प्रमाणपद्धतिः

नैयायिकमतनिरास:

(१५) प्रमाणपद्धतिः

सम्यगनुभवसाधनं प्रमाणमिति नैयायिकादयः । तदप्यसत् । यथार्थज्ञानेऽव्याप्तेः । प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तम् । साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं विवक्षितमिति चेन्न । आश्रयग्रहणवैय्यर्थ्यात् । ईश्वरस्यापि प्रामाण्यसिध्द्यर्थं तदिति चेन्न । कर्तरि प्रमाणशब्दस्याननुशासनात् । यथार्थज्ञानेष्वव्याप्तेश्च । तस्माद्याथार्थ्यमेव प्रमाणलक्षणं युक्तम् ।

जयतीर्थविजय

।। यथार्थज्ञानेऽव्याप्तेरिति । तस्यापि घटादिसद्भावे प्रमाणत्वेन संव्यवहारेण लक्ष्यत्वावश्यंभावादिति भावः ।। साधनाश्रययोरिति । साधनाश्रययोरित्यतः प्राक् प्रमेति शेषः । तथा च प्रमासाधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं प्रमाणलक्षणमिति पर्यवसन्नम् । एवं च घटादेः प्रमेयस्य प्रमासाधनप्रमाश्रययोरन्यतरत्वाभावान्नातिव्याप्तिरिति भावः । ननु नाश्रयग्रहणं व्यर्थम् । आश्रयपदपरित्यागे हि प्रमासाधनत्वे सति प्रमाव्याप्तत्वं लक्षणं स्यात् । तच्चेश्वरे नास्ति । तस्य प्रमासाधनत्वाभावात् । तथा चेश्वरेऽव्याप्तिवारणायाश्रयग्रहणं सार्थकमेवेति शङ्कते ।। ईश्वरस्यापीति ।। कर्तरीति । प्रमाणशब्दस्य ल्युडन्तत्वाल्युटश्च कर्तर्यनभिधानादिति भावः । ननु तर्हि कर्तरि ल्युटोऽननुशासानदित्येव कुतो नोक्तमिति चेन्न । शङ्कान्तरपरिहारार्थत्वात् । तथा हि । कृत्यल्युटो बहुलमित्यत्र विशिष्य कर्तरि ल्युटोऽननुशासनेऽपि बहुलग्रहणात्कर्तर्यपि स्यात् । तथा च कथं कर्तरि ल्युटोननुशासनमिति चेत्तथाऽप्यत्रार्थे ज्ञानं प्रमाणमितिवत्प्रमातरि प्रमाणशब्दव्यवहाराभावात्तदसङ्ग्रह इति । यथाऽऽहुः । सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैरिति । अत एव वक्ष्यति । तथाऽपि प्रमाणशब्दस्याधिकरणे प्रयोगाभावात्तदसङ्ग्रह इति । अत्र नूतननैयायिका न वयमीश्वरस्य कर्तृत्वेन प्रामाण्यमाचक्ष्महे येन कर्तरि प्रमाणशब्दस्याननुशासनं दोषः स्यात्किन्तु प्रमाश्रयत्वेनैव । यथाऽऽह वरदराजः ।

नित्यानित्यतया द्वेधा प्रमा नित्यप्रमाश्रयः ।

प्रमाणमितरस्यास्तु करणस्य प्रमाणता ।

एवं च नित्यप्रमाश्रयत्वादीश्वरस्य प्रतितन्त्रसिद्धान्तसिद्धं प्रामाण्यं लक्षितं भवति । तदुक्तम् । तत्प्रामाण्यमात्मप्रामाण्यादिति । तन्मे प्रमाणं शिव इति च । अत्र प्रमाणसाधकतमं प्रमाणमित्यादीनि न्यायविदां लक्षणवचनानि लौकिकप्रमामात्रपराणि । अत एव हि प्रमातुरेवेश्वरस्य प्रमाविनाभावेन प्रामाण्यमुपपादयन्त आहुः ।

मितिः सम्यक् परिच्छित्तिस्तद्वात्ता च प्रमातृता ।

तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मत ।। इति ।

ईश्वरे कर्तरि विहिततृच्प्रत्ययान्तप्रमातृशब्दस्तु कर्तृत्वाभावेऽपि रूपग्राहकं चक्षुरिति विहितण्वुल्प्रत्ययवत्साधुत्वमात्रार्थो वा । क्रियानुकूलव्यापारवत्त्वसाधर्म्येण करणे कर्तृत्वोपचाराद्वा युज्यते । अत एव प्रमाणं हेतुमर्यादा शास्त्रेयत्ता प्रमातृष्वित्यभिधानमप्यनुकूलम् । एवं चेश्वरेऽव्याप्तिवारणायाश्रयग्रहणं सार्थकमिति । तत्तुच्छम् । एवं ह्यनीश्वरात्मनामपि प्रामाण्यप्रसङ्गः । तेषामपि प्रमाश्रयत्वात् । तेषां प्रमाश्रयत्वेऽपि तदविनाभावाभावान्न प्रामाण्यमिति न वाच्यम् । तेषामपीश्वरप्रमाव्याप्तत्वात् । अथ स्वजन्यस्वाश्रयान्यतरा या प्रमा तद्य्वाप्तत्वं विवक्षितम् । अस्ति चेदं चक्षुरादौ न त्वनीश्वरात्मनि । तद्य्वापिकाया ईश्वरप्रमायाः स्वजन्यस्वाश्रयान्यतरत्वाभावादिति चेत् । हन्तैवं तथा सति चक्षुरादावव्याप्तिप्रसङ्गः । न हि यदा यदा चक्षुस्तदा तदा स्वजन्यप्रमा । दोषसमवधाने इतरकारणासमवधाने च सत्यपि चक्षुरादौ तदभावात् । अथ यदा यदा निर्दोषमितरकारणसमवहितं चक्षुरादिकं तदा तादृशप्रमेत्यस्तीति चेत्तर्हि यदा तादृशचक्षुरादिमाञ्जीवस्तदा तादृशप्रमेति व्याप्तेस्तत्रापि सत्त्वेनातिव्याप्तिर्दुर्वारा । तस्मादाश्रयग्रहणं व्यर्थमेव । एवं च प्रमाव्याप्त्या प्रमाणत्वे प्रमातुरपि तद्भवेत् । जीवेषु तदभावश्चेन्नेत्रादावपि नो भवेत् । विशिष्टस्य प्रमाव्याप्तौ जीवे सा केन वारिता । तस्मान्नोदयनं मानलक्षणं नोदयं व्रजेत् । किञ्चान्यतरत्वविशेषणेन साधनाश्रययोः सङ्ग्रहे एवमेव ध्वंसाद्यन्यतमत्वमेवाभावलक्षणम् । रूपाद्यन्यतमत्वमेव गुणलक्षणमिति सुवचत्वेन गुरुभूतलक्षणान्तरप्रणयनानुपपत्तिर्नैयायिकानाम् । अभिधानमपीश्वरप्रामाण्ये नानुकूलम् । न ह्यत्र प्रमाणशब्दव्यवहारविषयमात्रस्य लक्षणं प्रस्तुतम् । तथात्वे मर्यादादेरपि लक्षणीयत्वप्रसङ्गात् । किन्तु तथात्वे सति वस्तुसाधकस्य । तथात्वं चैतत्सद्भावे किं प्रमाणमिति प्रश्ने मदीयं घटसद्भावे प्रमाणं मम चक्षुर्घटं विषयीकरोतीत्यादिव्यवहाराद्भावकरणयोरेव । अत्रार्थे विप्राः प्रमाणमित्यादिकं तु तज्ज्ञानविषयम् । अन्यथा ज्ञानरहितानामपि तेषां तत्रार्थे प्रमाणत्वव्यवहारप्रसङ्गादित्येत्सर्वं मनसि निधायोपसंहरति ।। तस्मादिति । लक्षणान्तराणामनुपपन्नत्वादित्यर्थः ।

भावदीपः

।। तदप्यसदिति । अलक्षणमित्यर्थः ।। प्रमाव्याप्तमिति । प्रमया व्याप्तं प्रमाव्याप्तम् । यथाश्रुते दोषमाह ।। तदपीति । ईश्वरप्रमाया अनादिनित्यत्वाद्यदा घटादिप्रमेयं तदेश्वरप्रमेति व्याप्तेरिति भावः ।। साधनेति । प्रमासाधनप्रमाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वमित्यर्थः । तथा च नोक्तदोषः । प्रमेयस्य तदुभयान्यतरत्वाभावादिति ज्ञेयम् । आश्रयपदेन प्रमावान्प्रमास्वामी तत्कर्ताऽभिप्रेत उताधिकरणमात्रम् । आद्ये आह ।। कर्तरीति । तत्पक्षे हि प्रमातीति प्रमाणमिति प्रपूर्वात् माङ्मान इति धातोः कर्तरि ल्युट्प्रत्यये प्रमाणमिति रूपमिति वाच्यम् । न चैवं कर्तरि ल्युटो विधानमस्ति । ल्युटो करणाधिकरणयोश्च विधानात् । नान्त्यः । निरसिष्यमाणत्वादिति भावः । दोषान्तरं चाह ।। यथार्थज्ञानेष्विति ।

श्रीविजयीन्द्रतीर्थ

।। प्रमाव्याप्तमिति । नियतप्रमासम्बन्धवदित्यर्थः । अत्र नियतप्रमासम्बन्धवत्त्वं न जन्यजनकभावसम्बन्धेन । ईश्वरासङ्ग्रहात् । नाप्याश्रयत्वेन । साधनासङ्ग्रहात् । किन्तु यथाकथञ्चित् सम्बन्धेन वाच्यम् । तथा सति विषयविषयिभावस्य प्रमासम्बन्धस्य सर्वत्र सत्त्वादतिव्याप्तिरित्यत आह ।। तदपीति ।। साधनाश्रययोरन्यतरत्वे सतीति । साधनाश्रयत्वान्यतरसम्बन्धेन प्रमाव्याप्तत्वमित्यर्थः ।। आश्रयस्येति । प्रमासाधनत्वमेव लक्षणमस्त्वित्यर्थः ।। ईश्वरस्यापीति । अन्यथेश्वरस्य प्रमायां साधनत्वाभावेन प्रमाणत्वं न स्यादिति भावः । ननु केनोच्यत ईश्वरः कर्तेत्यपि त्वाश्रय इति । तत्र ल्युटोऽनुशासनमस्त्येवेत्यत आह ।। यथार्थज्ञानेष्विति ।

श्रीवेदेशभिक्षु

।। सम्यगिति । सम्यगिति संशयादिनिरासाय । अनुभव इति कुठारादेर्निरासाय । ज्ञानमात्रग्रहणे स्मृतौ प्रसङ्गादनुभवग्रहणम् । साधनग्रहणं फलव्यवच्छेदाय प्रमातृप्रमेयव्यवच्छेदार्थं च । न्यायैकदेशिमते ईश्वरस्याप्रमाणत्वात्तत्प्रामाण्यवादिमतेऽप्येतस्य लौकिकप्रमाणमात्रलक्षणत्वान्नेश्वरेऽव्याप्तिरिति द्रष्टव्यम् ।। यथार्थेति । न च न ज्ञानं प्रमाणं किन्तु तत्फलमतो नाव्याप्तिरिति वाच्यम् । करणवज्ज्ञानस्यापि ल्युडन्तप्रमाणशब्दवाच्यतया लक्ष्यताऽवश्यसम्भावस्य वक्ष्यमाणत्वात् । प्रामाण्यस्य परतस्त्वेऽनवस्थाप्रसङ्गेन स्वप्रकाशज्ञानग्राह्यत्वावश्यम्भावेन ज्ञानप्रामाण्यस्यावश्यकत्वाच्चेति भावः ।। प्रमाव्याप्तमिति । इदं च लौकिकप्रमाणेश्वरसाधारणम् । अत्र यद्यपीश्वरे प्रमासाधने चक्षुरादौ च न प्रमया दैशिकी व्याप्तिः सम्भवति । तथाऽपि यदेश्वरस्तदा प्रमेति यदा सन्निकृष्टेन्द्रियस्तदा प्रमेति च कालिकी विवक्षितेति ध्येयम् ।। सर्वस्यापीति । भ्रमादिदशायां व्यभिचारेणास्मत्प्रमाव्याप्तत्वाभावादाह ।। ईश्वरप्रमेति । यदा सर्वं प्रमेयं तदेश्वरप्रमेति व्याप्तेरप्रतिहतत्वादिति भावः । इदमुपलक्षणम् । सुखादिप्रमेयेऽस्मदादिप्रमाव्याप्तत्वेनातिव्याप्तिर्द्रष्टव्या ।। साधनाश्रययोरिति । एवं च प्रमेयस्य साधनत्वमाश्रयत्वं वा नेति नातिव्याप्तिरित्यिर्थः ।। कर्तरीति । प्रमाणशब्दस्य ल्युडन्तत्वात् । ल्युटश्च करणाधिकरणभावेष्वनुशासनेऽपि कर्तर्यननुशासनादित्यर्थः । ईश्वरस्य कर्तृत्वेऽपि प्रमां प्रत्यधिकरणत्वमस्त्येवातः प्रमाणशब्दवाच्यत्वमुपपद्यत इति चोद्यमुत्तरत्र स्वयमेव परिहरिष्यति । परोक्तप्रमाणसामान्यलक्षणनिराकरणस्य प्रकृतोपयोगं दर्शयन्नुपसंहरति ।। तस्मादिति ।

अभिनवामृतम्

।। प्रमाव्याप्तमिति । यस्य नियमेन प्रमासम्बन्धस्तत्प्रमाणं यावच्छक्तिकविसंवादिलिङ्गविभ्रमादि च प्रमाकरणमपि न प्रमाणं प्रमाव्याप्तत्वाभावादिति भावः । दूषयति ।। तदपीति । यद्यत्प्रमाव्याप्तं तत्तस्मिन्नर्थे प्रमाणम् । न चेश्वरप्रमाविषयो घटादिरीश्वरप्रमाविषये स्तम्भादौ प्रमाणमित्यलक्ष्यत्वादव्याप्तिरिति भावः । एतेन वन्हिव्याप्तो वन्हाविवेश्वरप्रमाव्याप्तो घटादिरीश्वरप्रमायां प्रमाणमेवेति लक्ष्यत्वान्नातिव्याप्तिरिति परास्तम् । घटादेरीश्वरप्रमां प्रति प्रामाण्येऽपि तद्विषये प्रामाण्याभावेनालक्ष्यत्वात् । न ह्येकत्र प्रमाणमन्यत्रापि प्रमाणं भवति । मा हि भूच्छब्दानित्यत्वे प्रमाणं कृतकत्वं तन्नित्यत्वे प्रमाणम् ।। आश्रयग्रहणवैय्यर्थ्यादिति । साधनत्वविवक्षयैव प्रमेयेऽतिव्याप्तिपरिहारस्य सुशकत्वादाश्रयग्रहणं व्यर्थमित्यर्थः । एतेन प्रमेयेऽतिव्याप्तिवारणाय तस्योपात्तत्वेन वैय्यर्थ्यशङ्काऽनुदय इति परास्तम् ।। ईश्वरस्यापीति । प्रामाण्यसिध्द्यर्थमीश्वरः प्रमाणमिति व्यवहारसिद्ध्यर्थं तद्विशेषणमित्यर्थः । एतेन लक्षणगतविशेषणानामतिव्याप्त्यादिदोषनिवारणद्वारा व्यावृत्तिबुद्धिशब्दव्यवहारप्रयोजकत्वेन लक्ष्यतावच्छेदकसिद्ध्यप्रयोजकत्वात्प्रमाण्यसिद्ध्यर्थं तदित्ययुक्तमिति परास्तम् ।। कर्तरीति । अर्थव्यवस्थापकनिष्ठावृत्त्योरन्यतरवृत्त्या ज्ञानतत्साधनयोरिव कर्तरि प्रमाणशब्दस्याननुशासनेन कर्तरि लक्ष्यत्वाभावान्न तत्सङ्ग्रहाय विशेषणं देयमिति भावः । एतेन प्रमाणशब्दस्य सेतुविधारणं पुंसां यत्प्रमाणं च केशव इति भागवते कर्तरि प्रयोगात्

प्रमाणहेतुर्मर्यादाशास्त्रेयत्ताप्रमातृषु ।

सम्यग्वक्तरि वाऽर्थः स्यात्प्रयाणे मरणे गताविति

यादववचनाच्च कर्तरि प्रमाणशब्दस्यानुशासनादित्युक्तमिति परास्तम् । सैन्धवादिवन्नानार्थकस्य प्रमाणशब्दस्य वृत्त्यन्तरेण कर्तर्यनुशासनेऽप्यर्थव्यवस्थापकभावकारणनिष्ठवृत्त्योरन्यतरनिष्ठवृत्त्योरन्यतर वृत्त्याऽननुशासनात् ।

आदर्शः

यथार्थेति । उक्तरीत्या साधकत्वेन निमित्तेन प्रमाणपदावाच्यानां सर्वेषामेव लक्ष्यत्वस्योचिततयाऽनुप्रमाणमात्रस्य लक्षणकथनेऽसङ्गतिरिति भावः । अत्रार्थे किं प्रमाणमित्याकारकाकाङ्क्षाया वेदादिरूपप्रमाकरणकथनेन निवृत्तिवत्प्रत्यक्षज्ञानादिरूपप्रमाणकथनेनापि निवृत्त्या प्रमाणपदमेकया शक्त्या प्रमातत्करणयोरेकवृत्त्या बोधकमिति तत्पदप्रवृत्तिनिमित्तस्योभयसाधारणस्यैवेदानीं निर्वाच्यतया प्रमाकरणत्वस्य तादृशत्वं न सम्भवति । प्रमायामवृत्तित्वादिति भावः । करणेऽपि ल्युटो विधानात्तदन्तप्रमाणपदार्थस्यैव लक्षणमुक्तमिति नासङ्गतिरिति वाच्यम् । प्रमाणपदस्य करणार्थकल्युडन्तत्वज्ञानवतां पूर्वमेव ज्ञातत्वेन तदुक्तेर्वैय्यर्थ्यापत्तेः । प्रमेयसिद्ध्युपयुक्तस्य प्रमाणपदार्थस्यैव सर्वेषामज्ञातस्य याथार्थ्यरूपस्याकाङ्क्षाविषयत्वेन तदुक्तेरेव सङ्गतत्वाच्च । न हि ज्ञाने ज्ञानत्वं तत्करणेषु करणत्वं वा पूर्वमज्ञातमर्थसिद्ध्युपयुक्तं येन तत्राकाङ्क्षा लोकानां स्यात् । किन्तु याथार्थ्यमेव तादृशमिति ज्ञाने वा याथार्थ्यज्ञानानन्तरं तत्करणत्वमन्वयव्यतिरेकाभ्यामन्यत्रेव स्वत एव ज्ञायत इति तत्राकाङ्क्षैव नोदेति येन तदुक्तिः सङ्गता स्यात् । किन्तु याथार्थ्यविशिष्टजननानुकूला शक्तिरेवार्थसिद्ध्युपयोगिनी पूर्वमज्ञाता चेति सैवाकाङ्क्षिता भवतीत्युभयसाधारणं याथार्थ्यमेव ग्रन्थकृद्भिर्वक्तव्यम् । न तु स्वसङ्केतमात्रज्ञाप्यकलक्षणोक्तिर्युक्तेति । अत एव याथार्थ्यस्य प्रमाणपदार्थतावच्छेदकत्वप्रदर्शनाय यथार्थपदस्य योगवृत्त्या यथावस्थितार्थमात्रविषयकत्वार्थकत्वं प्रदर्शितमिति ध्येयम् । प्रमाणपदादुक्तार्थबोधप्रकारश्च पूर्वमेव प्रदर्शितः ।। प्रमाव्याप्तमिति । कालिकी व्याप्तिर्बोध्या । स्वाधिकरणलक्षणाव्यवहितोत्तरक्षणत्वव्यापककार्याधिकरणकत्वमिति यावत् । जीवेष्वतिव्याप्तिवारणाय कार्याधिकरणतायां स्वाव्यावहितक्षणोत्तरक्षणत्वव्यापकत्वनिवेशः । न च सामग्य्रभावकालीनचक्षुःष्वव्याप्तिः । तदुत्तरक्षणे प्रमाया असत्त्वादिति वाच्यम् । सन्निकर्षविशिष्टनिर्दुष्टचक्षुष एव प्रमाणत्वात् । केवलचक्षुषोऽलक्ष्यत्वात् । हेत्वाभाससामान्यक्षणे वन्ह्यभावविशिष्टहृदादेर्लक्ष्यत्वेऽपि शुद्धहृदादेरलक्ष्यत्ववदत्राप्युपपत्तेः ।। साधनाश्रययोरन्यतरत्वेनेति । स्वाधिकरणक्षणाव्यवहितोत्तरक्षणत्वव्यापकस्वजन्यस्ववृत्तित्वान्यतरवत्प्रमाधिकरणत्वकत्वमित्यर्थः । जीवजन्यप्रमायाः कस्या अपि जीवाधिकरणक्षणत्वव्यापकत्वाभावान्न जीवादेः स्वपदार्थतेति नातिव्याप्तिरिति भावः ।

वाक्यार्थमञ्जरी

।। प्रमाव्याप्तमिति । नियतप्रमासम्बन्धिवदित्यर्थः । यदा सन्निकृष्टेन्द्रियं तदा प्रमेति कालिकनियमोऽत्र ग्राह्यः ।

श्रीविट्टलभट्ट

।। सम्यगनुभवसाधनमिति । वैशेषिकादिरादिशब्दार्थः । यथार्थानुभवे यथार्थस्मरणे वा व्याप्तेरित्यर्थः । यद्यपि कारणप्रामाण्यवादिनां तेषामेतस्यालक्ष्यत्वान्न तत्राव्याप्तिस्तथाऽपि ल्युडन्तप्रमाणशब्दस्य कारण इव भावेऽप्यनुशासनादनुभव एवात्र मानं संविदेव हि भगवतीति वस्तूपगमेन शरीरमिति व्यवहाराच्च । तस्यापि लक्ष्यत्वेनाव्याप्तिरेवोति बोध्यम् । सम्यगनुभवसाधनं प्रमाणमित्युक्तस्य प्रमाणलक्षणस्येश्वरेऽभावात् । तत्सङ्ग्रहार्थमुदयनेनोक्तं प्रमाणलक्षणमनूद्य दूषयति ।। प्रमाव्याप्तं प्रमाणमित्युदयनस्तदपीत्यादिना । तदपीत्यस्य वक्ष्यमाणेनान्वयः । यद्यपि सर्वस्यपि प्रमेयस्येश्वरप्रमया न दैशिकी व्याप्तिरभिप्रेता । इन्द्रियार्थसन्निकर्षविशेषे प्रमाणेऽभावात् । किन्तु यदेन्द्रियार्थसन्निकर्षविशेषस्तदा प्रमेति कालिकी व्याप्तिर्विवक्षितेति वाच्यम् । उत्तरक्षणे प्रमोत्पत्तेः कालतो व्याप्तिस्तत्रासत्त्वात्स चास्तीश्वरप्रमायाः सर्वस्मिन्प्रमेयेऽपीत्यतिव्याप्तिरिति बोध्यम् । साधनाश्रयोरन्यतरत्वमपि विवक्षितमतो न तत्रातिव्याप्तिरित्याशयेन शङ्कते ।। साधनाश्रययोरन्यतरत्वे सतीति । प्रमासाधनाश्रययोरन्यतरत्वे सतीत्यर्थः ।। आश्रयग्रहणवैय्यर्थ्यादिति । प्रमाश्रयपदोपादानवैय्यर्थ्यादित्यर्थः ।। कर्तरि प्रमाणशब्दस्येति । भावकरणयोरिव कर्तरि ल्युटो विधायकसूत्राभावात् । सूत्रेण ल्युडन्तप्रमाणशब्दस्य प्रमाकर्तर्यविधानादित्यर्थः । प्रमाणशब्दस्य प्रमाकर्तर्यपि प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृष्वित्यनुशासनरूपोक्तिरस्ति । तदाऽपि करणव्युत्पत्तिपुरस्कारेण प्रमाशब्दस्य प्रमाणकरण इव प्रमाकर्तरि कर्तृव्यत्पत्तिपुरस्कारेणानुशासनं नास्त्येव । अमरोक्तिबलात्प्रमाणशब्दवाच्यतामात्रेण प्रमातुरीश्वरस्यापि प्रामाण्याङ्गीकारे तु प्रमाणशब्दवाच्यस्यानीश्वरात्म हेतुमर्यादादेरपि प्रामाण्याभ्युपगमप्रसङ्गः । अविशेषादिति बोध्यम् । प्रमाणसामान्यलक्षणाभिधानमुपसंहरति ।। तस्मादिति । परोक्तलक्षणानामतिव्याप्त्यादिदुष्टत्वात् स्वोक्तलक्षणस्य तद्रहितत्वाच्चेत्यर्थः । याथार्थ्यमेव यथावस्थितज्ञेयविषयीकारित्वमेव प्रमाणस्य लक्षणं युक्तम् । लक्ष्यलक्षणोपेतं समीचीनं वा नान्यदित्यर्थः ।