वर्ण्यसमः

(५०) प्रमाणपद्धतिः

।। २० ।। (२) (५) ।। वर्ण्यसमः ।। पक्षवद्दृष्टान्तस्यापि साध्यत्वचोदनं वर्ण्यसम इत्येके । तदसत् । दृष्टान्ते साध्यसाधनविप्रतिपत्त्या चोदने सदुत्तरत्वात् । एवमेव चोदनस्य निर्बीजतयाऽसम्भवदुक्तिकत्वात् । एवं तेनैव हेतुना साध्यत्वचोदनमपि निर्बीजम् । पक्षे हेतुः साध्येन सहचरित उपलब्धो दृष्टान्तस्यापि तदापादयतीत्येवं चोदनायामुत्कर्षसम एव । पक्षे दृष्टान्ते चोत्कर्षणमित्येतावता भेदेऽतिप्रसङ्गः । साध्यसमाच्च भेदाभावः । तस्मात्पक्षमात्र विवक्षितासिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोर्दृष्टान्तस्य साध्यत्वापादनं वर्ण्यसम इत्युदयनः । यथाऽसिद्धार्थं धूमवत्त्वं पर्वत इव महानसेऽस्ति चेत्सोऽपि साध्यवत्तया साध्यः स्यात् । न चेत्साधनवत्तया साध्यः स्यादिति । अत्रापि हेतुस्वरूपस्य सद्भावमात्रेण दृष्टान्तत्वोपपत्तौ रूपविशेषचिन्ता व्यर्थेति वाच्यम् । तदावश्यकत्वाभ्युपगमे तु स्वन्यायविरोध इति ।

जयतीर्थविजय

साध्यत्वचोदनं साध्यवत्तया साधनीयत्वचोदनमित्यर्थः । दृष्टान्ते साध्यसाधनविप्रतिपत्त्या साध्यसाधनवत्तया साध्यत्वचोदनं वर्ण्यसमो वेति विप्रतिपत्त्यभावेऽपि तथा चोदनं वेति विकल्प्याद्यं निराह ।। दृष्टान्त इति । द्वितीयं निराह ।। एवमेवेति । विप्रतिपत्त्यभावेऽपीत्यर्थः । स्थापनावादिप्रयुक्तेनैव हेतुना पक्षवद्दृष्टान्तस्यापि साध्यत्वचोदनं वर्ण्यसम इति लक्षणान्तरं निराकरोति । एवमिति । पूर्वोक्तविकल्पेनेत्यर्थः । बीजमाशङ्क्य निराकरोति ।। पक्ष इति । ननु दृष्टान्तगतधर्मोत्कर्षणाभावात्कथमुत्कर्षसमत्वमित्यत आह ।। पक्ष इति ।। अतिप्रसङ्ग इति । तत्रापि चाक्षुष एव पक्षे दृष्टान्तत्वं तन्निष्ठधर्मोत्कर्षणमुत्कर्षसमो न त्वचाक्षुष इत्याद्यतिप्रसङ्ग इति भावः ।। तस्मादिति । इतरलक्षणानां दुष्टत्वादित्यर्थः । पक्षमात्रे विवक्षितानीति सप्तमीतत्पुरुषः । असिद्धार्थत्वादीत्यादिशब्देनारब्धसाध्यज्ञापनशक्तिमत्त्वं व्याप्तिग्राहकप्रमाणशून्यत्वं संशयसामान्यविषयत्वं स्वरूपभेदश्चेति चत्वारिरूपाणि गृह्यन्ते । तदुक्तं वरदराजेन ।

असिद्धार्थत्वमारभ्य साध्यज्ञापनशक्तता ।

व्याप्तिप्रमाणशून्यत्वं संशयैकार्थता तथा ।

स्वरूपभेदश्चेत्येतत्पक्षमात्रविवक्षितम् । हेतुरूपं स्वपक्षे तु तादृग्रूपविपर्यय इति । वर्ण्यसममुदाहृत्य दर्शयति ।। यथेत्यादिना । असिद्धोऽर्थो विषयो वह्निलक्षणो यस्य तदसिद्धार्थमित्यर्थः ।। न चेदिति । असिद्धार्थं धूमवत्त्वमित्यनुवर्तते । एतदेवोक्तं वरदराजेन ।

हेतोस्तु यादृशं रूपं पक्षमात्रविवक्षितम् ।

तद्रूपहेतुना साध्यः सपक्षोऽप्यन्यथा पुनः ।

भवेत्साधनवैकल्यमिति वर्ण्यसमोदय ।। इति ।

असामर्थ्यद्वयं वक्तुमुत्तरकथाप्रवृत्तिप्रकारमाह ।। अत्रापीति ।। रूपविशेषचिन्तेति । असिद्धार्थत्वादिरूपविशेष चिन्तेत्यर्थः ।। स्वन्यायविरोध इति । नायं दृष्टान्तः साधनाङ्गम् । साध्यविकलत्वात्सम्मतवदिति त्वदीयदृष्टान्तेऽपि साध्यविकलत्वस्य वक्तुं शक्यत्वात्स्वन्यायविरोध इत्यर्थः ।

भावदीपः

साध्यत्वचोदनं साध्यसाधनवत्त्वेन साध्यत्वापादनम् । साध्यवत्त्वेन साध्यत्वापादनं वेत्यर्थः । विवादे सति साध्यत्वापादनं वा तदभावे वा । आद्य आह ।। दृष्टान्त इति । अन्त्य आह ।। एवमेवेति । विवादाभावेऽपीत्यर्थः । परोक्तधूमवत्त्वादिहेतुरेव बीजमित्यत आह ।। एवं तेनैवेति । सबीजतामाशङ्कते ।। पक्षे हेतुरिति ।। तदापादयतीति । साध्यत्वमापादयतीत्यपि चोदनायामित्यर्थः ।। अतिप्रसङ्ग इति । दृष्टान्तहेतुपक्षाणां साध्यत्वापादनरूपाया वक्ष्यमाणसाध्यसमजातेरपि दृष्टान्तादिभेदेन भेदप्रसङ्ग इत्यर्थः ।। साध्यसम(मा)श्चेति । चशब्दो भेदाभावश्चेति भिन्नक्रमे । तत्रापि दृष्टान्तादेः साध्यत्वापादनस्य वक्ष्यमाणत्वादिति भावः ।। पक्षमात्र इति । आदिपदेनासिद्धार्थकत्वमारब्धकार्यज्ञापनशक्तिमत्त्वं व्याप्तिग्राहकप्रमाणशून्यत्वं सन्दिग्धविषयकत्वमित्यादिरूपवत्त्वं विवक्षितम् । तादृशरूपयुक्तहेतोर्दृष्टान्ते सत्त्वासत्त्वाभ्यां दृष्टान्तस्य साध्यवत्त्वेन साधनवत्त्वेन वा साध्यत्वापादनमित्यर्थः ।। सोऽपि साध्यवत्तयेति । असिद्धार्थकत्वं नामानिश्चितसाध्यधर्मकत्वं तादृशरूपविशिष्टहेतोर्दृष्टान्ते सत्त्वेन कथं न साध्यवत्तया साध्येत । अन्यथा दृष्टान्तानुपपत्तेरिति भावः । न चेदिति । तादृशधूमवत्त्वमित्यनुषङ्गः । अन्यथा साधनविकलः स्यादिति भावः । अत्र जातौ । दृष्टान्ते साध्यवैकल्यं साधनवैकल्यं वाऽऽरोप्यमिति भावः । प्रत्युत्तरप्रकारमाह ।। अत्रेति । एतज्जात्युत्तरविषय इति वाच्यमित्यन्वयः ।। स्वन्यायविरोध इति । जातिवादिना हि साध्यवैकल्यारोपपक्षे धूमवत्त्वं न साध्यसाधकम् । साध्यरहितवृत्तित्वात् । शब्दानित्यत्वासाधकप्रमेयत्ववदिति प्रतिषेधे कृते सति साध्यरहितवृत्तित्वहेतुरपि त्वदभिमतपक्षमात्र विवक्षितसिद्धार्थत्वादिरूप विशिष्टे दृष्टान्तेऽस्ति चेत्सोऽपि साध्यवत्तया साध्येत । अन्यथा साध्यविकलो दृष्टान्तः स्यात् । न चेत्साधनवत्तया साध्येत । अन्यथा साधनहीनो दृष्टान्तः स्यादिति वक्तुं शक्यत्वात्स्वन्यायविरोध इत्यर्थः । स्वव्याघात इति वक्तव्येऽप्येवमुक्तिरन्तर्भावसूचनाय । एवं सर्वत्र विज्ञेयम् ।

श्रीविजयीन्द्रतीर्थ

।। साध्यत्वेति । साध्यसाधनवत्तया साध्यत्वापादनमित्यर्थः । तेनैव हेतुना साध्यत्वापादनं लक्षणमिति दूषयति ।। एवं तेनैवेति ।। पक्ष इति । सङ्ग्राहकं लक्षणं प्रागेवोक्तमिति भावः ।। साध्येति । दृष्टान्तस्यापि साध्यत्वापादनमिति मते एतत् ।। तस्मादिति । पक्षमात्रवृत्तिहेतुस्वरूपस्य विवक्षितरूपमसिद्धार्थत्वादितद्वान्यो हेतुस्तद्वत्त्वतदभावाभ्यां साध्यसाधनवत्तया दृष्टान्तस्य साधनत्वापादानमित्यर्थः । साध्यमसिद्धं तत्त्वमनिश्चितसाध्यवद्धर्मिवृत्तित्वमिति यावत् । तथाऽऽरब्धसाध्या ज्ञापनशक्तत्वं सिषाधयिषितसाध्यज्ञापनशक्तत्वं व्याप्तिप्रमाशून्यत्वं पक्षीयसाध्यसाधनाधिकरण्यस्य निश्चेतुमशक्यत्वादपरं रूपम् । तथा संशयसमानविषयत्वसंशयविषय एवानुमितिजनकत्वं तथा भेदः पक्षीयसाधनव्यक्तिविशेषणमिति पक्षवृत्तिरूपहेतुरूपाणि । एतद्विपरीतदृष्टान्तहेतुरूपपञ्चकमयुक्ताङ्गाधिकत्वमत्राह ।। अत्रापीति । दृष्टान्तगतहेतावसिद्धार्थत्वस्यायुक्तस्यैवाभ्युपगमोऽत्रेति भावः ।

श्रीवेदेशभिक्षु

।। साध्यत्वचोदनमिति । साध्यसाधनवत्तया साध्यत्वापादनमित्यर्थः । अस्मिन्नेव लक्षणे तेनैव हेतुनेति विवक्षितमिति केनचिदुक्तम् । तन्मतं दूषयति ।। एवं तेनैवेति ।। सहचारलक्षणं बीजशङ्कयाऽऽह ।। पक्ष इति ।। उत्कर्षसम एवेति । पक्षदृष्टान्तयोरन्यतरस्मादन्यतरस्मिन्नुत्कर्ष एवोत्कर्षसमलक्षणत्वेन विवक्षितो न त्वदुक्त इति भावः । अत एवाह ।। पक्ष इति ।। साध्यसमाच्चेति । एतन्मते साध्यवद्दृष्टान्तस्यापि साध्यत्वचोदनं साध्यसम इति तल्लक्षणस्याभिप्रेतत्वात्तदभेदप्रसङ्ग इति भावः ।। पक्षमात्रेति । साध्यस्य प्रमाणान्तरेण निश्चितत्वेनासिद्धार्थत्वमेकं पक्षीयहेतो रूपं हेतुर्हि पक्षे साध्यज्ञापनाय प्रवृत्तिशक्तिर्भवतीत्यारब्धसाध्यज्ञापनशक्तित्वाख्यं द्वितीयम् । पक्षीयसाध्यस्य पूर्वमज्ञातत्वेन तन्निरूपितव्याप्तेः पक्षीयहेतुवृत्तितया ज्ञातुमशक्यत्वाद्य्वाप्तिग्राहकप्रमाणशून्यत्वाभिमतं तृतीयम् । सन्दिग्धे न्यायप्रवृत्तेः पक्षीयहेतोः संशयसमानविषयत्वारब्धं चतुर्थं पक्षीयहेतुस्वरूपविशेषरूपं पञ्चममित्येतानि पक्षमात्रविवक्षितरूपाणि । एवं च पक्षमात्रे हेतोर्विवक्षितानि यान्यसिद्धार्थत्वादीनि रूपाणि तद्वान्यो हेतुस्तद्वत्त्वतदभावाभ्यां दृष्टान्तस्य साध्यसाधनवत्तया साध्यत्वापादनं वर्ण्यसम इत्यर्थः । उपलक्षणत्वेनैकं रूपं पुरस्कृत्योदाहरति ।। यथेति ।। एवमग्रेऽपि ।

अभिनवामृतम्

।। असम्भवदुक्तिकत्वादिति । उत्थानबीजाभावेन वादिन एवंविधवचनायोगात् । न तु दूषणाय वर्ण्यसमः प्रकल्पनीय इति भावः । अस्मिन्नेव लक्षणे तेनैव हेतुनेति विशेषणं प्रक्षिप्य पक्षवद्दृष्टान्तस्यापि तेनैव हेतुना साध्यत्वचोदनं वर्ण्यसम इति कश्चित् । तन्मतं दूषयति ।। एवं तेनैवेति । ननु दृष्टान्तात्पक्षे उत्कर्षाभावात्कथमयमुत्कर्षसम इत्यत आह ।। पक्ष इति । वादिसाधनसामर्थ्येन साध्यस्येव कस्यचित्क्वाप्युत्कर्ष उत्कर्षसम इति । तल्लक्षणं प्रणेयमिति भावः ।। साध्यसमाच्चेति । साध्यवद्दृष्टान्तस्यापि साध्यत्वचोदनं साध्यसम इति । त्वदुक्तलक्षणस्य तत्रापि भावादिति । तस्मात्पक्षमात्रेति । स्वयमेव दृष्टान्ते पक्षमात्रविवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्वमस्ति न वेति विकल्प्य वादिनः पक्षस्वीकारमनपेक्ष्यैव पक्षद्वयेऽपि दृष्टान्तस्य साधनवैकल्येन साध्यत्वापादानमदृष्टान्तत्वसाधनं वर्ण्यसम इत्युदयनो वक्तीत्यर्थः । एतेन विकल्पपूर्वकं वाद्यङ्गीकारस्य दूषितत्वाद्दृष्टान्तस्यादृष्टान्तत्वसाधनं न जात्युत्तरमिति परास्तम् । तथाऽपि प्रतिवादिना पृष्टेन स्वेनैव रूपविशेषस्याङ्गीकृतत्वाद्रूपविशेषचिन्ता व्यर्थेति वक्तुमनवकाश इति परास्तम् । वाद्यङ्गीकारमनपेक्ष्यैव प्रतिवादिनैव दूषितत्वादसिद्धार्थधूमवत्त्वं महानसेऽस्तीति चेत् । साध्यवैकल्यापत्त्या तत्परिहाराय साध्यं साधनीयं साध्यसाधने च हेतुविकलत्वान्नायं दृष्टान्त इति भावः । एतेन रूपविशेषणावच्छिन्नहेतुमत्त्वस्य दृष्टान्तत्वविघातकत्वेन परेण दृष्टान्तत्वोपपत्त्यर्थं तदनङ्गीकारात् । हेतुस्वरूपसद्भावमात्रेण दृष्टान्तोपपत्ताविति तदावश्यकत्वाभ्युपगम इति चायुक्तमिति परास्तम् । परेण रूपविशेषावच्छिन्नहेतुमत्त्वस्य दृष्टान्तत्वप्रयोजकत्वमङ्गीकृत्य त्वत्पक्षे दृष्टान्ते हेत्वङ्गीकारे साध्यवैकल्यापत्त्या त्वया हेतोरेवानङ्गीकर्तुं शक्यते ततश्च साधनवैकल्यान्नायं दृष्टान्त इति साधनाभावपर्यवसानेनैव दृष्टान्तदूषणाङ्गीकारात् ।। यथाऽसिद्धार्थमिति । आद्ये कथं स्वरूपासिद्धिः । तत्सत्त्वस्य तद्विरोधित्वादित्यत आह ।। यथाऽसिद्धार्थमिति । महानस इव सिद्धार्थं धूमवत्त्वमस्तीत्यङ्गीक्रियते चेत् । सिद्धसाधनता स्यात् । न च तदिष्टमिति साध्यं सन्दिग्धासिद्धमिति वाच्यम् । तथा च साधनासम्भवात्पक्षस्य साध्यवत्तया साधनायोग्यत्वमिति भावः ।। न चेदिति । स्वरूपासिद्धत्वं स्पष्टमिति भावः । दृष्टान्तगतहेतोरसिद्धत्वादिकमावश्यकमित्यङ्गीकृत्यावस्थाने पाक्षिकजयबुद्धिरुत्थानबीजं साधनवैकल्यमारोप्यं वादिनः । तद्भ्रमोत्पादः फलम् ।। न चेदिति । अस्मिन्पक्षे साधनवैकल्यं स्फुटमिति भावः । रूपविशेषचिन्ता व्यर्थेति । दृष्टान्ते रूपविशेषसत्त्वाग्रहो व्यर्थ इत्यर्थः । एतेन रूपविशेषसत्त्वमनपेक्षितमिति वक्तव्यत्वेन चिन्ता व्यर्थेति वचनमयुक्तमिति परास्तम् । स्वन्यायविरोध इति । पक्षे स्वयमेव परेण स्वाभ्युपगतसाधकानुमानदृष्टान्ते साधनवैकल्यपरिहाराय रूपविशेषस्यानपेक्षितत्वाङ्गीकारात्तत्प्रतिबन्दीविरोध इत्यर्थः ।

आदर्शः

।। एवमेवेति । असङ्गतेरेव प्रथममुपस्थितेर्जात्युत्तरोद्भावनस्यासम्भवादिति भावः । उत्थानबीजाभावाज्जात्युत्तरत्वमपि न सम्भवतीत्याह ।। तेनैव हेतुनेति ।। निर्बीजमिति । साधनाङ्गत्वेनाभिमानविषयधर्मशून्यत्वाद्धेतोः । न च केवलहेतोरेव साधकत्वमित्यभिमान एवोत्थानबीजमास्त्विति वाच्यम् । तथा सति पदार्थसामान्यस्यैव साधकत्वापत्त्या हेतुविशेषोपादनस्यासम्भवात् । असम्भवदुक्तिकमूर्खादेरपि कथकत्वयोग्यत्वप्रसङ्गात् ।। अतिप्रसङ्ग इति । पक्षसमेषु तत्तद्रूपावच्छिन्नेषूत्कर्षसम्भवात्तेषामप्यन्यत्वसम्भवादुक्तसङ्ख्याव्याहत्यापत्तेरिति भावः । न च पक्षसमेषु साध्यत्वापादने इष्टापत्तिरिति वाच्यम् । प्रकृतानुमितिविषयत्वरूपसाध्यत्वाभावेनेष्टापत्तेरयोगात् । ननु साध्यवत्पक्षे साध्यवत्प्रयोजकत्वेन दृष्टस्य हेतोर्दृष्टान्तेऽपि सत्त्वात्साध्यत्वमापद्यते न केवलं सामानाधिकरण्यमात्रेण । अतो नोत्कर्षसमाभेदः । उत्थानबीजस्य प्रयोजकसत्त्वाभिमानस्य भिन्नत्वादित्यत आह ।। साध्यसमाच्चेति । आपादनविशेष्यभेदमात्रेण भेदे चोक्तरीत्याऽतिप्रसङ्ग इति प्रसङ्ग इति भावः। प्राचीनटीकायां तु पक्षवद्दृष्टान्तस्यापि साध्यत्वापादनं साध्यसम इति तल्लक्षणस्योक्तत्वात्साध्यसमाभेदप्रसङ्ग इत्यर्थ इत्युक्तम् ।। पक्षमात्रविवक्षितेति । असिद्धार्थत्वमारब्धसाध्यज्ञापनशक्तिमत्त्वं व्याप्तिग्राहकप्रमाणशून्यत्वं संशयसमानविषयत्वं स्वरूपत्वं चेत्येतानि पक्षमात्रविवक्षितानि रूपाणि ।

वाक्यार्थमञ्जरी

।। सदुत्तरत्वादिति । व्याहत्यभावादिति भावः । एवमग्रेऽपि ।। एवमेवेति । विप्रतिपत्त्यभावेऽपीत्यर्थः ।। निर्बीजतयेति । उत्थानकारणशून्यतया साध्यत्वोक्तेरेवोत्थानायोगादित्यर्थः । ननु तत्र दृष्टान्तात्पक्षे उत्कर्षोऽत्र तु पक्षाद्दृष्टान्त इति भेद इत्यत आह ।। पक्ष इति ।। अतिप्रसङ्गादिति । वैधर्म्यदृष्टान्ते उत्कर्षस्यापि पृथग्गणनाप्रसङ्ग इति भावः ।। असिद्धार्थमिति । असिद्धोऽनिश्चितो वह्निलक्षणोऽर्थो विषयो यस्य तत्तथोक्तम् ।। सोऽपीति । असिद्धार्थधूमत्वे महानसस्य निश्चितसाध्यकत्वाभावेन तदर्थं स वह्निमत्त्वेन रूपेण साधनीयः । अन्यथा साध्यवैकल्यापातादिति भावः ।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या साध्यसाधनवैकल्ये आपाद्य दृष्टान्तत्वाभिमतो महानसः साधनाङ्गं न भवति । साध्यसाधनविकलत्वान्महानसवदिति वाद्युक्तदृष्टान्तस्यानङ्गत्वं साधनीयम् । अत्रापि दृष्टान्तस्यानङ्गत्वं वक्तुं शक्यम् । तथा हि । असिद्धार्थं साध्यसाधनविकलत्वं महानस इव ह्रदेऽस्ति चेत्तर्हि सोऽपि साध्यवत्तया साध्यः स्यात् । अन्यथा साधनवैकल्यापातात् । न चेत्साधनवत्तया साध्यः स्यात् । अन्यथा साधनवैकल्यापातात् । न च हेतुस्वरूपसद्भावमात्रेण दृष्टान्तोपपत्तौ रूपविशेषचिन्ता व्यर्थेति वाच्यम् । रूपविशेषचिन्ताया अप्यावश्यकत्वस्य त्वयैवोक्तत्वादिति । तथा च रूपविशेषचिन्ताऽऽवश्यकीति तद्वाक्यन्यायेन नायं दृष्टान्तः साधनाङ्गमित्यादितद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। पक्षवदिति । पक्षवत्साध्यत्वचोदनं साध्यसाधनवत्त्वसम्पादनमित्यर्थः ।। दृष्टान्त इति । पक्षवद्दृष्टान्ते साध्यसाधनयोर्विप्रतिपत्त्या चोदने साध्यत्वापादने कृते तस्य तदुत्तरत्वादित्यर्थः । विप्रतिपत्त्या चोदनस्य सदुत्तरत्वात् जातित्वस्यैवाभावेन वर्णसमरूपजातिविशेषत्वं सुतरां न सम्भवतीति भावः ।। एवमेवेति । विप्रतिपत्त्या विना च दृष्टान्ते साद्यत्वापादनत्वस्य निर्बीजतयोत्थानकारणशून्यतयाऽसम्भावितोक्तिकत्वादित्यर्थः । तार्किकेण लक्ष्यं लक्षणमुत्थानं पातना चास्पदौ फलम् । फलमित्यङ्गमेतासामपि जातीनां समाप्त्यङ्गकथनात् । सप्ताङ्गेषूत्थानबीजं जात्यङ्गमिति तद्रहितं साध्यत्वचोदनमसम्भवदुक्तित्वान्न जात्यन्तरमिति भावः ।। तेनैव हेतुनेति । पक्षसाध्यसाधनार्थं वादिना यो हेतुः प्रयुक्तस्तेनैव हेतुना दृष्टान्तस्य साध्यत्वोद्भावनमपि निर्बीजम् । उत्थानकारणशून्यमित्यर्थः । रासभादेरिवास्यापि हेतोः साध्यत्वयोरनेन कारणत्वमविशेषादिति भावः । वादिप्रयुक्तहेतुः पक्षे साध्यत्वेन सहचरितादृष्टेस्तेनासौ साध्यत्वापादने निमित्तं भविष्यतीति शङ्कते ।। पक्षहेतुरिति ।। तदापादयतीति । साध्यत्वमापादयतीत्यर्थः । साध्यत्वेन साहचर्यदर्शनं तत्रैव हेतुना साध्यत्वापादने कृते तदापादनमुत्कर्षसम एव न तु वर्णसम इत्यर्थः । वादिसाधनसामर्थ्येन तत्सहचरितस्य कस्यचिदनिष्टस्यापादनमुत्कर्षसमो भवति । वादिसामर्थ्येन दृष्टान्ते साध्यत्वापादनस्यापि तद्रूपत्वात् । उत्कर्षसमत्ववर्ण्यसमत्वयोर्भेदाङ्गीकारेऽतिप्रसङ्गश्चेति भावः । ननु तेनैव हेतुना दृष्टान्तगतधर्मस्य पक्षे उत्कर्षमुत्कर्षसमस्तेनैव हेतुना पक्षगतधर्मस्य दृष्टान्ते चेति पक्षे उत्कर्षं चेत्येतावता वैचित्र्येण भेदे उत्कर्षसमवर्ण्यसमयोरङ्गीकारेऽतिप्रसङ्गः । दृष्टान्तहेतुपक्षाणां साध्यत्वापादनरूपायाः साध्यसमजातिदृष्टान्तादिभेदेन भेदप्रसङ्गः साध्यसमाच्च भेदाभावस्तत्रातिव्याप्तिश्चेत्यर्थः । तेनैव हेतुना दृष्टान्तसाध्यत्वचोदनत्वस्य वर्ण्यसमलक्षणदृष्टान्तहेतुपक्षाणां साध्यत्वापादनरूपे साध्यसमे स्वतस्तद्भेदाभावे इत्यवगन्तव्यम् ।। तस्मादिति । पूर्वोक्तलक्षणस्य दुष्टत्वात्पक्षमात्रे हेतोर्विवक्षितान्यभिमतानि यान्यसिद्धत्वादीनि रूपाण्यङ्गानि तद्वान्यो हेतुस्तत्सत्त्वासत्त्वयोर्दृष्टान्तस्य साध्यत्वापादनं साध्यसाधनवत्तया साध्यत्वापादनं वर्ण्यसम इत्युदयन आहेत्यर्थः । असिद्धत्वादीत्यत्रारब्धसाध्यज्ञापनशक्तित्वं व्याप्तिग्राहकप्रमाण शून्यत्वं संशयसमानाविषयत्वं संशयसमानविशेषविषयश्चेत्येतान्यादिपदोक्तानि हेतुसत्त्वासत्त्वयोरित्येवोक्तौ हेतुसत्त्वे दृष्टान्तस्य साध्यवत्तया साध्यत्वापादनस्य निर्बीजतयाऽसम्भवदुक्तिकत्वात् । दृष्टान्तस्य साध्यत्वोद्भावनसम्भवार्थं पक्षमात्रविवक्षितरूपवदिति विशेषणम् ।। महानसवदिति । चेच्छब्दो यद्यर्थे । महानसे यद्यस्तीत्यर्थः ।। सोऽपीति । तर्हि महानसोऽपीत्यर्थः ।। अत्रापीति । एवमापादनेऽपीत्यर्थः । रूपविशेषचिन्ता दृष्टान्तगतहेतावसिद्धार्थत्वरूपविशेषाणां चिन्ता सत्त्वासत्त्वविचारो व्यर्थो निष्प्रयोजनो विवेक्तव्यमुत्तरवाच्यमित्यर्थः ।। तदावश्यकत्वाभ्युपगमेत्विति । तस्य रूपविशेषचिन्ताया दृष्टान्तगतं हेत्ववश्यकार्यत्वाङ्गीकारे तु स्वन्यायविरोधो भवतीत्यर्थः । कथं स्वन्यायविरोध इति चेत् । इत्थम् । वादिसाधनं धूमवत्त्वं न स्वसाध्यसाधकम् । साध्यरहितवृत्तित्वाच्छब्दानित्यत्वसाधकप्रमेयत्ववदित्यादि जात्युत्तरस्यापि दृष्टान्तगतहेतौ स्वरूपविशेषचिन्ताया दूषणसम्भवात्स्वन्यायेन स्ववचनविरोधो भवतीतीयं जातिः स्वन्यायविरोधात्मकतृतीयजातावन्तर्भवतीति ।