प्रमाणपद्धतिः

(३२) प्रमाणपद्धतिः

।। ८ ।। अविज्ञातार्थम् । त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थवाचकपदमविज्ञातार्थम् । यथा कश्यपतनयाधृतिहेतुरयं त्रिनयनतनयासनसमाननामधेययुक्त इत्यादि । तद्ध्वजवत्त्वादित्यादि । इदमप्यनुक्तिरेव ।

जयतीर्थविजय

।। त्रिवारमिति । अत्र त्रिवारमिति लोकप्रमितमर्यादयोक्तम् । वस्तुतस्तु यावद्वारमुक्ते परिषत्प्रतिवादिनोरन्वयबोध उत्पत्तुमर्हति तावद्वारम् । तदपि न लक्षणशरीरानुप्रवेशेन । किन्तु सकृदुच्चारणमात्रेण विज्ञातार्थस्य कथं दोषत्वमिति शङ्कानिरासार्थम् । लक्षणं तु तत्काले परिषदविज्ञातमहावाक्यार्थसंसर्गबोधकपदप्रयोगोऽविज्ञातार्थमिति विवक्षितम् । तत्काले परिषदविज्ञातो यो महावाक्यार्थभूतः संसर्गस्तद्बोधकपदप्रयोगत्वमित्यर्थः । प्रतिवादीति विशेषणमपि न लक्षणशरीरान्तर्गतम् । परिषद्ग्रहणेनैव तत्प्रयोजनसिद्धेः । अत्र तत्काल इत्यनेन कालान्तरे कश्यपतनयेत्यादेरेव बहुपर्यालोचनया महावाक्यार्थबोधसम्भवेनासम्भवनिरासः । ननु कश्यपेत्यादेः परिषदं प्रति तात्पर्यविषयसंसर्गबोधस्तदानीं नास्तीति कृत्वा बोधकत्वलक्षणस्यासम्भव इति चेन्न । संसर्गबोधकपदेन संसर्गबोधजननस्वरूपयोग्यत्वस्य विवक्षितत्वात् । तच्च वाद्युपदेशेनान्यपुरुषस्य परिषदो वा कालान्तरे बह्वालोचनयोपपद्यत इति नासम्भवः । एतावत्कुसृष्टियुतं संसर्गबोधकपदं किमर्थमिति चेन्न । कचटतपानां जबगडदत्वादित्यत्रातिव्याप्तिनिरासकत्वात् । तन्निरासार्थं पदार्थबोधकत्वमेवोच्यतामिति चेन्न । कुण्डमजाजिनमित्याद्यपार्थकोदाहरणेऽतिव्याप्त्यापत्तेरिति । परिषद्ग्रहणं तु तत्काल एव दैवादागतातिनिपुणपरिषदादिबहिर्भूतपुरुषविशेषस्य तद्वाक्यादन्वयबोधमादायासम्भववारणायेति । तदुक्तं वरदराजेन ।

त्रिर्यदन्तरमुक्तेऽपि प्राश्निकैः प्रतिवादिना ।

वाक्यमज्ञायमानार्थमविज्ञातार्थमुच्यत इति ।।

अविज्ञातार्थमुदाहृत्य दर्शयति ।। यथेत्यादिना । कश्यपतनया भूमिस्तद्धृतेर्भूमिधारणस्य हेतुः पर्वत इत्यर्थः । त्रिनयनस्य तनयः षण्मुखस्तस्यासनं मयूरस्तत्समाननामधेयो वह्निस्तेन युक्त इत्यर्थः ।

शिखावलिश्शिखी केकी मेघनादानुलास्यपि ।

लोहिताश्वो वायुसखश्शिखावानाशुशुक्षणिः ।।

इत्युभयत्राभिधानात् । तथा च पर्वतो वह्निमानित्यर्थः । इत्यादीत्यादिशब्देन प्रमाणलक्षणटीकारीत्या वरदराजीयरीत्या स्वतन्त्रमात्रसिद्धस्य स्फ्यकपालपुरोडाशादेर्निर्णायकाभावेन संशयक्रान्तस्य श्वेतो धावतीत्यादेश्च ग्रहणम् । अन्तर्भावमाह ।। इदमिति ।

भावदीपः

त्रिवारमुक्तेऽपि । वादिनेति योज्यम् । कश्यपतनया पृथिवी तस्या धृतिहेतुर्धारणहेतुः पर्वत इति यावत् । त्रिनयनतनयो रुद्रपुत्रः स्कन्दः । तस्यासनं मयूरापरपर्यायवाच्यः शिखी तत्समान नामधेयः शिखीति नामवान्वह्निरिति यावत् । तेन युक्त इत्यर्थः ।। अनुक्तिरेवेति । परबोधनार्थत्वाभावादिति भावः ।

श्रीविजयीन्द्रतीर्थ

।। त्रिवारमिति ।। वाचकेति । अन्वयबोधजनकेत्यर्थः । तेन निरर्थकापार्थक व्यावृत्तिः । त्रिवारमित्यनेन सकृदुक्ताविज्ञातार्थव्यावृत्तिः । प्रतिवादिपदं तु परिषदा ज्ञाते प्रतिवादिना ज्ञातेऽप्यविज्ञातार्थत्वनिरसनाय । वस्तुतस्तु प्रतिवादिपदमनपेक्षितम् । परिषदबोधे प्रतिवादिबोधस्यासम्भावितत्वात् । प्रतिवादिमात्रबोधस्यानुपयोगाच्च । स्वबोधस्य स्वनिष्ठत्वेन तदाविष्करणासम्भवात् । अज्ञाननिरासाय परिषदेति । ननु वाचकत्वं पूर्वोक्तं तदाऽन्यदा वा । तदाऽपि प्रतिवादिनो मध्यस्थस्य वा । नाद्यः । तत्काले उभयोरपि बोधाभावात् । न द्वितीयः । अन्यदाऽपि बोधाभावेऽनिग्रहस्थानत्वप्रसङ्गादिति चेन्न । मध्यस्थबोधजननयोग्यत्वस्य तदर्थत्वात् । तच्च गृहीतसङ्गतिकान्वितत्वमिति । कश्यपस्य तनया पृथिवी तद्धारणं तद्धेतुः पृथिवीधरः पर्वत इत्यर्थः ।। इदमिति । परबोधनार्थत्वाभावेनेति भावः ।

श्रीवेदेशभिक्षु

।। त्रिवारेति । नियमस्यानवधानादिशङ्कानिवारणाय प्राश्निकैरपेक्षणात् । सकृदुक्ताविज्ञातार्थव्यावृत्त्यर्थं त्रिवारमित्युक्तम् । अज्ञाननिरासाय परिषत्पदम् । प्रतिवादिविज्ञाते परिषदविज्ञाते परपराजयनिमित्तेऽतिव्याप्तिवारणाय प्रतिवादिपदं द्रष्टव्यम् । वाचकेत्युपलक्षणम् । अन्वितेत्यपि द्रष्टव्यम् । ताभ्यां च क्रमेण निरर्थकापार्थकोभयव्यावृत्तिः । कश्यपतनया भूस्तद्धृतिर्धारणं तद्धेतुस्तद्धर्ता भूधर इत्यर्थः । त्रिनयनो रुद्रस्तस्य तनयः षण्मुखस्तदासनं मयूरस्तेन समानं साधारणं शिखीति नामधेयं यस्य वह्नेस्तेन युक्त इत्यर्थः ।। अनुक्तिरेवेति । परबोधनार्थत्वाभावादिति भावः ।

अभिनवामृतम्

।। कश्यपतनयेति । कश्यपतनया भूस्तस्या धृतिर्धारणं तद्धेतुस्तत्कारणं भूधर इत्यर्थः। त्रिनयनो रुद्रस्तस्य तनयः षण्मुखस्तदासनं मयूरस्तेन समानं साधारणं शिखीति नामधेयं यस्य वह्नेस्तेन युत इत्यर्थः ।

आदर्शः

।। त्रिवारमिति । अविज्ञातार्थपदप्रयोगोऽविज्ञातोऽर्थो यस्य पदस्य तादृशपदप्रयोग इत्यर्थः । परिषत्प्रतिवादिनां तत्काले बोधाजनकपदप्रयोगेति यावत् । कश्यपतनया भूस्तद्धृतिर्भूधर इत्यर्थः । त्रिनयनतनयः स्कन्दस्तदासनं मयूरस्तत्समाननामधेययुक्तस्तद्वाचक शिखिपदवाच्य इत्यर्थः। अग्निरिति यावत् । तद्ध्वजो धूमः ।। इदमप्यनुक्तिरेवेति । पूर्ववत्पदनिष्ठार्थबोधकत्वाभाव रूपानुक्तिरेवोद्भावनीयेति भावः ।

वाक्यार्थमञ्जरी

।। परिषदिति । प्राश्निकेत्यर्थः । विवदमानयोर्वादि प्रतिवादिनोर्गुणदोषावधारणादिकं तत्प्रयोजनमिति द्रष्टव्यम् ।

श्रीविट्टलभट्ट

।। त्रिवारमुक्तेऽपीति । वादिना त्रिवारमुक्तेऽपि प्राश्निकप्रतिवादिभ्यामविज्ञातार्थकं वाक्यमविज्ञातार्थं नाम निग्रहस्थानमित्यर्थः । वादिनोक्तस्य परोपदेशात्मकस्यानुमानस्यानवधानादिशङ्कावारणाय पुनर्वचनं त्वात नियमश्च प्राश्निकैरपेक्ष्यते । ततःपरं वादिप्रयुक्तवाक्यार्थज्ञानं च दोषत्वनिश्चायकम् । ततश्च वादिना त्रिवारमुक्तस्य परिषदाऽविज्ञातार्थस्य वाक्यस्य प्रयोगोऽविज्ञातार्थं नाम निग्रहस्थानं न भवतीति तद्य्ववच्छेदाय परिषत्पदोपादानम् । परिषदाऽविज्ञातार्थस्याविज्ञातार्थत्ववारणाय प्रतिवादिपदोपादानम् । अबोधकपदसमूहात्मक वाक्यप्रयोगरूपनिरर्थकव्यवच्छेदाय वाचकपदोपादानम् ।। इत्यादीति । कुमारवाहनसमाननामधेयकार्य विशेषवत्त्वादित्यादिरादिशब्दार्थः ।। इदमप्यनुक्तिरेवेति । परबोधनार्थं वक्तव्यस्यानुक्तावस्य पर्यवसानादविज्ञातार्थमनुक्त्यन्तर्गतमेवेति भावः ।