ओम् शान्तिः शान्तिः शान्तिः
भाष्यस्य अन्तिमं मङ्गलाचरणम्
उपनिषत्
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
ओम् शान्तिः शान्तिः शान्तिः ॥
भाष्यम्
नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।
यस्याहमाप्त आप्तेभ्यो यो म आप्ततमः सदा ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीकाठकोपनिषद्भाष्यं सम्पूर्णम् ॥
श्रीव्यासतीर्थ:
मङ्गलावसानस्य प्रचयादिहेतुत्वादवसानेऽपि तदाचरणीयमिति द्योतयन् यत्प्रसादात् यत्प्रीत्यै भाष्यमुपक्रम्य समापितवान् तमेवान्तेऽप्युप- श्लोकयन् प्रणमति - नम इति ॥ प्रभविष्णवे प्रभवनशीलायेत्यशेषमतिमङ्गलम् ॥ ॥ इतिश्रीमदानन्दतीर्थभगत्पादाचार्यविरचितस्य काठकोपनिषद्भाष्यस्य टीका श्रीजयतीर्थपूज्यचरणशिष्यश्रीव्यासतीर्थपूज्यचरणविरचिता सम्पूर्णा ॥
वामनपण्डिताचार्य:
अथ नैरन्तर्येण ध्यानादिप्रवृत्तिसिद्ध्यर्थं गुरुशिष्यविषये गुरुणा क्रियमाण आशीर्वादः ‘‘सह नाववतु" इत्यादिकः । यत् पूर्वं प्रस्तुतं ब्रह्म तत् नौ सहैवाक्तु । सहैव भोजयतु च । सहैव वीर्यवच्छुभाचरणाय आवयोरधीतं
तेजस्वि अस्तु । तेजोमयब्रह्मविषयमस्तु । अद्वेष्यान् मा विद्विषावहै ब्रह्मप्रसत्तये । कीदृग्भूतं तद् ब्रह्मेति चेत् शान्तिरित्युच्यते । “एतच्छान्तमजरम्” इत्यादिश्रुतेः शान्तं सुखपूर्णम् । इकारस्तु गतिधातुजत्वेन ज्ञानबाचकः । अतः ज्ञानादिगुणगणपरिपूर्णं ब्रह्मेत्यर्थः । अत्रैव महातात्पर्यं सर्ववेदानामिति ज्ञापनार्थमसकृदुक्तिः ।।
अथेदानीं ग्रन्थावसानेऽपि गुरूणां गुरुतमः श्रीमदानन्द-
तीर्थाचार्यो विष्ण्वाख्याय इष्टदेवतायै नमस्करोति नमो भगवत इति ॥
नमस्तस्मै भगवते विष्णवे प्रभविष्णवे ।
मध्वो यस्याप्त आप्तेभ्यो यस्तस्याप्ततमः सदा ॥
यस्य त्रिरूपाण्युदितानि वायोर्वेदे बलज्ञानवतो बळादौ ।
दशप्रमत्याख्यतृतीयरूपी चक्रे हरौ काठकभाष्यमेतत् ॥
भाष्यस्यास्यामितार्थस्य टीकां कृत्वात्मशक्तितः ।
श्रीमध्वदासदासानां दासो विष्णौ समार्पयत् ॥
श्रीप्राणनाथ पुरुषोत्तम लोकनाथ श्रीमध्वनाथ सुमतिप्रद वेदनाथ । त्वत्पादसञ्ज्ञसुरपादपमूलमाशु मां भाजयाभयमभीष्टदमिष्टदेव ॥ नमो नमस्ते सत्स्वामिन् विष्णवे सच्चिदात्मने । नमो नमस्ते श्रीमध्व गुरवो वो नमो नमः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीकाठकोपनिषद्भाष्यटीका वामनपण्डिताचार्यविरचिता समाप्ता ॥
श्रीवेदेशतीर्थ खण्डार्थ:
वे.ख- एवं यत्प्रसादात् यत्प्रीत्यै चेदं भाष्यमुपक्रम्य समापितवांस्तमेव भगवन्तमन्तेऽपि स्तुतिनतिभ्यां प्रीणयति भगवानाचार्य :- नम इति ॥ प्रभविष्णवे प्रभवनशीलायेत्यशेषमतिमङ्गलम् ।।
गुरुस्थानन्दतीर्थार्यहृत्पङ्कजगतो हरिः । निर्दोषगुणसम्पूर्णः प्रीयतामिन्दिरापतिः ।।
प्रीतस्स भगवान्विष्णुर्यद्दद्यात्फलमुत्तमम् । तत्सर्वं गुरवे दद्यान्न मह्यं किञ्चिदप्यृतम् ॥
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य काठकोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्यपादशिष्यवेदेशभिक्षुविरचितायां पदार्थकौमुद्यां द्वितीयोऽध्यायः ॥
श्रीवरदतीर्थ:
बरद- एवं समापितभाष्योऽपि भगवान्भाष्यकारो ग्रन्थावसानेऽपि भगवन्भमस्कारलक्षणं मङ्गलमाचरति - नम इति ॥
इत्थं वरदतीर्थेन यतिना यतचेतसा । वाक्पुष्पमालया विष्णुः प्रीतो भवति पूजितः ।
।। इति श्रीवरदतीर्थविरचितकाठकभाष्यसम्बन्धः समाप्तः ॥
॥ श्रीकृष्णार्पणमस्तु ॥
॥ समाप्तोऽयं ग्रन्थः ॥ ...