प्रमाणपद्धतिः

प्राभाकरादिमत निरासः

(१२) प्रमाणपद्धतिः

अयथार्थज्ञानमेव नास्तीति प्राभाकरादयः । तन्न । अनुभवसिद्धत्वात् । एतावन्तं कालमहं शुक्तिकामेव रजतत्वेन प्रतिपन्नोऽस्मीत्युत्तरकाले परामर्शाच्च । प्रतीतं च रजतं देशान्तरे सदेवेति वैशेषिकादयः । ज्ञानस्वरूपमेवेति विज्ञानवादिनः । तत्रैव तात्कालिकमुत्पन्नं सदिति भास्करः । न सन्नासन्नसदसत् किन्त्वनिर्वचनीयमेवेति मायावादिनः । असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवाच्छुक्तिरेवात्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः । अनध्यवसायः स्वप्नश्चायथार्थज्ञानान्तरमस्तीति वैशेषिकाः ।

जयतीर्थविजय

।। अयथार्थज्ञानमेवेति । कुतस्तद्य्वावृत्त्यर्थं यथार्थग्रहणमित्येवकारार्थः ।। अनुभवेति । असदेव रजतं प्रत्यभादित्यनुभवसिद्धत्वादित्यर्थः । अथवा ममायथार्थमेव रजतभानमुत्पन्नमिति साक्षिरूपानुभवसिद्धत्वादित्यर्थः । अथ स्फुटतरानल्पदोषतया मतभेदानां स्वरूपकथनमेव निराकरणमिति मन्वानो भ्रमविषये वादिनां मतभेदानाह ।। प्रतीतमित्यादिना ।। अनिर्वचनीयमेवेति । सदसद्विलक्षणमेवेत्यर्थः ।। असदेवेति । शुक्तिरेव भातीत्याचार्या इति प्रथममन्वयः । ननु भ्रमस्य शुक्तिविषयकत्वे कथमयथार्थत्वम् । विद्यमानविषयकत्वादित्यत आह ।। अत्यन्तासद्रजतात्मनेति । नन्वेवं नैयायिकमतान्न विशेष आचार्यमतस्य । तैरपि शुक्ताववद्यिमानदेशान्तरीयरजतात्मतया शुक्तेर्भानाङ्गीकारादित्यत आह ।। अत्यन्तेति । कुत्रापि कदाऽप्यविद्यमानेत्यर्थः । ननु भ्रमस्य कथमत्यन्तासद्रजततादात्म्यविषयकत्वम् । असता साकं चक्षुरादेः सन्निकर्षाभवादित्यत आह ।। प्रत्यभादित्यनुभवादिति । तथा चानुभवबलेनात्यन्तासतोऽपि रजततादात्म्यस्य दोषरूपसन्निकर्षेण भ्रम उल्लेख्यत्वलक्षणं विषयत्वं कल्प्यत इति भावः । असदेवेत्येवकारेण न देशान्तरे सन्नापि ज्ञानस्वरूपं नापि तात्कालिकमुत्पन्नमितीतरमतनिरासः सूचितो भवति ।। ज्ञानान्तरमिति । तथा च यथार्थग्रहणेन संशयविपर्ययानध्यवसायस्वप्नतत्साधनानां निरास इति वक्तव्यमिति वैशेषिकादीनामाशय इति भावः ।

भावदीपः

।। अनुभवसिद्धत्वादिति । अयथार्थज्ञानस्येत्यनुषङ्गः । प्राणभृन्मात्रस्येदं रजतं जानामीति साक्ष्यनुभवसिद्धत्वादित्यर्थः । अनुभवविवादिनं प्रत्याह ।। एतावन्तमिति । शुक्तिरेवेदं न रजतमथापि तां शुक्तिकामेव रजतत्वेन प्रतिपन्नो ज्ञातवानस्मीति भ्रमोत्तरकाले शुक्तिविषयकपरामर्शस्य दर्शनाच्चेत्यर्थः । एवं विपरीतपदव्यावर्त्यं भ्रमं समर्थ्य तद्विषये विवादं चोपन्यस्यति ।। प्रतीतमित्यादिना । सर्वपक्षाणामनुभवविरोधेन निराकुर्वन्ननुभवसिद्धत्वेन स्वमतमाह ।। असदेवेति । विस्तरस्तु सुधायां अभिनवान्यथाख्यातिवादे न्यायामृते च । ननु यथार्थग्रहणेन संशयविपर्ययतत्साधनानां निरास इत्युक्तम् । व्यावर्त्यान्तरस्यापि सत्त्वादित्याशङ्क्य किञ्चिद्य्वावर्त्यतया प्रसक्तं संशयादावन्तर्भवति । किञ्चिल्लक्ष्यमेव न व्यावर्त्यमिति भावेन तदनुवादपूर्वकमुक्तान्तर्भावमाह ।। अनध्यवसाय इत्यादिना वक्ष्याम इत्यन्तेन ।

श्रीविजयीन्द्रतीर्थ

।। अयथार्थमिति । तथा च ज्ञानतत्साधनयोरयथार्थयोर्व्यावर्त्ययोश्च भावादर्थवत्प्रमाणमित्येव प्रमाणलक्षणमस्त्विति भावः ।। शुक्तिकामेवेति । न च शुक्तिकायां रजतत्वप्रकारकज्ञानविषयत्वासंसर्गाग्रहात्मैवायमप्यनुभव इति वाच्यम् । संसर्गे विषयत्वे बाधकाभावादिति भावः । स्वमतं निर्धारयितुमादौ निर्धारणप्रतियोगिनो दर्शयति ।। प्रतीतं चेत्यादिना ।। वैशेषिकादय इति । क्लृप्तरजतविषयकत्वेनैवोपपत्तावक्लृप्तविषयकत्वे मानाभावादिति भावः ।। विज्ञानवादिन इति । भेदविषयविभावानुपपत्तेरिति भावः ।। भास्कर इति । ज्ञानत्वस्य प्रमात्वव्याप्तत्वादिति भावः ।। न सन्नासदिति । बाधापरोक्षत्वाभ्यामिति भावः । युक्तिपुरःसरं निर्धारयति ।। असदेव रजतमिति । मतान्तरे त्वेतादृशानुभावानुपपत्तेः । न च तद्देशकालासत्त्वमेवासत्त्वं गोचरयत्यनुभव इति वाच्यम् । सकलदेशकालासत्त्वे बाधकं विना विशेषासत्त्वगोचरत्वे मानाभावात् । न चात्यन्तासतो भानसामग्रीविरह एव बाधकः सन्निकर्षादेस्तादृशस्याभावादिति वाच्यम् । दोषसहितस्यैवेन्द्रियस्य तज्ज्ञानसामग्रीत्वात् । सन्निकर्षस्यापि निषयतानियामकत्वेनोपयोगादिति भावः ।

श्रीवेदेशभिक्षु

।। अयथार्थमिति । तत्साधनं दूरतोपास्तमित्यर्थः । तथा च तदुभयव्यावृत्त्यर्थं प्रमाणलक्षणे यथाशब्दार्थग्रहणमयुक्तमिति भावः । प्राभाकर इत्यनेनायथार्थज्ञानसद्भावे मानाभावादिदं रजतमित्यादिकं तु नैकं विशिष्टज्ञानं किन्तु ग्रहणस्मरणात्मकं ज्ञानद्वयमेव । तयोश्च स्वरूपतो विषयतश्च भेदाग्रहादेव सामानाधिकरण्येन व्यवहारादिकम् । स एव च नेदं रजतमिति भेद्रगहणे बाध्यत इत्यादि तदीयमुपपादनं प्रसिद्धमेवेति सूचयति । प्रमाणाभावोऽसिद्ध इत्याह ।। अनुभवसिद्धत्वादिति । यथा सत्यरजतस्थले इदं रजतमिति विशिष्टविषयमेव ज्ञानं साक्षिसिद्धम् । तथा शक्तिकायामपीदं रजतमिति ज्ञानं च विशिष्टविषये साक्षिणा प्रतीयमानं कुतो नाङ्गीकार्यम् । न हि ततोऽस्य वैलक्षण्यमण्वपि प्रतीयते । प्रतीतौ वाऽस्मत्प्रतीत्यनुपपत्तेः । न चाविशिष्टविषयं ज्ञानद्वयमेवैकज्ञानत्वेन विशिष्टविषयकत्वेन च प्रतीयत इति वाच्यम् । तथा सति विशिष्टज्ञानमात्रासिद्धिप्रसङ्गात् । अस्यैवायथार्थज्ञानस्य स्वीकारापत्तेश्च । न चेदमपि न विशिष्टज्ञानमपि तु ज्ञानद्वयेन भेदाग्रहमात्रमिति वाच्यम् । बाधकाभावात् । अन्यथा सर्वत्रानाश्वासप्रसङ्ग इति भावः । प्रमाणान्तरमाह ।। एतावन्तमिति । न चायं बाधोत्तरकालीनपरामर्शः । शुक्तिविशेष्यकरजतत्वप्रकारकानुभवाभावे युक्तः । अत एव तत्परामर्शानुपपत्तेरेव विपर्यये प्रमाणमिति भावः । अयथार्थज्ञानमङ्गीकुर्वाणा अपि न स्वाभिमतं सर्वमङ्गीकुर्वन्तीति स्वाभिमतं निर्धारयितुं वैशेषिकादिमतमुपन्यस्यति ।। प्रतीतमिति । सर्वथाऽसत्त्वे प्रतीत्यनुपपत्तेस्तत्रैव सत्त्वे वा बाधानुपपत्तेरिति भावः ।। ज्ञानस्वरूपमेवेति । सर्वथाऽसत्त्वे प्रतीत्यनुपपत्तेर्देशान्तरे सत्त्वे प्रमाणाभावात्पुरत एव सत्त्वे भ्रान्त्यनुपपत्तेः परिशेषाद्विज्ञानमेव तदिति वक्तव्यम् । न चैवं भ्रान्तित्वानुपपत्तिः । आन्तरस्य बाह्यतावभासो भ्रम इत्यङ्गीकारादिति भावः ।। तत्रैवेति । असत्त्वे प्रतीत्यनुपपत्तेरुक्तं सदिति । अत्र प्रतीतस्य देशान्तरे सत्त्वे प्रमाणाभावादाह ।। तत्रैवेति । अनुत्पन्नत्वे पूर्वमेवोत्पन्नत्वे वा भ्रान्त्यनुपपत्तिरित्यत उक्तं तात्कालिकमुत्पन्नमिति । नश्यतीत्यपि ग्राह्मम् । तेन बाधोऽप्युपपद्यत एवेति भावः ।। न सदिति । सत्त्वे बाधानुपपत्तिरसत्त्वे ख्यात्यनुपपत्तिः सदसत्त्वे विरोध इति भावः । अनिर्वचनीयं सदसद्विलक्षणमित्यर्थः । सिद्धान्ते प्रमाणोक्त्यैव तद्विरोधेनोपन्यस्तानि मतानि निराकृतानीति मन्यमानः स्वाभिमतमयथार्थं ज्ञानं दर्शयितुं सप्रमाणकं भगवत्पादसिद्धान्तमाह ।। असदेवेदमिति । तदुक्तमाचार्यैः । असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति । अन्तन्तासद्रजतात्मनेति । इदं च यत्राधिष्ठनासन्निहितमारोप्यं तदभिप्रायेण । तत्रारोप्यतत्तादात्म्योरुभयोरपि बाध्यत्वेनासत्त्वात् । यत्रारोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्रमसत् । तन्मात्रस्यैव बाधात् । आरोप्यं तु सदेव । बाधोत्तरकालमप्यनुवर्तमानत्वात् । यथा दूरस्थयोश्चूतपनसयोरयं चूत इति भ्रम इति द्रष्टव्यम् । एतेनोपन्यस्तान्यपि मतानि निराकृतानि । तथा हि । न तावदाद्यं मतमुपपन्नम् । असदेवेदं रजतं प्रत्यभादित्यनुभवविरोधात् । न चान्यत्र सत्त्वेऽप्यत्रासत्त्वमङ्गीक्रियत इति प्रतीत्युपपत्तिः । देशान्तरे सत एवात्र प्रतीतौ मानाभावात् । न तावत्तत्र भ्रान्तिरेव प्रमाणम् । अत्रैव सत्त्वावेदकत्वाच्च । नापि बाधः । इह रजतनिषेधकस्य तस्यान्यत्र तत्सत्त्वासत्त्वयोरौदासीन्यात् । सर्वत्रासत्त्वे कथं प्रतीतिरिति चेत् । अन्यत्र सत्त्वेऽपि कथम् । न ह्यन्यत्र सत्त्वमत्र प्रतीतेरुपकारि । इन्द्रियार्थसन्निकर्षार्थं वा तदास्थेयं संस्कारसिद्ध्यर्थं वा । नाद्यः । विप्रकृष्टेन सन्निकर्षाभावात् । पुरोवृत्तिसन्निकर्षमात्रेणैव भ्रान्त्युत्पत्त्यङ्गीकारात् । न द्वितीयः । संस्कारो हि रजततानुभवमाक्षिपेदनुभवस्तु यथार्थो रजतसत्ताम् । अत्र प्रतीतस्यैवान्यत्र सत्ता तु कुतः कल्प्या । किञ्चासतः प्रतिभासासम्भवे तादात्म्यमपि न भासेत । तस्य त्वयाऽप्यसत्त्वाङ्गीकारादिति । नापि द्वितीयः । आन्तरमेवेदं रजतं बाह्यतया प्रत्यभादिति प्रतीत्यापत्त्याऽसत्त्वावेदकोक्तप्रत्ययविरोधात् । नापि तृतीयः । तत्रापि रजतं विनष्टमिति बाधाकारप्रसङ्गेनोक्तासत्त्वप्रत्ययविरोधात् । नापि चतुर्थः । उक्तानुभवविरोधात् । अत्र सत्तानिषेध एव भासते । नासत्त्वमिति चेत् । तदतिरिक्तस्यासत्त्वस्याभावात् । अनिर्वचनीयवादे तदतिरिक्तमेव तदिति चेत् । अन्योन्याश्रयात् । अनिर्वचनीयमेव तदिति बाधाकारप्रसक्तेश्च । मिथ्यैव रजतं प्रत्यभादित्यनेन नानिर्वाच्यतासिद्धिः । मिथ्याशब्दस्यासत्त्ववाचकत्वेनाप्युपपत्त्याऽनिर्वचनीयवाचकत्वे प्रमाणाभावात् । न च रजतस्यासत्त्वे सन्निकर्षाभावेनापरोक्षज्ञानानुपपत्ति; । पुरोवृत्तिसन्निकृष्टमेवेन्द्रियं दोषलक्षणसहकारिमहिम्नाऽसद्रजतापरोक्षज्ञानमपि जनयतीत्यभ्युपगमात् । विस्तरस्तु सुधायां द्रष्टव्य इति ।। वैशेषिका इति । तथा चेदपि ज्ञानद्वयं यथाशब्दग्रहणव्यावर्त्यत्वेन पूर्वं कुतो न प्रदर्शितमिति भावः ।

अभिनवामृतम्

अयथार्थज्ञानाभावात्तल्लक्षणादिनिरूपणमनुपपन्नमिति मन्यमानमतं दूषयितुमनुवदति ।। अयथार्थज्ञानमेवेति । इदं रजतमिति द्वे ज्ञाने ग्रहणस्मरणात्मके । स्मरणं तु दोषवशात्प्रमुषिततत्ताकं तद्विषयबाधाभावात् । द्वे अपि विज्ञाने यथार्थे इति स्वरूपतो विषयतश्च भेदाग्रहाद्रजतार्थिनः शुक्तिकायां प्रवृत्तिः । अत एव प्रवृत्तिविंसवाद इति भावः ।। अनुभवसिद्धत्वादिति । इदं रजतमिति ज्ञानप्रमाण्यस्य साक्ष्यनुभवसिद्धत्वादित्यर्थः । न च तदविज्ञानं ग्रहणस्मरणात्मकमिति वक्तुं युक्तम् । साक्षिणो निर्दोषत्वेन तत्तांशप्रमोषायोगात् । इदं रजतमिति ज्ञानस्य शुक्त्यन्यविशेष्यकत्वेऽनुभवविरोधमाह ।। एतावन्तं कालमिति । अस्य ज्ञानस्य बाधोत्तरकालीनत्वेन दोषाभावादत्रापि ज्ञानद्वयमङ्गीकृत्य न विवेकाग्रहो वक्तुं शक्यत इति भावः । विपर्ययमङ्गीकुर्वाणा अप्यनुपपन्नभाषिणो वैशेषिकादय इति भावेनाह ।। प्रतीतं चेति ।। ज्ञानस्वरूपमेवेति । आन्तरस्य बाह्यतया भासमानो भ्रम इति विज्ञानवादिनो मन्यन्ते । ततस्तेऽप्यनुपपन्नभाषिण इति भावः । परमतप्रतिक्षेपपूर्वकं मायावाद्युक्तसिद्धान्तं दूषयितुमनुवदति ।। न सदिति । तार्किकोक्तरीत्याऽऽरोप्यमाणं न देशान्तरे सत् । नाप्यसत्ख्यातिवाद्युक्तरीत्याऽत्यन्तासत् । नापि स्याद्वाद्युक्तरीत्या सदसत् । तदुक्तम् । भङ्ग्यन्तरख्यात्युपलक्षणमेतत् । स्याद्वाद्युक्तं सर्वमप्ययुक्तं किमिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। अनिर्वचनीयमेवेति । सत्स्यादित्येकः प्रकारः । असत्स्यादिति द्वितीयः । सदसत्स्यादिति तृतीयः। सदसद्विलक्षणं स्यादिति चतुर्थः । सत्त्वे सति सद्विलक्षणं स्यादिति पञ्चमः । असत्त्वे सत्यसत्त्वविलक्षणं स्यादिति षष्ठः । सदसत्त्वे सति सदसद्विलक्षणं स्यादिति सप्तमः प्रकारः स्यादिति वाद्युक्तभङ्गीषु चतुर्थप्रकार एव युक्त इति मायावादिनो वदन्तीत्यर्थः । एतेनानिर्वचनीयमित्यनेनैव पूर्णत्वान्नासत इत्यादिकं व्यर्थमिति परास्तम् । उदाहृतमतानामनुभवविरोधं सूचयन्नाह स्वमतम् ।। असदेवेति । ननु नानुभवबलेनारोप्यस्यात्यान्तासत्त्वं वक्तुं शक्यम् । अनुभवस्यात्रासत्त्वावगाहित्वेनात्यन्तासत्त्वेनावगाहित्वात् । अपि च चाकचक्येन सादृश्यं शुक्तौ रजतारोपहेतुः । तच्च सत एव सम्भवतीति सदेवारोप्यं नासत् । सादृश्यायोगात् । अन्यथा विनिगमनाविरहेण शुक्तौ खर्परारोपोऽपि स्यादिति चेत् । अत्र वक्तव्यम् । किमेवमसतः प्रतीत्ययोगादसदेव रजतं प्रत्यभादित्यनुभवस्य सङ्कोचः कल्प्यते । अथासत आरोपासम्भवात् । नाद्यः । असदारोप्यं नेति निषेधानुपपत्तेः । न ह्यसन्न जानाति तस्य चारोप्यं निषेधतीति । मा हि भूद्देवदत्तमजानतोऽपि तत्र श्यामत्वनिषेधधीप्रसङ्गः । द्वितीये वक्तव्यम् । एवं लक्षणकं शशविषाणमिति प्रतारकं वाक्यं भावयतो भूप्रदेशकाष्ठविशेषं दृष्ट्वेदं शशविषाणमिति जायमाने विभ्रमे किं सदारोप्यमुतासदारोप्यम् । आद्यं वदन् श्लाघनीयप्रज्ञः । द्वितीये कथमसदारोपो न सम्भवतीति । यदत्रोक्तं सादृश्यायोगान्नसदारोप्यमिति । तन्न । चाकचक्यारोप्यनिष्ठत्वाभावेऽपि चाकचक्येन यच्छुक्तिगतं सादृश्यं तत्प्रतियोगित्वस्य सत्यरजत इवासत्यपि सम्भवात्प्रतियोगित्वस्य धर्मिसत्तानिरपेक्षत्वादिदमेव हि सादृश्यप्रतियोगित्वं यत्तेनायं सदृश इति ज्ञानजनकीभूतज्ञानोल्लिख्यमानशब्दविषयत्वं तादृशज्ञानं रजतमिति ज्ञानं तेनोल्लिख्यमानः शब्दो रजतमिति शब्दस्तद्विषयत्वमुभयत्रापि समम् । खर्परस्य तु न तद्विषयत्वमिति न शुक्तौ तस्यारोपः । एवं रजतं रजतान्तरेण सदृशमिति ज्ञानजनकीभूतज्ञानोल्लिख्यमानशब्दविषयत्वस्य सद्भावात्प्रधाननिष्ठसादृश्यप्रतियोगित्वमप्यारोपस्योह्यम् । नन्वसन्न चेदारोप्यं किं प्रधानेन किमधिष्ठानप्रधानयोः सादृश्येन वा कृत्यमिति चेत् । उच्यते । असत् प्रतियोगिकमसदधिष्ठानस्य सादृश्यं तावदपेक्षितम् । अन्यथाऽतिप्रसङ्गात् । असतो रजतेनेदं सदृशमिति ज्ञानजनकीभूतरजतमिति ज्ञातोल्लिख्यमानशब्दविषयरूपं प्रतियोगित्वमधिष्ठानसदृशप्रधानमन्तरा न सम्भवतीति प्रधानसादृश्ययोरुपयोग इति । उपलक्षणमेतत् । आरोप्यं क्वचित्सदित्यपि द्रष्टव्यम् । अत एव सुधायाम् । यत्रारोप्याधिष्ठानसन्निहितं तत्र तत्तादात्म्यमसत् । यथा दूरस्थयोश्चूतपनसयोरेक एवायं चूत इति बाधोत्तरकालमपि स्वरूपद्रव्यानुवृत्तेः । यत्र पुनरसन्निहितमारोप्यं तत्र तादात्म्यं चोभयमप्यसत् ।। उक्तन्यायेनेति । क्वचिदारोप्यमपि सदित्युक्तम् । उत्तरकालीनानुभवादिति । यद्यप्यत्र कालाठ्ठञिति ठञ्विधानादावुत्तरकालिकेति भवितव्यम् । तथाऽपि सूत्रकारेणापि लोकप्रसिद्धसमानकालीनेत्यादिप्रयोगसिद्धये तद्धित इति बहुवचनेनानुक्तोऽपि प्रत्यय ऊह्यत इति ज्ञापनादुत्तरकालीनेत्युक्तम् ।

आदर्शः

।। अयथार्थेति । इदमिति प्रत्यक्षं रजतमिति स्मरणं द्वयोर्दोषवशात्स्वरूपतो विषयतश्च भेदाग्रहात्प्रवर्तकत्वमिति भावः ।। अनुभवेति । अभेदावगाह्यनुभवसिद्धत्वादित्यर्थः । अनुभवस्याभेदांशे भ्रमत्वं दुर्वारमिति भावः ।। परामर्शाच्चेति । स्मृतेरित्यर्थः । अभेदावगाह्यनुभवाभावे स्मृतेरसम्भवादिति भावः । स्मृतेरप्यंशद्वयस्यैक्यावगाहित्वेन चशब्दः ।। असदेवेति । अन्यमतेप्वनुभवविरोध इति भावः ।

वाक्यार्थमञ्जरी

।। न सन्नासदिति । अत्रानिर्वचनीयमित्येतावति वक्तव्ये यन्न सदित्याद्युक्तं तत्सच्चेन्न बाध्येतासच्चेन्न प्रतीयेत सदसत्त्वं विरुद्धमतः परिशेषात्सदसद्विलक्षणत्वरूपमनिर्वचनीयत्वमङ्गीकार्यमित्यनिर्वचनीयत्वे प्रमाणसूचनाय । अनुवादेनैव विज्ञास्यत इति सत्त्वादिपक्षे दूषणं नोक्तमिति द्रष्टव्यम् ।

श्रीविट्टलभट्ट

भास्करादय आदिशब्दार्थः । एवेत्यनेनायथार्थज्ञानरूपसंशयविपर्ययतत्सन्धानव्याव्यावृत्त्यर्थं यथार्थग्रहणमयुक्तमिति सूचयति ।। तन्नेति । तदयथार्थज्ञानं नास्तीति मतं न सम्भवतीत्यर्थः । तत्र हेत्वाकाङ्क्षायामाह ।। अनुभवसिद्धत्वादिति । शुक्तिकायां रजताभेदज्ञानस्येति शेषः । इदं रजतात्मना जानामीत्यनुभवसिद्धत्वादित्यर्थः । अन्यथा क्वचिदपि रजताभेदज्ञानं न सिध्द्येदिति भावः । उत्तरकाले परामर्शाच्चेति । नेदं रजतं किन्तु शुक्तिरेव मम त्विदन्त्वेन प्रतीतं यद्रजतं तन्नास्त्येवेति बाधानन्तरमेतावन्तं कालमेतवत्पर्यन्तमहं शुक्तिमेव रजतात्मना ज्ञातवानस्मीत्ययथार्थज्ञानस्यानुसन्धान इत्यर्थः । अयथार्थज्ञानप्रसङ्गाच्छुक्तिकायामिदं रजतमिति विशिष्टज्ञानविषये रजते वादिविप्रतिपत्तिमाह ।। प्रतीतं चेति । शुक्तिकायामिदं रजतमिति भ्रान्तिविषयोऽपीत्यर्थः । आहुरिति शेषः । एवं वक्ष्यमाणपक्षचतुष्टये दोषो न सन्देहः । वैशेषिकादय इत्यत्र नैय्यायिकादिरादिशब्दार्थः । वैशेषिकादिपक्षचतुष्टयमप्रामाणिकमिति ज्ञापयितुमाचार्यपक्षं सप्रमाणमाह ।। असदेवेति । इदं पदार्थात्मना प्रतीतस्य रजतस्यासदेवाविद्यमान एव न तु विद्यमानमिति कालत्रयासत्त्वगोचराद्बाधोत्तरकालीनानुभवादित्यर्थः । अत्यन्तासद्रजतात्मना कालत्रयासद्रजतात्मनेत्यर्थः । विद्यमानत्वरहितं रजतं किञ्चित्सर्वदा वा सदित्यस्य व्याहतत्वात् । भ्रमप्रतीतं रजतं कालत्रयेऽसदिति भावः । एतेनायमनुमवोत्तरासत्त्वगोचर इति नैयायिकानां जल्पनमपास्तम् । ममात्रेदमिति यद्रजतं प्रतीतं तदेवेति सत्त्वसामान्यविरोध्याभासत्वस्येव प्रतिभासात् । अन्यथा प्रमितेऽपि रजते सन्मात्रे इदमिति प्रतीतं रजतमसदेवेति प्रतीत्यापातात् । कदाचित्कुत्रचिद्वा सत्त्वस्य तत्र सत्त्वाद्भ्रान्तिप्रतीती रजतस्य बाधकवशात् । अत्र सत्त्वे सिद्धे तस्यान्यत्र सत्त्वे मानाभावादत्यन्तसत्त्वस्यैवाभ्युपेयत्वाच्च । न हि क्वाप्यसद्रजतं सदिति सम्भवति । व्याहतेः । ननु सत्यरजतवह्न्याद्यनुभवपूर्वको रजतवह्न्यादिभ्रम इत्यवश्यमभ्युपेयम् । अन्यथा नारिकेलद्वीपवासिनो गुञ्जापुञ्जे वह्निभ्रमापातात् । तथा चोपस्थितवन्हिपरित्यागे कारणाभावात्तस्यैव लाघवाद्भ्रान्तिविषयत्वं कल्पनीयमिति चेन्न । प्रमास्थल इव भ्रमस्थलेऽप्येतद्रजतं न पूर्वदृष्टमित्यनुभवात्तद्विरोधेन लाधवप्रवृत्त्ययोगात् । अन्यथा महानसादौ वह्न्युपस्थितिमन्तरेण पर्वते वह्न्यनुमित्यनुदयात् । उपस्थितवह्निपरित्यागे कारणाभावाल्लाघवेनोपस्थितवन्हेरेवानुमितिविषयत्वेन तदतिरिक्तवन्हिरित्यापातात् । यदि महानसीयो वह्निः पर्वते नास्तीति प्रत्ययोपस्थितवह्निपरित्यागे कारणत्वं मन्यसे । तर्ह्यपर्वतीयो वह्निः पर्वते नास्तीति प्रतीतेरयं पर्वतः स्वेतवृत्तिवह्निमानेवेति प्रतीतेश्चोपस्थितवन्हिपरित्यागे कारणत्वात् । अयं पर्वतोऽग्निमानिति भ्रमरूपानुमितेरत्यन्तासद्वह्निविषयत्वम् । आपणे दृष्टं सद्रजतं तन्मद्धस्त एवास्तीति नास्तीति प्रत्ययस्यैतदन्यदेशीयं यद्रजतं तदत्र नास्तीति प्रत्ययस्य नेदं देशान्तरस्थरजतमिति प्रत्ययस्य चोपस्थितरजतपरित्यागे कारणत्वादि रजतमिति भ्रान्तेरत्यन्तासद्रजतविषयत्वमङ्गीकुरु । भ्रान्तिविषयं कृते देशेऽविद्यमानस्य भ्रान्तिविषयरजतस्यान्यदेशीयत्वस्याप्यभावेनात्यन्तासत्त्वस्य न्यायप्राप्तत्वात् । न चापणे यद्दृष्टं रजतं तस्यात्र विशेषाभावाद्गृहेऽपि रजतत्वेऽपि रजतत्वेन सामान्यरूपेण तस्यैवात्रास्तु भानमिति वाच्यम् । तथा सति महानसीयवन्हिव्यक्तेर्महानसीयवन्हित्वेनानुमित्यविषयत्वेऽपि वन्हित्वेन सामान्यरूपेणानुमितिविषयतात् । तद्विशेषाभावस्य विशेषेण तद्य्वक्तिसत्त्वविरोधित्वतत्सामान्येनापि तद्य्वक्तिसत्त्वविरोधित्वात्तद्विशेषाभावग्रहेऽपि तस्या एव व्यक्तेः सामान्येनापि रूपेण तत्र भानायोगाच्च । अन्यथा ध्वंसप्रागभावयोर्विशेषाभावत्वेन स्वकाले सामान्येन रूपेण स्वप्रतियोगिसत्त्वाविरोधितया घटत्वं प्रागभावकाले तत्प्रतियोगिघटव्यक्तेर्घटत्वेन रूपेण सत्त्वप्रसङ्गात् । गन्धप्रागभावावच्छिन्नो घटो गन्धवान्पृथिवीत्वादित्यनुमानाद्गन्धवानित्यनुमित्यापाताच्च । विशेषाभावज्ञानस्य सामान्येन रूपेण स्वप्रतियोगिज्ञानाविरोधित्वात् । प्रथमक्षणविशिष्टो घटो निर्गुण इति ज्ञाने सत्यपि समवायिदेशे गुणसामान्याभावाभावेन तदज्ञानस्य गुणविशेषाभावाज्ज्ञानतया प्रथमक्षणे घटो घटत्वेन गुणवानिति प्रतीत्यापाताच्च । तस्माद्यस्य यत्र विशेषाभावाग्रहस्तस्य सामान्येनापि रूपेण तत्र ज्ञानायोगान्नेदं देशान्तरस्थरजतमिति भेदज्ञानदशायां रजतत्वेन वा तद्रजताभेदज्ञानायोगादगत्यदमत्यन्तासद्रजतात्मना भातीत्येवावश्यमभ्युपेयमिति । एतेनैव तत्र तात्कलिकमुत्पन्नपरमार्थत्वादनिर्वचनीयं वा रजतमस्तीति निरस्तम् । असदेव रजतं प्रत्यभादित्यनुभवादिदं रजतमिति प्रतीतं रजतमसदेवेति प्रतीतिकाले तत्सत्त्वेऽपि मानाभावात् । इदं रजतमस्तीति प्रतीतेरेव स्वविषयसद्भावे मानमिति चेन्न । बाधकप्रतीतेरेव स्वविषयसद्भावे मानत्वात् । अन्यथा बाह्यागमजन्यप्रतीतेः सर्वं रजतं सर्वदा सत्यज्ञानानन्दादिरूपमित्यादिप्रतीतेश्च स्वविषयसद्भावे प्रमाणत्वापातात् । स्वविषयसत्तावेदकत्वाविशेषात् । न हि बाधिताऽप्यपरोक्षप्रतीतेरेव सविषयीकृतार्थसत्त्वे मानं न तु परोक्षप्रतीतिरित्यत्र राजाज्ञाऽस्ति । वैपरीत्यस्यापि सुवचत्वात् । परमते निर्गुणवाक्यबाधितायाः सगुणवाक्यजन्यपरोक्षप्रतीतेः स्वविषयत्वे समानतापाताच्च । सत्त्वासत्त्वयोर्विरोधानङ्गीकारे तदा तद्विरोधाभावस्यैव तत्सहसाधकत्वाच्च । न च गोत्वविरोध्यश्वत्वरहिते गजे गोत्वं नास्तीति व्यभिचार इति वाच्यम् । गोत्वविरोध्यत्वाभावेऽपि तद्विरोधिगजजीवत्वस्य तदभावस्य च तत्र सत्त्वेनाव्यभिचारात् । एतेन भावाभावयोर्भिन्नसत्ताकयोर्विरोधात्त्रैकालिकनिषिद्धप्रतियोगिनोऽध्यस्तरूपस्य सत्त्वासत्त्वे उपपन्ने इत्यनिर्वचनीयस्यापीति वादिनां जल्पनमित्यपास्तम् । सत्ताभेदे मानाभावात् । अध्यस्तस्य कालत्रये सत्त्वप्रसङ्गाच्च । कालत्रयवर्तिनिषेधप्रतियोगित्वरूपस्य कालत्रयासत्त्वस्य तत्सत्त्वाविरोधिभावात् । प्रागभावध्वंसयोरपि स्वकाले स्वप्रतियोग्यध्यस्तरूप्यस्वरूपाविरोधित्वापाताच्च तयोः स्वप्रतियोग्यारोपितरूप्यस्य भिन्नसत्ताकत्वात् । अन्यथा स्वरूपस्य केवलान्वयित्वापाताच्च । तत्स्वरूपविरोध्यभावे तत्र तत्स्वरूपस्य केवलस्यापि दुर्वारत्वात् । बाह्यागमादिवेद्यार्थस्य सर्वस्य सत्त्वापाताच्च । तत्रापि भिन्नसत्ताकत्वेन विरोधस्य सुवचत्वात् । न च बाधोत्तरकालं मिथ्यैव रूप्यमभादित्यनुभवादध्यस्तरूप्यस्य मिथ्यात्वेन कथमत्यन्तासत्त्वमिति वाच्यम् । त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वमेवात्यन्ताभासत्वमिति चोद्यानवकाशादिति । ननु यथार्थग्रहणेन संशयविपर्यययोर्द्वयोरेव व्यावृत्तिकथनादन्यदयथार्थं ज्ञानं नास्तीति प्राप्तम् । तदयुक्तम् । वैशेषिकैरनध्यवसायस्य स्वप्नस्य चायथार्थज्ञानान्तरस्याङ्गीकारादित्याशङ्कमानं प्रति तन्मतमप्रामाणिकमिति ज्ञापयितुं दूषयितुमनुवदति ।। अनध्यवसायः स्वप्नश्चेति । आहुरिति शेषः । ज्ञानान्तरं संशयविपर्ययाभ्यामन्यदित्यर्थः ।