प्रमाणपद्धतिः
व्यक्तय एव पदवाच्याः
(४) प्रमाणपद्धतिः
आगमोऽपि सम्यक् श्रुतः समयस्मरणानुगृहीतः शाब्दन्यायानुसन्धानसहित एव स्वार्थस्य बोधको न तु सत्तामात्रेण । जातिरेव वाच्या पदानां व्यक्तयस्तु लक्ष्या इति भाट्टाः । जातिविशिष्टा व्यक्तयो वाच्या इति वैशेषिकाः । क्वचिज्जातिः क्वचिद्य्वक्तिरिति वैयाकरणाः । क्वचिज्जातिः क्वचिद्य्वक्तिः क्वचिदाकृतिरिति नैयायिकाः । अन्यापोह इति बौद्धाः । व्यक्तय एव वाच्याः समयप्रतिपत्तौ तु सादृश्यमुपधानमित्याचार्याः ।
जयतीर्थविजय
नन्वश्रुतवाक्यस्याश्रुतपदार्थसङ्गतिकस्याननुसंहितोपक्रमादिन्यायस्य च पुरुषस्य वाक्यार्थ प्रमित्यनुदयादनुप्रमाणलक्षणस्यात्राव्याप्तिरित्यत आह ।। आगमोऽपीति । समयस्मरणानुगृहीतो वाच्यवाचकभावस्मरणसहकृत इत्यर्थः ।। शाब्दन्यायेति । शाब्दन्याया उपक्रमोपसंहारादयः । तदनुसन्धानसहिता एवेत्यर्थः । एवं च समयोपक्रमादिन्यायानुसंहितस्यैव शब्दस्य लक्ष्यत्वात्तस्य च वाक्यार्थप्रमितिसाधनत्वान्नातिव्याप्तिरिति भावः । ननु स्वार्थस्य बोधक इत्युक्तम् । कोऽसौ पदार्थः । कश्च वाक्यार्थ इत्याशङ्क्य तौ निरूपयिष्यन्प्रथमं तावदनुवदति ।। जातिरित्यादिना इति बौद्धा इत्यन्तेन । स्फुटतरानल्पदोषवत्त्वादेतेषां पक्षानामनुवाद एव निराकरणम् । अतः केवलानुवादो न कर्तव्य इत्याचार्याशयं तत्र लेशतो दर्शयिष्यामः ।। जातिरेवेति । व्यक्तीनामनन्तत्वेन शक्तिग्रहासम्भवादित्याह ।। एवेति । तर्हि गामानयेत्यत्र कथं व्यक्तेः प्रतीतिः । कथं च विभक्त्यर्थकर्मत्वान्वय इत्यत आह ।। व्यक्तयस्त्विति । एवं च व्यक्तेः प्रकृतवृत्तिविषयत्वात् प्रतीतिविभक्त्यर्थान्वयाद्यं युज्यत इति भावः । अत्रेदं दूषणजातं भाट्टपक्षे । तथा हि । शक्यतावच्छेदकेन तीरत्वादिनोपस्थित एव तीरादौ गङ्गादिपदस्य लक्षणा दृष्टा । न चात्र व्यक्तिर्जातिं विना रूपान्तरेणोपस्थिता । गौरिति प्रतीत्या जातिव्यक्त्योरेवोल्लेखात् । अतो न व्यक्तौ लक्षणा । प्रत्युत शक्तिग्राहकस्यानयनादिव्यवहारस्य व्यक्तावेव सम्भवात्पदानां तत्रैव शक्तिः ।
किञ्च यस्यां व्यक्तौ गौर्नष्टा गौर्दीर्घा गौः शुक्ला गौः सास्नादिमती गौरनेका गौर्गच्छति गां बधानेत्यादौ प्रयोगप्रतीत्योः प्राचुर्यं तस्यां व्यक्तौ लक्षणा । तद्विपरीतायां जातौ शक्तिरित्यतिसाहसमित्यादि तर्कताण्डवोक्तं तत्रैव द्रष्टव्यम् । विस्तरभयान्नेह कृत्स्नमुच्यते । व्यक्तीनामानन्त्याच्छक्तिग्रहानुपपत्तिं स्वयमेवाचार्यमतकथनेन परिहरिष्यति ।। जातिविशिष्टा इति । केवलव्यक्तीनामनन्तत्वेन तास्वेकस्य पदस्य शक्तिग्रहासम्भवेऽपि जातिविशिष्टासु तास्वेकपदशक्तिग्रहः सम्भवतीति वैशेषिकानामभिमानः । अत्रेदं दूषणं द्रष्टव्यम् । जातिविशिष्टा व्यक्तयो वाच्या इति कोऽर्थः । अनेका व्यक्तय एवैकेन गोत्वेनेव जातिव्यक्ती एकेन धर्मेण क्रोडीकृतैकपदार्थ इति वा जातिविशिष्टमेकमेव शक्यं प्रवृत्तिनिमित्तं तु विशिष्टत्वमिति । अथवा व्यक्तिरेव शक्या जातिस्तु प्रवृत्तिनिमित्तमिति । नाद्यः । द्वयोरनुगतस्यैकस्य क्रोडीकारस्यायोगात् । अभावाच्च । न द्वितीयः । विशिष्टत्वस्याजातित्वेनाननुगतत्वात् । अनुगतगोत्वादेरननुगतशक्यशरीर एव प्रवेशेनाननुगमतादवस्थ्यात् । किञ्चैवं शाब्दीधीर्विशिष्टविशेष्यिका विशिष्टत्वप्रकारिका च स्यात् । न चेष्टापत्तिः । गोव्यक्तिविशेष्यकगोत्वप्रकारकबुद्धेरेवानुभवात् । न तृतीयः । अस्मत्सिद्धान्तानतिरेकादिति ।। क्वचिज्जातिरिति । ब्राह्मणादिपदेष्वित्यर्थः । क्वचिद्य्वक्तिरिति ।। आकाशादिशब्देष्वित्यर्थः । एतत्पक्षे चानुगतवाच्याभावो दोषः स्पष्ट एवेति द्रष्टव्यम् ।। क्वचिदिति । पूर्ववज्जातिव्यक्तिपदार्थौ द्रष्टव्यौ ।। क्वचिदाकृतिरिति । गजादिशब्देष्वित्यर्थः । नैय्यायिकास्तार्किकैकदेशिन इत्यर्थः । अस्मिन्नपि पक्षे शक्याननुगम एव दोष इति द्रष्टव्यम् ।। अन्यापोह इति । येन पदेन यः पदार्थः प्रतीयते तदन्यान्यत्वमित्यर्थः । घट इत्युक्तेऽघटो न भवतीत्यर्थ इति भावः । एकस्मिन्पक्षे घटशब्दस्याघटान्यार्थकत्वादघटशब्दस्य घटभिन्नार्थकत्वाद्घटपदार्थप्रतिपत्तावघटपदार्थप्रतीतिरघटपदार्थप्रतीतौ घटपदार्थप्रतीतिरित्यन्योन्याश्रयदोषो द्रष्टव्यः । एवमितरपक्षाननूद्याचार्यपक्षस्यैव स्वपक्षत्वादाचार्यमतमाह ।। वक्तव्य इति । शक्तिग्राहकस्यानयनादिव्यवहारस्य व्यक्तिष्वेव सम्भवादिति भावः । अत्रैवकारेण भाट्टाद्युक्तरीत्याऽनुगतजात्यादीनां वाच्यता निषिध्यते । न त्वनुगतजात्यादेः प्रवृत्तिनिमित्तता । तथा सति सुधाविरोधापत्तेः । उक्तं हि सुधायाम् । ते ते व्यावृत्ताकारा एव तैस्तैर्द्रव्यगुणकर्मसामान्यैर्निमित्तैस्तत्तच्छब्दवाच्या इति । गोत्वादेः प्रकारत्वेनाप्रतीतौ शाब्दप्रतीतौ निर्विकल्पकत्वापाताच्च । प्रवृत्तिनिमित्तस्य प्रकारत्वनियमात् । भट्टोक्तरीत्या लक्षणयाऽऽक्षेपेण व्यक्तिप्रतीत्यङ्गीकारे गामानयेत्यादौ जातिव्यक्त्योर्युगपत्प्रत्ययो न स्यात् । अपि च वह्निविवक्षया प्रयुक्तेन धूमपदेन वह्नेरिव गौरस्तीत्यादौ व्यक्तिविवक्षया प्रयुक्तेन गोपदेन व्यक्तिधीर्न स्यादित्याद्युक्तं तर्कताण्डवे । विस्तरभयान्नेह प्रपञ्च््यते । ननु व्यक्तीनानन्त्यात्कथमतीतानागतविप्रकृष्टासु तासु शक्तिग्रहः । तस्मादनिच्छताऽप्यच्छमतिनाऽतीतानागतादिसकलव्यक्त्युपस्थितये सकलव्यक्तिक्रोडीकारकमनुगतसामान्यमङ्गीकार्यमिति नैयायिकशङ्कमाह ।। समयेति । समयप्रतिपत्तौ वाच्यवाचकभाव सम्बन्धज्ञाने । उपधानमित्युक्त्या सादृश्यं न गोव्यक्तिवद्वाच्यम् । नापि गोत्ववत्प्रवृत्तिनिमित्तम् । किन्तु प्रत्यासत्तित्वेन गोत्वादिविशिष्टव्यक्त्युपस्थापकमिति सूचितम् । तथा च सादृश्येनैवातीतानागतादिसकलगोव्यक्त्युपस्थितिसम्भवादुपस्थापितसकलव्यक्तिषु पदस्य शक्तिग्रहः सम्भवति । अतो नैतदर्थमनुगतसामान्यमङ्गीकार्यमिति भावः ।
ननु सादृश्यस्यातीतादि व्यक्तिप्रतियोगिकत्वात्प्रतियोगिभूतव्यक्त्युपस्थित्यनतरं सादृश्यज्ञानं सादृश्यज्ञानानन्तरं सकल व्यक्त्युपस्थितिरित्यन्योन्याश्रय इति चेन्न । पदस्य व्यक्तिषु भूयो व्यवहारादिदर्शनदशायां प्रतियोगिभूतवर्तमानपिण्डान्तरस्य प्रत्यक्षेणैव ज्ञातत्वेनान्योन्याश्रयानवकाशात् । यद्वाऽऽदौ स्वरूपसदेव सादृश्यं योगजधर्मवत्संस्कारवच्चातीतादिकमुपस्थाप्य पश्चात्सामग्रीसत्त्वेनातीतादिप्रतियोगित्वेनापि ज्ञातमुपधानं भविष्यतीत्यदोषः । योगजधर्मादिवत्स्वरूपसत्तैव सादृश्येनोपस्थापितपरस्परसदृशनानागोत्वावच्छिन्नव्यक्तिषु समयप्रतिप्रत्तिरिति सुदृढं समर्थितं तर्कताण्डवे । विस्तरभयान्नेह तन्यते । सुधायां तु नायं गौरित्युपदेशो व्याप्तिग्राहकः । तस्य चायं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इत्येवंपरत्वात् । अवगतव्याप्तिश्च पिण्डान्तरं दृष्ट्वाऽनुमिमीतेऽयं गोशब्दवाच्यस्तादृशत्वादिति । न चात्र दृष्टान्ताभावः । पुरोवृत्तिगोपिण्डे स्वप्रतियोगिकसादृश्याभावादिति शङ्क्यम् । आप्तवाक्येन व्याप्त्यवगमे दृष्टान्तापनेक्षणात् । तथा च पृथिव्याः पृथिवीशब्दवाच्यत्वेऽनुव्याख्यानोक्तसादृश्यं लिङ्गमिति पक्षान्तरमुक्तम् ।
भावदीपः
ननु कथमस्य वाक्यस्य यथार्थज्ञानसाधनत्वेनानुप्रमाणता । परेण तादृशवाक्योच्चारणे कृतेऽपि व्यासक्तस्य बधिरादेश्च तथासङ्केतानभिज्ञस्य प्रकरणानभिज्ञस्य च बोधाजननादित्यत आह ।। आगमोऽपीति । न केवलमुपपत्तिरित्यपेरर्थः । न सत्तामात्रेण बोधक इत्यन्वयः । तस्य सहकारिण आह ।। सम्यगित्यादिना । पूर्वं योग्यता पदार्थधर्म इत्युक्तम् । पदार्थस्वरूपं स्वाभिमतं विवक्षुः पराभिमतांस्तावदनुवदति ।। जातिरेवेति ।। क्वचिज्जातिरिति । एको व्रीहिरेके व्रीहय इत्यादौ । जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामित्युक्तेः ।। क्वचिदिति । घटा वृक्षा इत्याद्येकशेषस्थले । सरूपाणामेकशेष इत्युक्तेः ।। क्वचिज्जातिरिति । गौर्नित्येत्यादौ । क्वचिद्घटोऽनित्य इत्यादौ व्यक्तिः । पिष्टमयी गौरित्यादौ आकृतिरित्यर्थः । अन्यापोहोऽन्यव्यावृत्तिः । घट इत्यत्र घटशब्दार्थोऽघटव्यावृत्तिरित्यर्थः ।। व्यक्तय एवेति । परस्परव्यावृत्तघटत्वादितत्तन्निष्ठासाधारणधर्म विशिष्टा व्यक्तय इत्यर्थः । एवकारोऽनुगतजातिनिरासार्थः । प्राग्जातिपदेन तादृशधर्मस्यैव प्रस्तुतत्वात् । नन्वनुगतजात्यभावे व्यक्तीनामानन्त्येन सङ्केतग्रहायोग इत्यत आह ।। समयप्रतिपत्ताविति । सादृश्यमुपधानमुपाधिः । निमित्तमिति यावत् । चक्षुस्सन्निकृष्टे पुरोवृत्तिगोपिण्डादौ विद्यमानेनातीतानागतसर्वगोप्रतियोगिकेन सादृश्येन स्वप्रतियोगिष्वनन्तगवादिषु प्रतियोगितासम्बन्धेनोपस्थापितेषु गोपदशक्तिग्रहसम्भवादिति । यथा परमते पुरोवृत्तिनिष्ठगोत्वजात्या स्वविशेषणतासम्बन्धेन सर्वगोपिण्डेषूपस्थापितेषु गोपदशक्तिग्रहस्तद्वदिति भावः । विस्तरस्तु तर्कताण्डवे ।। इत्याचार्या इति । इति व्युत्पत्तिरपि हि तादृशेनैव गम्यत इत्यनुव्याख्यानोक्तेरिति भावः ।
श्रीविजयीन्द्रतीर्थ
ननु पदासत्त्वेऽप्यर्थप्रत्ययात्कथं शब्दस्य प्रामाण्यमित्यत आह ।। आगमोऽपीति । तथा चान्वयबोधजनकज्ञानविषयशब्दत्वस्यैव प्रमाणतेति भावः । निरभिधेयत्वेनेत्यत्रोक्तमभिधेयं स्वमतेन वक्तुं मतान्तराण्याह ।। जातिरेवेति । अखण्डशब्देन नियतैकधर्मविशिष्टबोधस्थले जातिर्वाच्या । गोत्वरूपेण वाच्यता अखण्डादिविशेषात्मकव्यक्तिरूपेण लक्ष्यतेति । एवमस्यैव वस्तुनो वाच्यता लक्ष्यतेत्यर्थः ।। जातिविशिष्टा इति । जातिव्यावृत्ता व्यक्तयो वाच्या इत्यर्थः ।। क्वचिदिति । गवादिपदे जातिः संज्ञाशब्दादौ व्यक्तिरित्यर्थः ।। क्वचिज्जातिः क्वचिद्य्वक्तिः क्वचिदाकृतिरिति । व्यक्तिविशेषणतया जातिर्जातिविशिष्टा व्यक्तिरिति यावत् । आकाशादिपदे व्यक्तिः । यथासम्भवं गवादिपदे आकृतिरित्यर्थः ।। अन्यापोह इति । अनश्वादिव्यावृत्तिरूपं सामान्यमित्यर्थः । व्यवहाराधानत्वाद्युपपत्तेर्व्यवहारस्य च व्यक्तावेव सम्भवाद्य्ववहारविषय एव शक्तेर्युक्ततया व्यक्तेरेव वाचित्वौचित्यात् । आनन्त्यव्यभिचारपरिहाराय परं जातेः प्रवृत्तिनिमित्ततया पदशक्तिविषयता वाच्या । जातेश्चैकत्वे प्रमाणाभावान्न तत्सम्भव इति । सादृश्यमेवोपाधिः सङ्गताविति स्वमते उद्भाव्यमाह ।। व्यक्तय इति । सादृश्यानुगमत्वादि प्रागेवोक्तम् ।
श्रीवेदेशभिक्षु
नन्वगमस्य श्रवणत्वेऽपि पदाश्रविणः श्रवणेऽप्यगृहीतसङ्गतिकस्य विस्मृतसङ्गतिकस्य वा सङ्गतिग्रहेऽप्युपक्रमादिशब्दन्यायानुसन्धानरहितस्य पुंसः प्रमापकत्वाभावात्कथं प्रामाण्यमित्यत आह ।। आगमोऽपीति । न सत्तामात्रेणेत्युपलक्षणम् । न श्रवणमात्रेणेत्यादि द्रष्टव्यम् । समयस्मरणानुगृहीत इत्यत्र पदशक्तिग्रहस्य सहकारित्वमुक्तम् । तद्विषयं स्वमते निर्धारयितुं तावद्धेयताज्ञापनायातिरोहितदोषाणि मतान्तराण्यनुवदति ।। जातिरेवेत्यादिना । जातेरेकत्वादुपदेशादिना तत्र शक्तिग्रह उपपद्यते । व्यक्तीनामनन्तत्वेन प्रतिव्यक्तिशक्तिग्रहासम्भवादपूर्वव्यक्तिव्यवहाराद्यनुपपत्तेः । कतिपयव्यक्तिष्वेव च शक्तिग्रहेणापूर्वव्यक्तिव्यवहारादेर्नियामकाभावेन व्यभिचारित्वात् । तस्माज्जातिरेव वाच्या । तस्याश्चानयनाद्यनुपपत्त्या तदाश्रयीभूता व्यक्तिर्लक्ष्यत एवेति भावः । अत्र शक्तिग्राहकवृद्धव्यवहारादेर्व्यक्तावेवोपलम्भेन तत्रैव शक्तिग्रहकल्पना युक्ता । न जातौ । कदाऽपि वृद्धव्यवहाराद्यदर्शनात् । अनुगतजात्यनुपपत्तेर्वक्ष्यमाणत्वात् । आनन्त्यव्यभिचारयोश्च निरसिष्यमाणत्वात् । गामानयेत्यादौ मुख्यार्थानुपपत्त्यभावेन लक्षणयाऽपि व्यक्तिलाभासम्भवाच्चेत्यादिदोषो द्रष्टव्यः ।। जातिविशिष्टा इति । अन्यथाऽऽनन्त्यव्यभिचारयोः प्रसङ्ग इति भावः । अत्रापि प्रष्टव्यम् । किं जातिविशिष्टमेकमेव शक्यं प्रवृत्तिनिमित्तं तु विशिष्टत्वमिति किं वा व्यक्तिरेव शक्त्या जातिस्तु प्रवृत्तिनिमित्तमिति । आद्ये विशिष्टस्याप्यानन्त्येन विशिष्टत्वस्य चाजातित्वेनानुगतत्वासम्भवादानन्त्यव्यभिचारतादवस्थ्यम् । शब्दव्यक्तिविशेष्यकजातिप्रकारकबोधस्यैवानुभवेन विशिष्टविशेष्यकविशिष्टत्वप्रकारकबोधापत्तिश्च । द्वितीयेऽप्यसार्वत्रिकत्वम् । आकाशादिपदेषु जात्यादिपदेषु वा प्रवृत्तिनिमित्तजात्यभावात् । तत्र प्रकारान्तरकल्पनेन द्वैविध्यकल्पनया कल्पनागौरवमित्यादि तत्रास्वरसोऽनतिरोहित इति द्रष्टव्यम् ।। क्वचिदति । गवादिपदेषु जातिः क्वचित्संज्ञाशब्दादिषु व्यक्तिरित्यर्थः । इदमपि द्वैविध्यकल्पने कल्पनागौरवप्रसङ्गेनायुक्तमिति स्फुटमेव ।। क्वचिज्जातिरिति । जात्यादिपदेष्वित्यर्थः । तत्र जात्यन्तराभावेन तद्विशिष्टानुपपत्त्या जातेरेव वाच्यत्वात् । क्वचित् आकाशव्यक्त्यादिपदेषु । तत्रैकव्यक्तित्वेनाकाशत्वादेः सत्तया तुल्यत्वेन व्यक्तित्वस्य चाजातित्वेन जातिविशिष्टस्यावाच्यत्वाद्य्वक्तिरेव वाच्येति भावः । क्वचित् आकृत्यादिपदेषु । पृथिवीत्वादिना साङ्कर्येणाकृतित्वस्याजातितया तद्विशिष्टासम्भवेनाकृतेरेव तत्र वाच्यत्वमिति भावः । इदमुपलक्षणम् । क्वचिद् गवादिपदेषु जात्याकृतिविशिष्टव्यक्तिर्वाच्येत्यपि द्रष्टव्यम् । अत्राप्यनेककल्पनया कल्पनागौरवम् । गवादिपदानां त्वाकृतिविशिष्टव्यक्तौ शक्त्यङ्गीकारे च वैशेषिकपक्षोक्तविकल्पानुपपत्तिरूप दोषापरिहारः । आकृतेरपि गवादिपदवाच्यत्वे सास्नादिमान्गौरित्यत्र सास्नादिमत्पदं पुनरुक्तं स्यादित्याद्यरुचिर्नायुक्तेति ध्येयम् ।। अन्यापोह इति । अतद्य्वावृत्तिरित्यर्थः । अत्राप्यतद्य्वावृत्तेरनुगतत्वे किं सामान्येन गौरित्यादिविधिमुखप्रत्ययवेद्येन व्यावृत्तिप्रयोजकतयाऽऽवश्यकेनापराद्धम् । अननुगतत्वे त्वानन्त्यव्यभिचारापरिहार उभयत्र गौरवं चेत्यनभिमतिर्बीजमूह्यम् । इदानीं स्वमतमाह ।। व्यक्तय एवेति । द्रव्यगुणक्रियाजात्यादिकं तु विशेषणभूतं प्रवृत्तिनिमित्तमिति शेषः । अत्रावधारणेन विशेष्यभूतानां व्यक्तीनामेव शक्यत्वात्पर्यायवाच्यत्वम् । प्रवृत्तिनिमित्तानां तु शक्तिं प्रति विषयतया भासमानत्वेऽपि न शक्यत्वमिति सूचयति । उक्तं च सुधायाम् । ते ते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यैर्निमित्तैस्तत्तच्छब्दवाच्या इति । न च विशेष्यवद्विशेषणानामपि शक्तिं प्रति विषयतया भासमानत्वे शक्यत्वमस्त्विति वाच्यम् । शक्तिं प्रति विषयतया भासमानं यद्विशेष्यं तस्यैव शक्यशब्दार्थत्वात् । अन्यथा विशेषणानामपि शक्यत्वेन तेषु शक्यवृत्तित्वासम्भवेन शक्यतावच्छेदकत्व रूपप्रवृत्तिनिमित्ततायोगात् । विशेष्यमात्रस्य शक्यत्वे तु विशेषणानां तदनतिरिक्तवृत्तित्वेन शक्यतावच्छेदकत्वोपपत्तेः । न चैवं शब्दाद्विशेषाणां प्रतीतिर्न स्यादिति वाच्यम् । शक्यत्ववत्तदवच्छेदकत्वस्यापि शाब्दधीविषयत्वे तन्त्रत्वात् । कथमन्यथा परमते आकाशादिपदाशक्यस्य शब्दाश्रयत्वस्य धीः ।
अभिनवामृतम्
तेषां मतस्वरूपव्याक्रियैव तन्मतव्याक्रियेत्याशयेनाह ।। जातिरेवेति ।। जातिविशिष्ट इति । जातिशब्दः शब्दनिमित्तपरः । तथा चाकाशादयः सर्वेऽपि शब्दानिमित्तविशिष्टवस्तुवाचिन इत्यर्थः ।। क्वचिज्जातिरिति । गवादिशब्देषु जातिः क्वचित्संज्ञाशब्देषु व्यक्तिर्वाच्येत्याहुरित्यर्थः ।। क्वचिज्जातिरिति । घटत्वादिशब्दे जातिराकाशादिशब्देषु व्यक्तिः सास्नादिमच्छब्दे आकृतिर्गवादिशब्देषु त्रितयमपीत्याहुरित्यर्थः । यथाऽऽह । व्यक्त्याकृतिजातयः पदार्था इति ।। अन्यापोह इति । अतद्य्वावृत्तिरित्यर्थः ।। व्यक्तय एवेति । व्यज्यन्त इति व्यक्तयः । शब्दजन्यज्ञानविषय इत्यर्थः । यस्माच्छब्दाज्खटिति यावन्तोऽर्थाः प्रतीयन्ते तावन्तस्तच्छब्दवाच्या इति भावः । घटशब्देन घटघटत्वयोः प्रतीयमानत्वात्स शब्दस्तत्र शक्तः । शुक्लशब्दः गुणगुणिनोः शक्तः । गतशब्दः क्रियातदाश्रययोर्दण्डिशब्दो दण्डदेवदत्तयोः शक्त इत्यादि द्रष्टव्यम् । एतेन शब्दानां व्यक्तिमात्रे शक्तत्वात्सर्वेऽपि शाब्दबोधा निर्विकल्पकाः स्युरिति परास्तम् ।
आदर्शः
।। शाब्दज्ञानानुसन्धानसहित इति । नमार्थयोरभेदेनैवान्वय इत्यादिरीत्याऽऽकाङ्क्षाज्ञानसहकृत इत्यर्थः । उपक्रमादिज्ञानानुसन्धानसहित इति वाऽर्थः ।। क्वचिज्जातिः क्वचिद्य्वक्तिरिति क्वचिदाकृतिरिति ।। अकृत्यादिपदानामित्यर्थः । पृथिवीत्वादिना साङ्कर्येणाकृतित्वस्य जातित्वाभावेनाकृतिरेव वाच्येति भावः । क्वचिद्य्वक्तिरित्यादावपि व्यक्तिपदादीनामित्यर्थः ।। व्यक्तित्वस्याप्यजातित्वादिति ।। अन्यापोह इति । घटपदस्याघटव्यावृत्तिभाने वाऽर्थ इत्यर्थः ।। व्यक्तय एव वाच्या इति । अयं भावः । शक्तिर्नाम न सङ्केतः । किन्तु वाच्यवाचकभावः सम्बन्धः । वाचकत्वं च शाब्दबोधजनकत्वमेव । पदज्ञानस्य बोधजनकत्वेऽपि पदानामप्यनुभवानुसारात्कल्प्यते बोधकत्वम् । वाक्यादर्थं प्रत्येमि वाक्याद्बोधो जात इत्यनुभवात् । प्रयोजकत्वं वाऽस्तु । तस्यैव शक्तिरूपत्वमङ्गीक्रियते । इदं पदमेतादृशार्थबोधकमिति ज्ञाने सत्येव बोधोदयस्यानुभवात् । न हि बालस्य शक्तिग्रहवेलायां सङ्केतितत्त्वग्रहो जायते । किन्तु वाक्यविशेषस्य बोधविशेषजनकत्वमनुमायावापोद्वापाभ्यां पदविशेषस्यार्थविशेषबोधकत्वं प्रतीयते । तज्ज्ञानादेव व्यवहार इति । यत्र सङ्केतेनार्थविशेषबोधकत्वं तत्र सङ्केतेनार्थबोधकत्वशक्तिराविर्भवति । तज्ज्ञानादेवोत्पत्तिः । एवं चानन्यलभ्यस्यैव शब्दार्थत्वात् । जातिं विना व्यक्तेर्भानायोगेन जातेर्भानसम्भवे तदंशे पदस्य शक्त्यङ्गीकारे मानाभावः । ननु तत्पदजन्यबोधविषयत्वस्यैव तत्पदवाच्यत्वपदार्थत्वेन तत्पदवाच्यत्वाभावोक्तीरिक्तेति चेत् । अत्राहुः । तथा सति कालादेः सर्वप्रत्ययवेद्यत्वेन गवादिपदजन्यप्रतीतिविषयत्वाद्गवादिपदवाच्यत्वं स्यात् । एवं गोभाने तद्वृत्तिरूपादीनां सास्नादीनामपि भानात्तेषामपि गवादिपदशक्यत्वं स्यात् । आकृतेरपि वाच्यत्वपक्षे सास्नादीनामपि शक्यत्वाङ्गीकारेऽपि रूपादेः परिमाणादेरपि वाच्यत्वं न केनाप्यङ्गीक्रियते । न च गवि रूपादेः सास्नादेर्व्यापकतया दृष्टत्वेन तत्संस्कारवशात्पदजन्यप्रतीतौ भानेऽपि तत्र पदशक्तिर्न प्रयोजिका । ज्ञानसामान्यप्रयोजकसामग्रयैव कालभानसम्भवेन तत्रासाधारिणी शक्तिरिति न कालस्य सर्वपदवाच्यतेति वाच्यम् । हन्त तर्हि शक्तिग्रहवेलायां यस्य प्रवृत्तिनिमित्तत्वं गृहीतं तज्ज्ञानं विना तद्वस्तुबोधाभावस्यानुभवसिद्धत्वेन पूर्वं प्रवृत्तिनिमित्तवत्तया तद्वस्तुज्ञानस्यावश्यकत्वेनोक्तज्ञानलक्षणसन्निकर्षेण प्रवृत्तिनिमित्तस्य भानसम्भवेन तदंशे शक्तिकल्पने बीजाभावात् । अत एव तच्छब्दवाच्यत्वसन्देहे प्रवृत्तिनिमित्तधर्मो हेतुतया तच्छब्दवाच्यत्वं प्रत्यापयति । स्वस्यापि शक्यत्वे प्रवृत्तिनिमित्तत्वमेव न स्यात् । स्वस्मिन्स्वभावेऽपि तच्छब्दप्रवृत्तिसत्त्वेन प्रवृत्तिव्यभिचारात् । एवं गवादिपदेगोत्वादिके तात्पर्यविषयीभूते लक्षणा च न स्यात् । तस्मान्न पदजन्यप्रतीतिविषयत्वमात्रं वाच्यत्वम् ।
किन्त्वन्वयविषयतायाः साक्षान्निरूपिता या विषयता तदाश्रयत्वमेव वाच्यत्वम् । सैव विषयता पदशक्तिप्रयोज्या । न च शक्तिग्रहवेलायां विशेषस्यापि गृहीतत्वेन तस्यापि तत्संस्कारादिनैव भानमास्ताम् । संसर्गमात्रस्य पदशक्त्या भानमस्त्विति वाच्यम् । संसर्गमात्रे शक्त्यङ्गीकारे किञ्चिन्निष्ठसांसर्गिकविषयताकबोधजनकमिदं पदमित्याकारकत्वापत्त्या तत्र घटपदाद्घटरूपव्यक्तिबोध नियमाभावप्रसङ्गात् । घटनिष्ठविषयतानिरूपितसंसर्गताशालिबोधनजनकपदमिदमित्याकारकत्वे घटविषयताऽपि पदप्रयोज्येत्यागतमेव शक्यत्वम् । अन्यधर्मविशिष्टत्वस्यापि पूर्वं ज्ञानसत्त्वेऽपि तात्पर्ये तदन्वयस्यापि बोधापत्तेः । विशेषशक्त्यङ्गीकारे तु व्यक्त्यन्तरे शक्त्यङ्गीकारे तु व्यक्त्यन्तरप्रतियोगिकान्वयबोधकशक्तेरभावादेव नापत्तिः । न च बाधितस्य पूर्वोपस्थितस्य धर्मान्तरस्याप्यन्वयप्रतियोगितयाऽनुयोगितया वा भासमाने विशेष्ये भानापत्तिः । इष्टापत्तेः । अत एव घटमानयेत्यादौ स्वकीयत्वाच्छिद्रत्वादेर्घटादौ भानम् । अन्यथाऽन्यदीयघटस्याप्यानयनापत्तेः । न च प्रवृत्तिनिमित्तधर्मस्य नियमेन भानं स्यादिति वाच्यम् । प्रवृत्तिनिमित्तधर्मविशिष्टे शक्तेर्ज्ञातत्वेन प्रवृत्तिनिमित्तस्य भानं विना विशिष्टस्य भानासम्भवात् । न चैवं प्रवृत्तिनिमित्तेऽपि शक्तिरागतैव । तथा च नैयायिकमताविशेषः स्यादिति वाच्यम् । न्यायमते प्रवृत्तिनिमित्तविशिष्टे शक्तेर्भानेऽपि धर्मिपारतन्त्र्येण प्रवृत्तिनिमित्तेऽपि भानं स्वीकार्यम् । मन्मते विशिष्टस्य भिन्नत्वेन तद्धर्मभानं विना तद्धर्मविशिष्टस्य भानायोगेन धर्मांशे शक्तेर्भानाभावेन विशेषसत्त्वात् । तथा च पदशक्तिज्ञानप्रयोज्याविषयता व्यक्तावेवेति व्यक्तय एव वाच्या न तु जातयः । ननु संसर्गस्यापि पदप्रयोज्यविषयताश्रयत्वेनैवेत्यवधारणानुपपत्तिः । जातिमात्रव्यवच्छेदार्थकत्वात् । संसर्गतारूपविषयताया अस्वतन्त्रत्वेन विशेष्यताया एव मुख्यात्वात्तदाश्रय एव वाच्यत्वव्यवहारस्य युक्तत्वाच्चेति । सादृश्यमित्युपलक्षणम् । शक्यतावच्छेदकत्वेनाभिमतधर्मान्तरम् । उपधानं स्वविशिष्टे शक्यत्वज्ञापकं न तु स्वातन्त्र्येण शक्यमित्यर्थः । केचित्तु व्यक्तय एवेति विशिष्टस्यातिरिक्तत्ववादिनां विशिष्टं विशेष्यापादानकं तेन सह भिन्नाभिन्नं क्वचिदभिन्नमपि विशेषवत् । एवं च गवादिपदेषु गोत्वादिविशिष्टरूपा व्यक्तय एव वाच्याः । तदभिन्नत्वाद्गवादयोऽपि वाच्या इत्युच्यन्ते । गोत्वादिकं तु विशिष्टाद्भिन्नमिति न वाच्यमिति भावः । अत एव गोत्वं गोपदवाच्यमिति ज्ञानं तन्मतेऽपि भ्रम इति । सादृश्यं जातिरित्यर्थः । सादृश्यातिरिक्तजात्यङ्गीकारे मानाभावेन सादृश्यस्यैव जातित्वमित्यभिप्रायेणेदम् । सादृश्यं च सामान्यं वा धर्मान्तरं वेति नान्यावयवसंयोग इति वक्ष्याम इत्युक्तं सुधायामन्यथाख्यातिवादे रामानुजमतनिराकरणप्रस्तावे । अत एव सूत्रकृता सादृश्यवाचकं तथा जातिवाचकं सामान्यपदं प्रयुक्तं गतिसामान्यादितरे त्वर्थसामान्यादित्यत्र सादृश्यसामान्ययोरैक्यमिति सूचनमेव तत्फलम् । अन्यथा सूत्रस्याल्पाक्षरत्वाय साम्यादित्येव ब्रूयात् । प्राचीनटिप्पण्यां प्रकारान्तरेण सामान्यपदस्य प्रयोजनस्य कथनेऽप्यविरुद्धत्वादिदमपि प्रयोजनकथनं युक्तमेवेत्याहुः । परे तु प्रवृत्तिनिमित्तस्य नियमेन भानं तु व्यक्तेः प्रवृत्तिनिमित्तवत्तयाऽज्ञातत्वे तत्पदबोध्यत्वासम्भवेन नियमेन पूर्वं तथा ज्ञातत्वात्पदजन्यप्रतीतौ नियमेन भासकसामग्रीसत्त्वादेव भवति । धर्मान्तराणां न नियमेन भानम् । नियमेन तद्भासकसामग्रयभावात् । ननु शाब्दबोधसंस्कारस्य ज्ञानस्वाऽर्थान्तरभासकत्वं न सम्भवति । करणासन्निकृष्टस्य ज्ञाने भानेऽतिप्रसङ्गात् । संस्कारस्य ज्ञानस्य वा मनःपरिणामत्वेन मनःसम्बन्धित्वान्मनस एव सन्निकर्षत्वं युज्यते । मनसश्चक्षुरादिनिष्ठप्रत्यक्षानुकूलशक्त्युत्तम्भकत्वान्मनसः संस्कारस्य मनोद्वारा चक्षुरादिसन्निकर्षत्वं तज्जन्यप्रत्यक्षेऽर्थान्तरभासकत्वं च युज्यते । मनसश्चक्षुरादिनिष्ठशक्त्युत्तम्भकत्वाभावे मनसाऽसन्निकृष्टेन चक्षुषा प्रत्यक्षप्रसङ्गात् । शाब्दबोधेऽनुमितौ च मनः साधारणमेव कारणम् । तत्सम्बन्धिसंस्कारस्य पदज्ञानरूपकारणम् । सम्बन्धित्वाभावात् तत्सन्निकर्षासम्भवात् तज्जन्यबोधे प्रवृत्तिनिमित्तस्य भानं न सम्भवति । यथाकथञ्चित्सम्बन्धित्वस्यातिप्रसञ्जकत्वान्न सन्निकर्षताप्रयोजकत्वम् । संस्कारानुगृहीतमनोजन्यत्वस्याप्यङ्गीकारे मानसप्रत्यक्षत्वापत्तिः । न चैकस्मिन्नेव शाब्दत्वप्रत्यक्षत्वयोरङ्गीकारो युक्तः । तथा सत्युक्तन्यायेन सर्वत्र शाब्दबोधे पदात्स्वरूपतो व्यक्तिभानसम्भवेन धर्मविशेषांशे प्रत्यक्षत्वाङ्गीकारापत्त्या प्रत्यक्षत्वस्य शाब्दत्वव्यापकत्वापत्त्या त्रिविधं प्रमाणमिति विभागव्याघातापत्तिः । एवं सर्वत्रापि वाक्ये न्यूनताया दोषत्वापत्तिः । संस्कारबलादेव शाब्दबोधोपपत्त्या पदाभावेऽपि दोषाभावात् । एवमध्याहारादेः करिष्यमाणस्यासङ्गत्वापत्तिश्चेत् । सत्यम् । संस्कारस्य न भासकत्वं सर्वत्रेति तथाऽप्यनुमितौ व्याप्त्यनिरूपकस्यापि व्यापकतावच्छेदकस्य व्याप्तिज्ञाने व्यापकतया भानादेवानुमितौ साध्यांशे भानमिव पदनिष्ठशक्यनिरूपकस्यापि प्रवृत्तिनिमित्तधर्मादेः पदवृत्तितावच्छेदकतया वृत्तिग्रहे भानस्यैव शाब्दबोधे भाने निमित्तत्वेन भानोपपत्तेः वृत्तितावच्छेदकत्वं च वृत्तिग्रहे इतरव्यावर्तकतया वृत्तिनिरूपके प्रकारतया भासमानत्वमेव शक्यत्ववच्छक्यतावच्छेदकत्वस्यापि सन्निकर्षत्वसम्भवात् । अशक्यत्वमात्रेण भानानुपपत्तौ व्याप्त्यनिरूपकत्वेन व्याप्यतावच्छेदकादेरपि भानानुपपत्तिप्रसङ्गः । न चैवं पदज्ञानेनैव भानाङ्गीकारे तदनुकूला शक्तिरागतैव पदेऽपीति वाच्यम् । सत्त्वेऽपि तज्ज्ञानस्यावश्यकत्वात् । अज्ञायमानायाः शक्तेराकाङ्क्षा ज्ञानादावपि सत्त्वेन तस्या रूढिपदार्थत्वाभावात् । यस्य ज्ञायमानाशक्तिर्भासिका तस्यैव वाच्यत्वम् । एवं च शक्यांश एव ज्ञायमाना शक्तिर्बोधकारणमिति व्यक्तिरेव वाच्या । प्रवृत्तिनिमित्तांशे शक्तिज्ञानस्याकारणत्वात् । प्रवृत्तिनिमित्तस्यावाच्यत्वमिति गोपदाद्गोरेव भानम् । आकृत्यादीनां तु पाश्चात्यमानसबोधेऽनुमानादिना वेति बोध्यमित्याहुः ।
श्रीविट्टलभट्ट
नन्वासम्यक् स्वार्थज्ञापको ह्यागमो भवति । तथा च स्वरूपेण सतोऽपि निर्दोषशब्दस्य स्वार्थबोधकत्वात्कथं निर्दोषशब्द आगम इत्युच्यत इत्यत आह ।। आगमोऽपीति । निर्दोषः शब्द आ सम्यग्ज्ञापकोऽपीत्यर्थः । श्रुत इत्यनेन ज्ञातत्वमुपलक्ष्यते । अन्यथा ज्ञातशब्दः सम्यक् स्वार्थज्ञापको भवतीति सम्यगित्युक्तम् । समयः पदानां वाचकत्वरूपा शक्तिरित्यर्थः । शब्दन्यायो वाक्यार्थप्रतीत्यनुकूलोपक्रमादिन्याय इत्यर्थः । चक्षुरादिवत्स्वरूपसत्तामात्रेण निर्दोषशब्दस्य स्वार्थबोधकत्वाभावेऽपि सम्यग्ज्ञातस्य शक्तिस्मरणादियुतस्य तदस्तीत्यागमशब्दार्थत्वं युक्तमिति भावः । निर्दोषः शब्दः सम्यग्ज्ञातः समयस्मरणादिसहकृतपदो वाऽर्थसंसर्गरूपस्वार्थबोधक इत्युक्तम् । तत्र पदार्थः क इति जिज्ञासायां वाद्यन्तरोक्तप्राकारस्य हेयताज्ञापनाय परोक्तप्रकारमनुवदति ।। जातिरेवेत्यादिना । पदानां जातिरेवाभिधेया न तु व्यक्तिरित्यर्थः । तर्हि गोपदाद्गोव्यक्तेः कथं प्रतीतिरित्यत आह ।। व्यक्तयस्त्विति । स्वमतमाह ।। व्यक्तय एवेति । पदानां व्यक्तय एव वाच्या न तु वाद्यन्तरोक्तरीत्या जातिरेव जातिविशिष्टा व्यक्तिर्वा जातिर्वा व्यक्तिर्वा क्वचिदवयवसंस्थानविशेषरूपाकृतिर्वाऽन्यापोहरूपेतरव्यावृत्तिर्वा वाच्येत्यर्थः । शक्तिग्राहकस्यानयनादिव्यवहारस्य व्यक्तावेव सम्भवाद्य्वक्तेरेव वाच्यत्वे सम्बन्धाभावेन शब्दात्तत्प्रतीत्ययोगाच्च व्यक्तय एव वाच्याः । न च लक्षणया व्यक्तिप्रतीतिः । समयस्य वृत्तिरूपवाच्यवाचकभावसम्बन्धेनैव तत्प्रतीत्युपपत्तौ बाधकाभावेनामुख्यवृत्तिरूपामुख्यसम्बन्धकल्पनायोगादिति भावः । ननु व्यक्तेरेव वाच्यत्वे गोपदाद्गोपदवाच्यत्वविशिष्टव्यक्तिप्रतीतिर्न स्यादतिप्रसङ्गादिति चेन्न । वाच्यस्येव वाच्यतावच्छेदकस्यापि शब्दजन्यप्रतीतिविषयतायां तन्त्रत्वेनाति प्रसङ्गाभावात् । शब्देन प्रवृत्तिनिमित्तगोत्वादिविशिष्टव्यक्तेः प्रतीतिसम्भवात् ।
ननु गोत्वस्य प्रत्याश्रयं भेदेनैव तद्गोगतगोत्वस्य गोशब्दप्रवृत्तिनिमित्तमिति व्यक्त्यन्तरेऽसत्त्वात्कथं गोपदप्रवृत्तिनिमित्तत्वमिति वाच्यम् । प्रत्याश्रयभिन्नानां द्रव्यमिव गुणकर्मणामिव प्रत्याश्रयं भिन्नस्य सामान्यस्यापि प्रवृत्तिनिमित्तत्वसम्भवात् । दण्डिशुक्लपाचकशब्दप्रवृत्तिनिमित्तेषु दण्डशुक्लकर्मसु दण्डत्वादिकमस्तीति चेत् । किं तावता प्रवृत्तिनिमित्तादीनां दण्डादीनामननुगतत्वापरिहारात् । न ह्येकं दण्डत्वादिकं सकलदण्डादिसम्बन्धीत्येतावतैकोदण्डादिरपि सकलदण्ड््यादिसम्बन्धीति सम्भवति । अनुभवविरोधात् । गोत्वादिसामान्यानामपि धर्मित्वेन प्रतियोगित्वेनैकसादृश्यसम्बन्धाद्दण्डादेरिव प्रवृत्तिनिमित्तापत्तेश्च । तदुक्तं सुधायाम् । ते ते प्रवृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यैर्दण्डादिरूपद्रव्यैः शुक्लादिरूपगुणपचनादिरूपकर्मगोत्वादिरूपैः सामान्यैर्निमित्तैः प्रयोजकैर्वाच्या इत्यर्थः । यद्वा व्यक्तय एव वाच्या इत्यत्र परमतोक्तप्रकारव्यवच्छेदमात्रमेवकारार्थः । न तु प्रवृत्तिनिमित्तव्यवच्छेदोऽपि । न चैवं जातिविशिष्टव्यक्तेर्वाच्यत्वनिरासायोगः । अनुगतगोद्वारैः प्रवृत्तिनिमित्तत्ववाच्यत्वं चाभ्युपेत्य पराभिमतनित्यानेकसमवेतजातिविशिष्टव्यक्तेर्वाच्यत्वानङ्गीकारेण तत्पक्षनिराससम्भवात् । तस्मिन्पक्षे सुधायां निमित्तैरिति तृतीया सह योगे तथा च तैस्तैर्व्यावृत्तैरेव प्रत्याश्रयं भिन्नैरेव द्रव्यगुणकर्मसामान्यैः प्रवृत्तिनिमित्तैः सहितास्ते ते विभिन्ना दण्डादिरूपव्यक्तयो वाच्या इति सुधार्थः । ननु व्यक्तयो वाच्या इत्युक्तम् । अतीतानागतेति विप्रकृष्टसम्बन्धिज्ञानासम्भवेन सर्वोपसंहारेण तत्सम्बन्धरूपशक्तेर्ज्ञातुमशक्यत्वात् । अनन्तव्यक्तिसङ्ग्राहकस्यैकस्याभावेनैव व्यक्तयो वाच्या इति निर्णयायोगाच्चेत्यत आह ।। समयप्रतिपत्ताविति । पदपदार्थयोर्वाच्यवाचकभावरूपः सम्बन्धः । समयस्तस्य प्रतिपत्तौ सर्वोपसंहारेण प्रतीतावत्रैवेति निर्णयरूपप्रतीतौ च सादृश्यं पदार्थानामन्योन्यसादृश्यमुपाधानमुपाधिः प्रयोजकमित्यर्थः । इदमुक्तं भवति । समयप्रतीतौ विषयभूतं यत्प्रयोजकं तत्प्रवृत्तिनिमित्तमित्युच्यते । यत्तटस्थं तत्र तन्त्रं तदुपधानमिति व्यवह्रियते । तथा च यथा सर्वनाम्नो वक्तृबुद्धिस्थतामुपधानीकृत्यार्थेषु शक्तिर्गृह्यते । तथा गवादिपदानामपि सादृश्यमुपधानीकृत्यार्थेषु शक्तिर्गृह्यते । यदत्रोक्तम् । सकलव्यक्तिरूपसम्बन्धिग्रहासम्भवात्तत्सम्बन्ध रूपशक्तिग्रहो न सम्भवतीति । तदयुक्तम् । यथाऽनुगतधर्मवादे इन्द्रियसन्निकृष्टव्यक्तिनिष्ठगोत्वाभिव्यङ्ग्यान्तरङ्गसादृश्यसामान्यस्य सकलव्यक्तिसम्बन्धित्वेनेन्द्रियप्रत्यासत्तितया सकलव्यक्त्युपस्थापकत्वादुपस्थितेषु व्यक्तिरूपसम्बन्धिषु शक्तिग्रहस्तथाऽस्मन्मतेऽपीन्द्रियसन्निकृष्टव्यक्तिनिष्ठगोत्वाभिव्यङ्ग्यान्तरसादृश्यस्यातीतानागतविप्रकृष्टसकलव्यक्तिप्रतियोगित्वेन सकलव्यक्तिसम्बन्धित्वादिन्द्रियप्रत्यासत्तित्वेन सकलव्यक्त्युपस्थापकत्वादुपस्थापितव्यक्तिरूपसम्बन्धिषु शक्तिग्रहोपपत्तेः । सादृश्यमपि नैकमस्तीति चेत् । किं तावतेन्द्रियसन्निकृष्टव्यक्तिनिष्ठस्यैकस्यैव सादृश्यस्य सकलव्यक्तिवृत्तित्वाभावेऽपि सकलव्यक्तिसम्बन्धित्वेन प्रत्यासत्तितया सकलव्यक्त्युपस्थापकत्वात् समयप्रतीतिप्रयोजकत्वोपपत्तेः । नापि सकलव्यक्तिसङ्ग्राहकाभावेनैतावान्वाच्य इति निर्णयाभावः । सकलगोव्यक्तीनां धर्मत्वेन प्रतियोगित्वेनैकसादृश्यसम्बन्धित्वेन गोत्वाभिव्यङ्ग्यसादृश्यसम्बन्धियावांस्तावान् गोशब्दवाच्य इति निर्णयसम्भवादिति । तदुक्तं सुधायाम् । सादृश्यस्य सम्बन्धित्वेऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवादिति । सादृश्यस्य व्यावृत्तत्वेऽपि प्रत्याश्रयं भिन्नत्वेऽपि प्रतियोगिनिरूप्यत्वेन प्रतियोगिपदमधिकरणस्याप्युपलक्षणम् । प्रतियोग्यधिकरणनिरूप्यत्वेनानुगतफलस्यानन्तव्यक्तिरूपसम्बन्ध्युपस्थितेः । सर्वोपसंहारेण शक्तिग्रहस्यैतावान्वाच्य इति निर्णयस्य च साधकत्वानुभवात् । प्रयोजकत्वाभावादित्यर्थः ।