैय्यर्थ्येऽपि प्रतिज्ञापदं साध्यांशमात्रोपलक्षणं तदा तद्वदेव प्रतिज्ञाहानिलक्षणसूत्रगतप्रतिज्ञापदस्यापि साध्यांशमात्रोपलक्षणत्वसम्भवेन प्रतिज्ञाहानिर्हेतुहानिरुदाहरणहानिरित्यादिविभागोपपत्तौ द्वाविंशत्वभङ्ग एवेति भावः ।
भावदीपः
।। दूषणं चेति । इदमसाधकमसिद्धत्वादिति दूषणं चेत्यर्थः ।। प्रतिज्ञान्तरनिरासेनैवेति । पूर्वकथानुवर्तते कथान्तरं वेत्यादिविकल्पो दूषणानि चात्राप्यनुसन्धेयानीत्यर्थः । अतो नास्यान्तर्भावो वाच्य इति भावः । निग्रहस्थानपरिगणनसूत्रे प्रतिज्ञान्तरमित्यत्र प्रतिज्ञापदेन हेतोरप्युपलक्षणे सति प्रतिज्ञान्तरं हेत्वन्तरमिति द्वयोरपि ग्रहणसम्भवे पुनर्हेत्वन्तरमिति न वक्तव्यम् । उदाहरणान्तरादिकमिति । उपनयान्तरं दूषणेऽपि हेतावधिकप्रक्षेपेण दूषणान्तरमपीत्यादिपदार्थः । किं विभाग इति । हेतुहानिर्हेतुसन्न्यास उदाहरणहानिरुदाहरणसन्न्यास इत्यादिरपि पृथग्वाच्यः स्यादित्यर्थः ।
श्रीविजयीन्द्रतीर्थ
।। प्रथममिति । न च प्रथममनुक्तसकलसाधकांशस्याभिधानेऽव्याप्तिः । प्रथमविशिष्टोक्तेरभावादिति वाच्यम् । कथामध्ये प्रागनुक्तसाधकाभिधानमित्यर्थत्वात् । अस्य निग्रहस्थानत्वं तावद्दूषयति ।। एतदिति । पूर्वकथायाः साधनदुष्टतया समाप्तेः साधकान्तरावसरासम्भवात् । कथान्तरत्वे प्रथममेवोक्तत्वाद्धेत्वन्तरत्वासम्भव इति न्यायेनेत्यर्थः । निग्रहस्थानत्वेऽपि चापार्थक्यं न सम्भवतीत्याह ।। प्रतिज्ञेति । उपलक्षणत्वमेव विपक्षबाधकोक्त्योपपादयति ।। अनुपलक्षणत्व इत्यादिना । उक्तहानित्वेन दोषत्वे विशेषापादनमनर्थकम् । प्रतिज्ञाहानित्वादिना दोषत्वे तेन रूपेण विभागप्रसङ्ग इत्यर्थः ।
श्रीवेदेशभिक्षु
।। दूषणं चेति । असाधकताहेतुरित्यर्थः ।। वैय्यर्थ्यादिति । साध्यांशमात्रोपलक्षणस्य प्रयोजनविशेषानुपलम्भेन व्यर्थत्वादिति भावः ।। अन्यथेति । यदि प्रतिज्ञापदेन साध्यांशमात्रमुपलक्ष्य हेत्वन्तरं पृथगुच्येत तदा प्रतिज्ञाहानिरित्यत्रापि प्रतिज्ञापदेन साध्यांशमात्रमुपलक्ष्य हेतुहान्यादिकमपि पृथग्वाच्यं स्यादित्यर्थः । आदिपदेन प्रतिज्ञाविरोध ग्रहणम् । तस्मात्तत्र यथा प्रतिज्ञापदेन हेत्वादिकमुपलक्ष्य हेतुहान्यादिकं पृथङ् नोच्यते । तथा हेत्वन्तरमपि पृथङ् न वाच्यमिति भावः । अर्थान्तरलक्षणे आधिक्येऽतिव्याप्तिवारणाय प्रकृतानुपयुक्तेति । अपार्थकव्यावृत्तयेऽन्वितेति च विशेषणमुक्तमिति द्रष्टव्यम् ।
अभिनवामृतम्
।। एतत्प्रतिज्ञान्तरनिरासेनैवेति । किं पूर्वैव कथा प्रवर्तते उत कथान्तरमित्युक्तन्यायेनेत्यर्थः ।। प्रतिज्ञाहान्यादावपीति । प्रतिज्ञापदेन साध्यभागमात्रमुक्त्वा हेतुहानिः पृथगेव किं नोच्यत इत्यर्थः ।
आदर्शः
।। प्रथममिति । एतत्प्रतिज्ञान्तरन्यायेन ।। निरस्तमिति । एतत्तत्त्वं विवेचितमधस्तात् । प्रतिज्ञाहान्यादावपीति । आदिपदेन प्रतिज्ञाविरोधो ग्राह्यः । तथा च हेतुहानिर्हेतुविरोध इत्येवमुदाहरणादावपि विभागः कर्तव्यः स्यादिति भावः ।
वाक्यार्थमञ्जरी
।। स्तुत्प्रत्यय इति । उपलक्षणमेतत् । सार्वधातुके गुणे च कृत इत्यपि द्रष्टव्यम् ।
श्रीविट्टलभट्ट
।। प्रथमविशिष्टतयोक्त इति । पूर्वं दोषरहिततया निर्दिष्टे साधकभागे दूषिते पुनर्विशेषण प्रक्षेपप्रदानमित्यर्थः । प्रतिज्ञान्तरव्यावृत्त्यर्थं साधकांशविशेषणम् । साधकांशः क इति जिज्ञासायामाह ।। हेतुरिति । उदाहरणे प्रयोजकांशो लिङ्गप्रतिपादको भाग इत्यर्थः ।। सामान्यवत्त्वे सतीत्यादि । यदैन्द्रियकं तदनित्यं यथा घट इत्युक्ते न्यूनतोक्तौ सामान्यवत्त्वे सतीत्यादिरादिशब्दार्थः ।। एतदिति । हेत्वन्तरमपि प्रतिज्ञान्तरनिरासेनैव प्रतिज्ञान्तरनिराकरणप्रकारेणैव निरस्तं निग्रहस्थानत्वेन निराकृतमित्यर्थः । निर्दिष्टस्य साधकांशे पुनर्विशेषणप्रक्षेपे किं प्राचीनकथैवानुवर्तते उत कथान्तरम् । नाद्यः । एकस्य साधनस्य स्थितौ भङ्गे च कथायाः परिसमाप्तत्वादित्यादि प्रतिज्ञान्तरनिराकरणप्रकारोऽनुसन्धेयः । दूषणान्तरं चाह ।। प्रतिज्ञाग्रहणस्येति । प्रतिज्ञापदोपादानस्येत्यर्थः । प्रतिज्ञा गृह्यते ज्ञायतेऽनेनेति व्युत्पत्त्या ग्रहणपदप्रतिपादनरूपस्येत्यर्थः । अत एव प्रतिज्ञापदेनेति वक्ष्यति । प्रतिज्ञान्तरमित्यत्र प्रतिज्ञापदस्याजहत्स्वार्थलक्षणया हेत्वाद्यवयवपरत्वे हेत्वन्तरं पृथक् प्रतिज्ञान्तरं भिन्नं न वाच्यमित्यर्थः ।। अनुपलक्षणे त्विति । प्रतिज्ञाग्रहणस्येत्यनुवर्तते । हेत्वाद्यवयवान्तरालक्षकत्वे प्रतिज्ञारूपावयवमात्रपरत्व इति यावत् । उदाहरणादिकमपीत्यत्रोदाहरणादिकमादिशब्दार्थः ।। प्रतिज्ञापदेनेति । प्रतिज्ञान्तरमित्यत्र प्रतिज्ञापदेन साध्यांश एव प्रतिज्ञोदाहरणे प्रयोज्यभागः ।। निगमनं चेति । साध्याभागः स एवोपलक्ष्यते । अजहत्स्वार्थलक्षणया प्रतिपाद्यते न तु साधकांश इत्यर्थः ।। वैय्यर्थ्यादिति । साध्याभाग एव लक्ष्यत इति नियमस्य निष्प्रयोजनत्वादित्यर्थः । प्रतिज्ञापदस्य लक्षकत्वे आवश्यकत्वे सति नियामकाभावादुक्तनियमो व्यर्थ इति भावः । विपक्षे बाधकमाह ।। अन्यथेति । प्रतिज्ञान्तरमित्यत्र प्रतिज्ञापदेन साध्यांश एवोपलक्ष्यत्वेऽननुसाधकांश इति विभागः । किं क्रियते कुतो न क्रियत इत्यर्थः । तत्राप्युक्तविभागाङ्गीकारे तु हेतुहानिर्हेतुविरोधो हेतुसन्न्यास इति निग्रहस्थानानां पृथग्ग्रहणादिति दूषणमनुसन्धेयम् ।। इतीति । हेत्वन्तरस्य निग्रहस्थानान्तरस्य निराकरणपरिसमाप्तिरिति शब्दार्थः ।