प्रमाणपद्धतिः

साक्षीन्द्रियस्य स्वरूपम्, विषयाः

(२४) प्रमाणपद्धतिः

इन्द्रियशब्देन ज्ञानेन्द्रियं गृह्यते । तद् द्विविधम् । प्रमातृस्वरूपं प्राकृतं चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपं तद्धर्मा अविद्या मनस्तद्वृत्तयो बाह्येन्द्रियज्ञानसुखाद्याः कालोऽव्याकृताकाशश्चेत्याद्याः । स च स्वरूपज्ञानमभिव्यनक्ति ।

जयतीर्थविजय

नन्वेवमपि कर्मेन्द्रियसन्निकर्षेऽतिव्याप्तिः । तत्रापि निर्दोषार्थेन्द्रियसन्निकर्षत्वसद्भावादित्यत आह ।। इन्द्रियशब्देनेति । केचित्प्रमातृस्वरूपभूतमिन्द्रियं नाङ्गीकुर्वते । अपरे तु मनस इन्द्रियत्वं प्रत्याचक्षते । तदुभयनिरासायेन्द्रियं सामान्यतो विशेषतश्च विभजते ।। तद्द्विविधमिति । प्रमातृस्वरूपभूतमिन्द्रियं सुधायां साधितम् । मनस इन्द्रियत्वं तु स्वातन्त्र्येण स्मरणसाधनं मन इति स्वयमेव साधयिष्यतीति द्रष्टव्यम् । नन्विन्द्रियत्रैविध्यं वक्तव्यम् । साक्षिणोऽप्यन्यस्य सत्त्वादित्यत आह ।। तत्रेति । साक्षिण्यनुप्रमाणसामान्यलक्षणमुपपादयति ।। स चेति । तथा च यथार्थज्ञानसाधनमनुप्रमाणमिति लक्षणे योगिज्ञानलक्षण इव यथार्थज्ञानातिशयसाधनत्वं विवक्षितमतिशयश्चोत्पत्तिर्व्यक्तिर्वेति नाव्याप्तिरिति भावः ।

भावदीपः

कर्मेन्द्रियेष्वपि वाक्पाणिपादपायूपस्थेष्विन्द्रियशब्दप्रवृत्तेराह ।। इन्द्रियशब्देनेति । जात्येकवचनम् । तत्तद्विषयेण तत्तदिन्द्रियस्य सन्निकर्षः प्रत्यक्षमित्यर्थसिद्धये इन्द्रियावान्तरभेदं तद्विषयांश्च विवेचयति ।। तद्द्विविधमित्यादिना मनोवृत्तिज्ञानं त्वित्यन्तेन । प्राधान्यक्रमेण निर्दिशति ।। प्रमात्रिति । प्रकृतिपरिणामाहङ्कारपञ्चमहाभूतांशैरुपचितं प्राकृतमित्युच्यते ।। बाह्येन्द्रियज्ञानसुखाद्या इति । आद्यपदेनेच्छा प्रयत्नग्रहः । इत्याद्या इति कालविशेषाणां प्राच्यादिदेशविशेषाणां प्रामाण्याप्रामाण्यादेर्ग्रहः । साक्षिणो यथार्थज्ञानसाधनत्वेनानुप्रमाणान्तर्भावः कथमित्यत आह ।। स चेति । आत्मस्वरूपज्ञानव्यक्तिहेतुतया साक्षिणो यथार्थज्ञानसाधनत्वेनानुप्रमाणान्तर्भेदभिन्नप्रत्यक्षान्तर्भावो युक्त इति भावः ।

श्रीविजयीन्द्रतीर्थ

।। ज्ञानेन्द्रियमिति । साक्षात्कारविषयताप्रयोजकासाधारणसम्बन्धप्रतियोगीत्यर्थः । सम्बन्धश्चक्षुरादौ संयोगादिः । साक्षिणि तु स्वरूपमेवेत्यवधेयम् । तद्विभजते ।। तद्द्विविधमिति । ननु साक्षिणोऽपीन्द्रियत्वात्त्रिविधमिति वक्तव्यं तत्कथं द्वैविध्योक्तिरित्यत आह ।। स च स्वरूपेति । प्रमातृस्वरूपसाक्षिणोरभेदान्नोक्तदोष इत्यर्थः ।। अविद्येति । भावरूपमज्ञानमित्यर्थः ।। स्वरूपज्ञानं व्यनक्तीति । आत्मधर्मतत्प्रयोजनादेः स्वाभिन्नसाक्षात्कारविषयतां प्रयोजयतीत्यर्थः ।

श्रीवेदेशभिक्षु

एवं प्रत्यक्षलक्षणप्रविष्टमर्थं तद्दोषांश्च निरूप्येदानीं तत्प्रविष्टमिन्द्रियं सपरिकरं तद्दोषांश्च निरूपयिष्यन्वागादिकर्मेन्द्रियार्थ संसर्गेऽतिव्याप्तिपरिहाराय तावदत्र विवक्षितमिन्द्रियशब्दार्थमाह ।। इन्द्रियशब्देनेति । ज्ञानसाधनमिन्द्रियं ज्ञानेन्द्रियम् । तत्फलमाह ।। स चेति ।।

अभिनवामृतम्

अवान्तरव्यापारप्राधान्यविवक्षया सन्निकर्षः प्रत्यक्षमित्युक्तम् । वस्तुतस्त्विन्द्रियमेव प्रत्यक्षमिति भावेनेन्द्रियविषयानाह ।। तस्य विषया इति ।। स च स्वरूपज्ञानमिति । चक्षुरादिवन्मनो वृत्तिज्ञानमपि कदाचिज्जनयतीति बोध्यम् । एतेन मोक्षयोग्यानां प्रामाण्यज्ञानस्य स्वरूपज्ञानत्वात्तस्य च यथार्थत्वादधमानां स्वरूपज्ञानमयथार्थमेवेति निर्धारणमयुक्तमिति परास्तम् । प्रमाणेनापि साक्षिणेश्वरसङ्कल्पवशाज्जायमानज्ञानस्य मनोवृत्तित्वात्तस्य यथार्थत्वेऽपि स्वरूपज्ञानस्य नियमेनायथार्थत्वान्मनसश्चाक्षुषादिज्ञानकरणत्वेऽपि यथार्थज्ञानसाधनत्वाभावान्नानुप्रमाणत्वमित्याह ।। स्वातन्त्र्येणेति । यद्यपि स्मरणं साधनमित्यनेनैवोक्तशङ्कापरिहारः । तथाऽपि साधनत्वस्फोरणाय स्वातन्त्र्योक्तिरित्यदोषः ।

आदर्शः

।। प्रमातृस्वरूपमिति । प्रमातृस्वरूपे इन्द्रियाङ्गीकारे कालादीनां तद्विषयत्वे प्रमाणं श्रीमन्न्यायसुधायां व्यक्तम् । ग्रन्थगौरवभयान्नात्र विवेचयिष्यते ।

वाक्यार्थमञ्जरी

।। प्रमातृस्वरूपमिति । चेतनात्मकं प्रकृतिकार्यं चेत्यर्थः । प्रत्यक्षं सप्तविधम् । साक्षिषडिन्द्रियभेदेनेति प्रमाणलक्षणे साक्षिणोऽपीन्द्रियत्वोक्तेः कुतस्तस्यासङ्ग्रह इत्यत आह ।। तत्रेति । तद्धर्माः स्वरूपसुखादयः । अविद्या भावरूपाज्ञानम् । तद्वृत्तयो मनः परिणताः । आद्यशब्देनेच्छादेः सङ्ग्रहः । इत्याद्या इत्यत्रादिपदेन सुखाद्यभावप्रामाण्यादेः सङ्ग्रहः ।। स चेति । इन्द्रियात्मकः साक्षी ज्ञानात्मकः साक्षिणमर्थविषयीकरणव्यक्तिमन्तं करोतीत्यर्थः । तदुक्तं सुधायाम् । सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं साक्षीत्युच्यते । तदभिव्यक्तं ज्ञानं चेति । अत्रेदं बोध्यम् । स्वरूपेन्द्रियमपि घ्राणादिभेदेन षड्विधं सल्लिङ्गदेहस्थसूक्ष्मषडिन्द्रियैः स्थूलशरीरस्थस्थूलेन्द्रियैश्च मिश्रं तिष्ठति क्षीरनीरवत् । तत्र स्पर्शेन्द्रियं स्थूलशरीरे सर्वत्र व्याप्तं चक्षुरादिचतुष्टयं स्वस्वगोलकवृत्ति । मनस्तु सर्वेन्द्रियाधिष्ठातृ सर्वशरीरसञ्चारि प्रायो हृत्कण्ठवृत्ति । तत्पञ्चविधम् । चित्तं चेतनाऽहङ्कारो बुद्धिरन्तःकरणमिति । तत्र केनचिद्रूपेण बाह्येन्द्रियद्वारा घटादिबाह्यार्थज्ञानं जनयति । रूपान्तरेण च तज्ज्ञानस्य तज्जन्येच्छाप्रयत्नसुखदुःखसंस्कारद्वेषोपादानं भवति । रूपान्तरेण पूर्वपूर्वजातगुणादीन् सहकारीकृत्य निमित्तकारणं च भवति । तत्र साक्ष्याख्यमनोरूपेन्द्रियाभिव्यक्तस्वरूपज्ञानं बाह्यमनोरूपेन्द्रियतत्परिणतज्ञानादिभिः सह विषयीकरोति । आत्मकालाकाशाविद्याप्रकृत्यादि विषयीकार्यमपि स्वरूपमनोऽभिव्यक्तं स्वरूपज्ञानमेव । इदं चेन्द्रियद्वैविध्यं संसारिणामेव । मुक्तानां तु स्वरूपेन्द्रियाण्येव । यथोक्तं बृहद्भाष्ये । ‘‘मनसः सम्प्रयोगो यो दुःखादिरहितात्मनः । अभावरूपं प्रत्यक्षं मनश्च द्विविधं मतम् । चेतनं च जडं चेति चक्षुराद्यं तथैव च । चेतनं त्विन्द्रियं ह्यात्मा स्वरूपान्नापरं स्मृतम् । मुक्तानां चेतनं त्वेव बद्धानामुभयं तथा । स्वरूपेणापि संयोगः स्वरूपस्यैव युज्यते । यथा रक्तस्य संयोगस्तत्प्रकाशेन नित्यदेति । अनुव्याख्याने च । प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् । शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युक्तमिति’’ ।

श्रीविट्टलभट्ट

इन्द्रियपदस्य ज्ञानेन्द्रियकर्मेन्द्रियपरत्वप्रतीतिवारणायाह ।। इन्द्रियशब्देन चेति । अर्थ समुच्चयार्थश्चशब्दः । अन्यथा कर्मेन्द्रियार्थसन्निकर्षेऽतिव्याप्तिः स्यादिति बोध्यम् । ज्ञानेन्द्रियमात्मातिरिक्तमेवेति भ्रान्तिरिति ज्ञापनाय तद्विभागमाह ।। तद् द्विविधमिति । प्राधान्यक्रमेणोद्दिशति ।। प्रमा तत्स्वरूपं प्राकृतं चेति । अत्र प्रकृतिशब्दोऽहङ्कारपञ्चमहाभूतपरः सूक्ष्मरूपेण नित्यमपि जडेन्द्रियं तदंशैरुपचितत्वात्प्राकृतमित्यर्थः । तदुक्तं सुधायाम् । प्रकृतिशब्देनाहङ्कारः पञ्चमहाभूतानि चोच्यन्ते । सूक्ष्मरूपेण नित्यमप्यहङ्कारांशैरुपचितत्वात्प्राकृतमिति । जडस्य चानित्याहङ्कारभौतिकत्वम् ।

सूक्ष्मेन्द्रियाणि सन्त्येव तानि स्थूलान्यहङ्कृतेः ।

तेषां भूतैरुपचयः सृष्टिकाले विधीयत

इत्यादि स्मृतिसिद्धमिति च । साक्षिषडिन्द्रियभेदेनेति प्रमाणलक्षणोक्तेः साक्षिणोऽपि ज्ञानेन्द्रियत्वात्तस्य क्वान्तर्भाव इति जिज्ञासायामाह ।। तत्रेति । तयोः स्वरूपेन्द्रियं साक्षीत्युच्यत इत्यर्थः । अर्थशब्देनेन्द्रियविषया गृह्यन्त इत्युक्तम् । तत्र साक्षिविषयः क इति जिज्ञासायामाह ।। तस्येति । तस्य साक्षिण आत्मस्वरूपमात्मनो धर्मिभूतस्वरूपभूतमित्यर्थः । तद्धर्मास्तस्यात्मनो धर्मा ज्ञानसुखाद्या इति वक्ष्यमाणमत्रापि सम्बध्यते । अविद्या भावरूपाज्ञानं तद्वृत्तयो मनोवृत्तय इत्यर्थः । आद्यशब्देनेच्छाप्रयत्नादीनां सङ्ग्रहः । साक्षिणो ज्ञानसाधनत्वाभावात्कथं ज्ञानेन्द्रियत्वमित्यत आह ।। स चेति । साक्षी तु प्रमातृस्वरूपज्ञानमर्थकरणरूपव्यक्तिमत्करोतीत्यर्थः । ज्ञानव्यञ्जकत्वादस्य ज्ञानेन्द्रियत्वमिति भावः ।