या प्राणेन संविशत्यदितिर्देवतामयी
विष्णुरेवादितिनामकः तस्य मत्स्याद्यात्मना प्रादुर्भावः
उपनिषत्
या प्राणेन संविशत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद् वै तत् ।। २.१.७ ।।
भाष्यम्
'अदनाददितिर्विष्णुर्य: प्राणसहितः स्थितः ।
उत्तमो देवताभ्यश्च सोऽत्मानं विविधात्मना ||
मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत् ।
भूतैस्सह महाविष्णुः परमात्मा युगे युगे ॥” इति च ॥
देवतामयी देवतोत्तमा । प्राणेन सहितो भवति । गुहां प्रविश्य तिष्ठन्तं स्वात्मानं भूतैस्सह विविधं जनयामास ।। २.१.७ ।।
श्रीव्यासतीर्थ:
व्या. भा- या प्राणेनेत्येतत्स्त्रीलिङ्गात्, प्रसिद्धेश्व कश्यपभार्यादितिपरत्व- प्रतीतेः प्रमाणमुदाहृत्य स्ववाक्येन व्याचष्टे - अदनादिति ॥ उत्तमो देवताभ्यश्चेति व्याख्यातमपि देवतामयीतिपदं देवतात्मिकेतिप्रतीतिं निवारयन् व्याचष्टे - देवतेति ॥ या प्राणेनेति व्याख्यातमपि प्राणेन प्राणरूपेण संविशतीत्यन्यथाप्रतीतिं निवारयन् व्याचष्टे - प्राणेनेति ॥ " गुहां प्रविश्य तिष्ठन्तीम्” इत्यादिविशेष्याप्रतीतेर्व्याचष्टे - गुहामिति ।। २.१.७ ।।
वामनपण्डिताचार्य:
एवं ब्रह्मादिसृष्टिमुक्त्वा भगवतो मत्स्यादिरूपेण स्वरूपाभिव्यक्तिं च वक्ति- या प्राणेनेति ॥ तद्व्याख्याति - अदनाददितिरित्यादिना || इति च महावराहे । देवतामयीत्यादिना स्ववचनेनैव पदार्थान् विवृणोति । “विकारप्राचुर्यप्राधान्येषु मयट्टू" इति सूत्रात् उत्तमार्थत्वं च मयटः प्रसिद्धम् । ‘“प्राणेन सम्भवति” सह स्थितो भवति । सर्वप्राणिनां हृदयं प्रविश्य तिष्ठन्तीं स्वात्मानं मत्स्यादिरूपेण विविधं व्यक्तीचकार । “अजायमानः” इति श्रुतेः । भूनानि तु जनयामास । “ तान्यसृजत” इति सर्वसृष्टिश्रुतेः । एषामदनाददितिः स उच्यते ।। २.१.७ ।।
श्रीवादिराजतीर्थ:
अदितिः अदनाददितिशब्दवाच्या देवतामयी सर्वदेवोत्तमा या परदेवता प्राणेन सह संविशन्ती सा अस्मिन् युगे इव युगे युगेऽपि भूतेभिः सह गुहां प्रविश्य तिष्ठन्तीं स्वात्मानं व्यजायत मत्स्यकूर्मादिरूपेण जनयामास । युगे युगे प्रजाः सृष्ट्वा तद्वृदि अन्तर्यामितया स्वात्मानं सृष्ट्वा बहिर्ब्रह्मादीना- मुपकाराय मत्स्यकूर्माद्यवताराश्च सृजतीति भावः ।। २.१.७॥
श्रीवेदेशतीर्थ:
वे. भा. नन्वेतदप्ययुक्तम् । अदितिशब्दस्य देवमातरि रूढत्वेन विष्णी स्त्रीलिङ्गान्तादितिशब्दप्रयोगायोगात् । देवतामयीत्युक्तदेवतास्वरूपत्वायोगात् । प्राणेन प्राणस्वरूपेणेत्युक्तमुख्यप्राणस्वरूपत्वस्यासम्भवाच्च । किञ्च “गुहां प्रविश्य तिष्ठन्तीम्" इत्युक्तो गुहासंस्थः किं विष्णुरन्यो वा । नाद्यः । तस्य " या भूतेभिर्व्यजायत" इति उक्तभूतजन्यत्वासम्भवात् । न द्वितीयः । प्रागुक्तविरोधादित्यतस्तं मन्त्रं प्रमाणेन व्याचष्टे - अदनादित्यादिना ॥ अदनाददितिरित्यनेनादितिशब्दो योगेन विष्णुपर इत्युक्तं भवति । नच स्त्रीलिङ्गानुपपत्तिः । भगवतः स्त्रीरूपत्वस्यापि भावात् । ननु स्मृतौ “उत्तमो देवताभ्यश्च’” इत्येतत् कस्य व्याख्यानमिति न प्रतीयत इत्यतो देवतामयीति पदव्याख्यानमिति भावेन तदनूद्य व्याचष्टे - देवतेति ॥ मयटः प्राधान्यार्थ - कत्वादिति भावः I इदञ्च प्रसिद्धादितिपरत्वेऽनुपपन्नम् । नचानेन देवतास्वरूपत्वमुच्यत इति वाच्यम् । विशिष्टे विशिष्टाभेदस्य बाधात् । चैतन्यैक्यविवक्षायामदितिदेवताशब्दयोर्लाक्षणिकत्वापातात् । ननु प्राणेन संविशतीत्यस्य प्राणसहितः स्थित इति कथमर्थस्ततस्तस्याप्रतीतेरित्यतः प्राणेन संविशतीत्येतद्व्याचष्टे - प्राणेनेति ॥ सहयोगे तृतीया इति भावेन सहित इत्युक्तम् । अनेन प्राणरूपेणेति व्याख्यानमपास्तम् । अदितेः प्राणस्वरूपत्वस्य तेनाप्यनङ्गीकारात् । चैतन्यैक्यस्याप्रामाणिकत्वात् । संविशतीत्यस्यार्थः- स्थितो भवतीति ॥ ननु “ मत्स्यकूर्मादिरूपेण गुहासंस्थमजीजनत्" इत्यनुपपन्नम् । मत्स्यकूर्मादिरूपस्य बहिष्ठत्वेन गुहा संस्थत्वाभावादित्यतो गुहां प्रविश्येति वाक्यं व्याचष्टे - गुहामिति ॥ स्वात्मानमिति विशेष्याध्याहारः । भूतैः सहेत्युक्त्या भूतेभिरिति तृतीया न हेत्वर्थेत्युक्तं भवति । विविधं मत्स्यकूर्मादिरूपेण । तथाच स्मृतौ गुहासंस्थ- मित्येतत् आत्मानमित्यस्य विशेषणमिति नानुपपत्तिरिति भावः ॥२.१.७।।
श्रीवेदेशतीर्थखण्डार्थ:
किंच या देवतामयी देवतोत्तमा अदनाददितिः स्त्रीरूपा भगवती प्राणेन मुख्यप्राणेन सहिता संविशति देहादौ स्थिता भवति या च गुहां प्रविश्य तिष्ठन्तीं स्वात्मानं भूतैः सह विविधं मत्स्यकूर्मादिरूपेण अजायत जनयामास । एतद्वै तदित्यन्वयः ॥२.१.७।।
श्रीवरदतीर्थ:
वरद- " या प्राणेन संविशत्यदितिर्देवतामयी" इत्येतद्व्याचष्टे- अदनादिति । एवं प्रमाणवचनेन व्याख्यातं श्लोकं स्ववाक्येन व्याख्याति- देवतेति ॥ २.१.७ ॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
या प्राणेनेति ॥ अदनात् सर्वजगद्भक्षणात् अदितिनाम्नी देवतामयी सर्वदेवोत्तमा, मयट् प्राधान्यार्थे, या भगवत्तनुः प्राणेन मुख्यवायुना सह संविशति तिष्ठति, या च भगवत्तनुः गुहां प्रविश्य तिष्ठन्तीं स्वकीयामेव तनुं भूतेभिः भूतैः प्राणिभिस्सह व्यजायत विविधतया जनयामास, अन्तर्णीतणिचू, मत्स्यादिनानारूपतया स्वात्मानं प्रादुर्भावयामास, प्राणिनश्च देहयोगेन नानाविधानुत्पादयामासेति यावत् । एतद्वै तत् त्वया पृष्टं यत् तत् एतद्वै इति ॥२.१.७||