स त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतोऽत्यस्राक्षीः
श्रेयोवरणैकतत्परस्य नचिकेतसः प्रशंसा
उपनिषत्
स त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।
नैतां शृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ।। १.२.३ ।।
भाष्यम्
शृङ्कां शृङ्खलाम् ॥ १.२.३॥
श्रीव्यासतीर्थ:
यत्प्रशंसार्थं श्रेयः प्रेयसोः स्वरूपं निरूपितं तमिदानीं प्रशंसति- स त्वमिति ॥ मया प्रलोभितोऽपि त्वं कामानां दोषानभिध्यायन् वित्तमय सुवर्णमयीम् । तस्या रम्यत्वाभावान्नावाप्त इत्यत उक्तम् - यस्यामिति ॥
शृङ्काशब्दार्थमाह- शृङ्गामिति ॥ कण्ठभूषामिति यावत् ।।
वामनपण्डिताचार्य:
स त्वं बालः सन्नप्यमन्दबुद्धित्वात् पुत्रमित्रादिप्रियार्थान् नृत्तगीतादिप्रियरूपकामांश्च श्वोभावादिदोषमभिध्यायन् अत्यस्राक्षीः । “सृङ्काम्” इति पदमनूद्य " शृङ्खलाम्" इति व्याख्याति । त्वमेतां मद्दत्तामपि शृङ्खलां न गृहीतवानसि । श्रेयोवरणैकतत्परत्वात् । वित्तमोहराहित्याच ||
श्रीवेदेशतीर्थ:
एवं नचिकेतसो विषयाभिलाषाराहित्यादयं ब्रह्मविद्यायोग्य इति भावेन विषयकामनायुक्तस्य तद्रहितस्य च स्वरूपं निरूपयति- अन्यदित्यादिना ॥ अत्र “नैतां शृङ्कां वित्तमयीमवाप्तः” इत्यत्राप्रतीतेः शृङ्काशब्दार्थमाह- शृङ्कामिति ॥ यद्यपि " शृङ्कां चेमामनेकरूपां गृहाण " इत्यत्र शृङ्काशब्दः कण्ठमालापरतया व्याख्यातः । तथाप्यनुवादसन्तुष्टयम- दत्तकण्ठमालाया नचिकेतसा प्राप्तत्वात् तृतीयवरत्वेन कण्ठमालाया यमेनादत्तत्वान्नचिकेतसा मास्त्वित्यनुक्तत्वाच्च " नैतां शृङ्कां वित्तमयीमवाप्तः” इत्युक्तत्ययोगात् " यस्यां मज्जन्ति" इत्युक्तसर्वमनुष्यबन्धकत्वायोगाच्चात्र शृङ्खलापरत्वेन व्याख्यात इत्यवधेयम् ॥१.२.३।।
श्रीवरदतीर्थखण्डार्थ:
यत्प्रशंसार्थमेतदुक्तं तमिदानीं प्रशंसति स इति ॥ हे नचिकेतः स मया प्रलोभितोऽपि त्वं प्रियान् तत्र हेतुः प्रियरूपान् मनोहररूपान् कामान् काम्यान् मया दत्तानपि अभिध्यायन् तेषामनित्यत्वादिदोषानिति शेषः । अत्यस्राक्षीः अतिसृष्टवानसि । एतां मया दत्तां वित्तमय सुवर्णमयीं शृङ्खलां नैवावाप्तः । यद्यन्येऽपि नैवाप्ताः तर्हि को विशेषोऽस्येत्यत आह- यस्यामिति ॥ यस्यां वित्तमय्यां शृङ्खलायां बहवो मनुष्या मज्जन्ति तया शृङ्खलया आत्मानं बध्नन्तीत्यर्थः ।। १.२.३ ।।
श्रीवरदतीर्थ:
वरद- “शृङ्कां चेमाम्" इत्यत्र शृङ्काशब्दस्याप्रतीयमानार्थत्वादर्थमाह- शृङ्कामिति ।। १.२.३ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
यत्प्रशंसार्थं उपोद्धात उक्तस्तामाह- स त्वमिति ॥ हे नचिकेतः, स त्वं मया प्रलोभितोऽपि त्वं प्रियान् दारापत्यादीन् प्रियरूपांश्च गृहारामक्षेत्रार्दीश्च कामान् काम्यमानान् अभिध्यायन् अस्थिरतया मन्वानः अन्यत् ब्रह्मस्वरूपं प्राक्षीः अप्राक्षीः, अडभावः छान्दसः, पृष्टवानसि । अत्यस्राक्षीरिति पाठे त्यक्तवानभूरित्यर्थः । वित्तमय सुवर्णमयीमेतां कण्ठधारणयोग्यां शृङ्कां शृङ्खलां नावाप्तः न स्वीकृतवान् । शृङ्केयमति- श्लाध्येत्याह । यस्यां मज्जन्ति आसक्ताः भवन्ति बहवो मनुष्याः, तादृशीमपि मया दीयमानां न गृहीतवान् । अतस्त्वं प्रशस्त इति भावः ।। १.२.३ ।।