प्रमाणपद्धतिः

(२७) प्रमाणपद्धतिः

।। ३ ।। प्रतिज्ञाविरोधः । एकवक्तृके वाक्ये पदानामवान्तरवाक्यानां वा मिथो व्याघातः प्रतिज्ञाविरोधः । यथा मे माता वन्ध्येति । द्रव्यं गुणव्यतिरिक्तमव्यतिरिक्तत्वादिति । अयं च प्रथमजातित्वात्स्ववचनविरोध एव ।

जयतीर्थविजय

।। एकेति ।। अवान्तरेति । हेतूदाहरणादिरूपावान्तरवाक्ययोरित्यर्थः । एतदेवाह वरदराजोऽपि ।

पदयोर्वाक्ययोर्वाऽयमेकवक्तृकयोर्मिथः ।

व्याघातो निग्रहस्थानं स्यात्प्रतिज्ञाविरोधत ।। इति ।

अपसिद्धान्तव्यावर्तनार्थमेकवक्तृक इत्युक्तम् । शिष्टं सुबोधम् । तत्र प्रतिज्ञापदयोः परस्परविरोधमुदाहृत्य दर्शयति ।। यथा मे मातेति । प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोध इति न्यायसूत्रे प्रतिज्ञाहेतुपदाभ्यां प्रतियोगिद्वयमात्रमुपलक्ष्यते । लक्ष्यगतेन प्रतिज्ञापदेन चोक्तमात्रमुपलक्ष्यते । प्रतिज्ञाहेतुविरोध इति लक्ष्यनिर्देशे कर्तव्ये एकपदनिर्देशेनैकस्मिन्नप्यवयवे तदंशविरोधं सूचयतीति न्यायसूत्रव्याख्यानानुसारेण प्रतिज्ञाविरोधपदेनोपलक्षित इति नैयायिकमतं मनसि निधाय प्रतिज्ञाहेत्वोर्विरोधमुपपादयति ।। द्रव्यमिति ।। प्रथमेति । स्ववचनव्याहतिर्जातिरित्यभिधाय सा त्रिविधा । एकवक्तृके वाक्ये पदयोरवान्तरवाक्ययोर्वा मिथो व्याघातः स्वक्रियाविरोधः स्वन्यायविरोधश्चेति विभागादिति भावः ।

भावदीपः

यथा मे माता वन्ध्येत्यादिवाक्यादौ नेति निषेधो नञा निर्दिष्टमनित्यमिति न भवतीति मे मातेति साधु ।। प्रथमेति । पूर्वोक्तजातिविभागे प्रथमजातित्वादित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

प्रतिज्ञाविरोधं लक्षयति ।। एकेति । सवक्तृक एवेत्यर्थः । तेनापसिद्धान्ते न प्रसङ्गः । परस्परान्वितार्थकं स्वैकवक्तृकं वाक्यमिति फलितोऽर्थः । अस्यान्तर्भावमाह ।। अयं चेति । अस्य व्याहतोत्तरत्वेन जातित्वात् । जातेश्च पूर्वं त्रैविध्योक्तेः । प्रथमजातिस्वरूप स्ववचनविरोधेऽन्तर्भाव इत्यर्थः ।

श्रीवेदेशभिक्षु

अवान्तरवाक्यगतपदयोर्मिथो विरोधमुदाहरति ।। यथा मे मातेति । अवान्तर वाक्ययोर्मिथो विरोधमुदाहरति ।। द्रव्यमिति । अन्तर्भावमाह ।। अयमिति । प्रथमजातित्वादुक्त प्रथमजातिलक्षणाक्रान्तत्वात् ।। स्ववचनविरोध एवेति । जातेश्च स्वचनविरोधप्रभेदरूपत्वादिति भावः ।

अभिनवामृतम्

।। अयं च प्रथमजातित्वादिति । अनेन स्ववचनविरोधस्योदाहरणं सूचितम् ।

श्रीविट्टलभट्ट

प्रतिज्ञाविरोधं लक्षयति ।। एकवक्तृके वाक्य इति । एक एव वक्ता वाक्यप्रणेता यस्य तत्तथा तस्मिन्नित्यर्थः । इदं विशेषणं पूर्वाचार्योक्तविरुद्धरूपापसिद्धान्तव्यवच्छेदायोक्तम् । पदावान्तर वाक्ययोरन्यतरस्य मिथो विरोध इति विवक्षितत्वान्न परस्पराव्याप्तिः । पदयोर्विरोधस्योदाहरणमाह ।। यथा मे मातेति । वाक्ययोर्मिथो विरोधस्योदाहरणमाह ।। द्रव्यमिति ।। अयं चेति । प्रतिज्ञाविरोधरूपदोषस्त्वेककर्तृके वाक्ये पदयोरवान्तरवाक्ययोरन्यतरस्य मिथो विरोधरूपप्रथमजातित्वात्स्वचनविरोधो भवतीत्यर्थः ।