ऊर्ध्वमूलोऽशाख एषोऽश्वत्थः सनातनः
अथ द्वितीयाध्यायस्य तृतीया वल्ली
जगदाख्याश्वत्थस्य भगवानेव मूलम्
उपनिषत्
ऊर्ध्वमूलोऽशाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोका श्रिताः सर्वे तदु नात्येति कश्चन । एतद् वै तत् ।। २.३.१।
भाष्यम्
'सर्वोच्च भगवान् विष्णुर्मूलं भूमिवदस्य तु ।
जगदाख्यस्य वृक्षस्य शाखा देवास्ततोऽवमाः ॥
वृक्षमूलं रमादेवी सोऽश्व आशुगतेर्हरिः ।
तद्व्याप्तत्वात् तदन्नत्वादश्वत्थोऽयं प्रकीर्तितः ।।
प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः ।
मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः ।। २.३.१।।
श्रीव्यासतीर्थ:
व्या- अतृप्तत्वाद्भूयोऽपि भगवतोऽन्यानपि जगदाश्रयत्वादीन् गुणानाह- ऊर्ध्वमूल इति । तदर्थाप्रतीतेर्व्याचष्टे - सर्वोच्च इत्यादिना ॥ भूमिवद्भूमिः यथा वृक्षस्याश्रयः तथा जगतो भगवानपि मूलाश्रयः । जगद्वृक्षोऽश्वत्थ इति कस्मादुक्त इत्यत आह- सोऽश्व इति ।। अश्वः अस्मिंस्तिष्ठतीति अश्वत्थः अश्वस्य थमन्नमश्वत्थ इत्यर्थद्वयमभिप्रेत्योक्तम्- तद्व्याप्तत्वात्तदन्नत्वादिति ॥ व्यक्तित एवानादिनित्यत्वप्रतीतिं निवारयन् सनातनपदं व्याचष्टे- प्रवाहत इति ॥ चशब्दान्नित्य इत्यपि ग्राह्यम् । व्यक्तित एव सनातनत्वं कुतो न स्यादित्यत आह- मुख्यत इति ॥ “ मुख्यतस्त्वमृतो हरिः" इत्यनेन तदेवामृतमिति व्याख्यातं भवति । उक्तमेवावधारयितुमाह- मुख्यामृत इत्यादिना ।। जगतो मुख्यामृतत्वे श्रुत्यादौ " स एवैको मुख्यामृतः” इत्युक्तेर्जगत्प्रवाहत एव नित्यमित्यर्थः || १ ||
वामनपण्डिताचार्य:
अथ ‘“सर्वोच्चः” इत्यादिना महावराहवचनेन " ऊर्ध्वमूलः” इत्यादेरभिप्रायमाह । अत्र तु भगवान् विष्णुः सर्वोत्तमः सर्वजगतो मूलकारणं मूलाधारश्चेत्यादिकमुपास्यमित्यभिप्रेयते । ऊर्ध्वशब्देन सर्वोत्तमो विष्णुः प्रमदोत्तमा रमा च क्रमादुच्येते । ते एव च मूलकारणं मुख्यममुख्यं चेति ऊर्ध्वमूलो जगद्वृक्षः । अत्रायं विशेषः । भूमिवदचिरेणोत्पत्तिस्थानं हि मुख्यकारणम् । तद् भगवानेव । तद्बीजवत् परिणामि प्रधानम् । तदभिमानिनी रमैवामुख्यकारणमिति । अतो नात्र प्रकृतिविकारभावो देवदेव्योराशङ्कनीयः । अवाञ्चः ताभ्यामधमाः ब्रह्मादिदेवाः शाखा अस्येति अवाक्शाखश्वायम् । ब्रह्मा तु महदहङ्कारात्मा शाखासन्निकृष्टत्वात्, तदाश्रयत्वाच्च शाखाशब्देन लक्ष्यते । रुद्रादयस्तूच्यन्ते । देवास्तु उपशाखा इति स्वतः सिद्धम् । आशु "यातीत्यश्वनामको भगवांस्तत्र ततश्चायं तस्यान्नभूतश्चेति अश्वत्थनामायं वृक्षः । थकारस्यान्नवाचकत्वात् । ‘“अन्नं थम्’’(छा.उ.१.३.५)इति हि श्रुतिः । सनातन इत्येतत्पदं " प्रवाहतश्चादितश्च " इति वाक्येन व्याख्याति । आदिकालादारभ्य वर्तमानोऽपि उत्पत्तिनाशवत्त्वात् प्रवाहतो नित्य इत्यर्थः । शुक्रं शुद्धम् । तदेव मुख्यामृतमुच्यते । " मुख्यतस्त्वमृतो हरिः" इति विवरणात् । " मुख्यामृतः स एवैकः ' इत्यन्ययोगव्यवच्छेदाय । "जगन्नित्यं प्रवाहतः" इत्युत्तरकालापेक्षया । तस्मान्नात्र पुनरुक्तिः ।। २.३.१ ।।
श्रीवादिराजतीर्थ:
ऊर्ध्वमूल इत्यत्र ऊर्ध्वः सर्वोत्तमो हरिः मूलं भूमिवदाधारो यस्य, ऊर्ध्वा प्रकृत्यभिमानिनी लक्ष्मीः वृक्षाधारालवालवदाधारो यस्य, ऊर्ध्वा उपादानतया कार्यप्रपञ्चादुत्कृष्टा गुणत्रयात्मिका प्रकृतिः वृक्षपादभूतमूलवदा- धारो यस्यासौ ऊर्ध्वमूल इति त्रेधाऽपि विग्रहो ज्ञेयः । अवाक्शाखः अवागुक्तत्रितयाधस्तादेव विद्यमानानि ब्रह्मादिदेवैरभिमन्यमानानि महदहङ्कारादिचतुर्विंशतितत्त्वानि शाखा स्थूलशाखा यस्य सोऽवाक्शाखः ।
अवाक् ततोऽपि अवाक् ब्रह्माण्डान्तः मनुष्यपशुपक्ष्यादिशरीराख्याः अग्रशाखाश्च यस्य सोऽवाक्शाखः । तदेव मूलतया मूलीभूतं परब्रह्मैव शुक्रं शोकरहितम् । वृक्षोत्पत्तौ भूमिवदुत्पत्तिशून्यत्वात्, वृक्षापाये अपायशून्यत्वात्, वृक्षवृद्धिह्रासे वृद्धिह्रासशून्यत्वाच्च वृक्षशाखाद्यभिमानिब्रह्मादिवच्छोकरहितं इत्यर्थसङ्ग्रहाय शुक्रमित्युक्तम् ।। २.३.१ ।।
श्रीवेदेशतीर्थ:
पुनरपि भगवन्माहात्म्यमाह - ऊर्ध्वमूल इत्यादिना ॥ तदन्यथा- प्रतीतिनिरासाय प्रमाणेनैव व्याचक्षाणास्तावदूर्ध्वमूल इत्येतद्व्याचष्टे - सर्वोच्च इति ॥ ऊर्ध्वशब्दार्थः- सर्वोच्च इति ॥ उच्च ऊर्ध्व उच्यते । सर्वेत्यस्य योग्यतया सम्बन्धः । वृक्षमूलबन्मूलत्वेऽन्याश्रयत्वशङ्का स्यादित्यतो भूमिवदित्युक्तम् । एषोऽश्वत्थ इति प्रसिद्धाश्वत्थ उच्यत इति प्रतीतिनिरासाय जगदाख्यस्येत्युक्तम् । अवाक्शाख इत्येतद्व्याचष्टे - शाखा इति । द भूमिरिव विष्णुर्मूलं तर्हि वृक्षमूलं किमित्यत आह- वृक्षमूलमिति ॥ अनेनोर्ध्वमूल इत्येतत् प्रकारान्तरेण व्याख्यातम् । ननु वृक्षमात्रसाम्यमभि- दधता अश्वत्थत्वं कथमस्योच्यत इत्यत आह- स इति ॥ आशुशब्दोपपदात् “वा गतिगन्धनयोः" इत्यस्मात्कः । उपपदोकारलोप आकारस्य ह्रस्वत्वं छान्दसमिति भावः । अस्तु हरिरश्वनामकः किं तत इत्यत आह- व्याप्तत्वादिति ।। अश्वोऽस्मिंस्तिष्ठतीत्यश्वत्थ इत्यर्थः । तदन्नत्वादिति ॥ अश्वस्य थमन्नमश्वत्थम् । “अन्नं थम्” (छा.उ.१.३.५ ) इति श्रुतेः । लिङ्गव्यत्यासः छान्दसः । जगत्स्वरूपस्यैवानादिनित्यत्वमुच्यत इति प्रतीतिनिरासाय सनातनपदं व्याचष्टे - प्रवाहत इति ॥ तुशब्द एवार्थः । अश्वत्थत्वसमुच्चयार्थश्वशब्दः । नित्यत्वसमुच्चयार्थे वा । ननु मुख्यत एवानादिनित्यत्वं किन्न स्यादित्याशङ्कां परिहर्तुं " तदेवामृतमुच्यते” इति वाक्यं व्याचष्टे- मुख्यत इति । उच्यत इति शेषः । श्रुतावुच्यत इत्युक्तत्वात् । तुशब्दोऽवधारणार्थः । हरिरेवेति सम्बन्धः । अन्यस्याप्यमृतत्वात्-
‘“तदेवामृतमुच्यते’” इति कथमुक्तमित्यतो मुख्यत इति शेषोक्तिः । ननु हरिरेव मुख्यतोऽमृत इत्युक्तत्वेऽपि तस्य मुख्यामृतत्वं कुतः । नह्युक्तमस्तीति नियमोऽस्तीत्यत आह- मुख्येति ॥ यतो मुख्यतो हरिरेवामृत उच्यते श्रुत्यादावतः स एक एव मुख्यामृत इति व्याख्येयम् । उक्तमस्तीति नियमाभावेऽपि श्रुत्याद्युक्तमस्तीति नियमोऽस्तीति भावः । किं तत इत्यत आह- जगदिति ॥ यतः स एक एव मुख्यामृतस्ततो जगत् प्रवाहत एव नित्यम् । न मुख्यतः | अवधारणविरोधादित्यर्थः ॥ २.३.१॥
श्रीवेदेशतीर्थखण्डार्थ:
एष जगद्वृक्ष ऊर्ध्वमूलः ऊर्ध्वः सर्वोच्चो विष्णुर्मूलं भूमिवत् यस्य स ऊर्ध्वमूलः । ऊर्ध्वा ब्रह्मादिसर्वोच्चा रमा मूलं वृक्षमूलवत् यस्य स ऊर्ध्वमूलः । अवाक् शाखः अवाक् ततोऽवमा देवाः शाखा यस्य सोऽवाक्शाखः । अश्वत्थः आशुगमनादश्वनामको हरिस्तद्व्याप्तत्वात्तदन्नत्वाद्वाऽश्वत्थः प्रवाहतोऽनादिनित्यः । जगन्मूलभूतभगवन्माहात्म्यमेवाह- सनातनः तदेवेति ।। त्र्याख्यातम् । एतद्वैतत् ।।२.३.१।।
श्रीवरदतीर्थ:
वरद- सर्वस्यापि परमेश्वराधीनत्वं प्रकारान्तरेण निरूप्यते- ऊर्ध्वमूलमित्यादिना ॥ तद्दुर्गमार्थत्वाद्व्याचष्टे - सर्वोच्च इति ॥ ननु जगद्वृक्षस्याश्वत्थत्वं कथमित्यत आह- सोऽश्व इति ॥ ननूत्पत्तिविनाशवतः प्रपञ्चस्य सनातनत्वं कथमित्यत आह- प्रवाहत इति ॥ कुतः प्रवाहतोऽनादित्वमङ्गीकर्तव्यं मुख्यत एव किन्न स्यादित्यत आह- मुख्यामृत इति ॥ तदेव विवृणोति- जगदिति । यदि जगतो मुख्यामृतत्वं तर्हि विष्णोरेव मुख्यामृतत्वमिति वेदादिप्रसिद्धिर्विरुद्धा स्यात् । अतः प्रवाहत एव जगतो नित्यत्वं न मुख्यत इत्यर्थः ।।२.३.१ ।।
श्रीवरदतीर्थखण्डार्थ:
वरद. खं- सर्वस्यापि हर्यधीनत्वं प्रकारान्तरेण निरूप्यते- ऊर्ध्वमूलोऽवाक्शाख इत्यारभ्य यथादर्शे तथात्मनि इत्यन्तेन प्रबन्धेन ||एष सनातनोऽबाक्शाखोऽश्वत्थो यदूर्ध्वमूलः यद्विष्ण्वाख्योत्तमवस्तुमूलवान् तद्वस्तु शुक्रमित्यादिशब्दैरभिधीयत इत्यर्थः ॥ २.३.१॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
साधूनां भगवन्महिम्नो बुद्धयारोहाय लोकप्रसिद्धार्थसाम्येन तन्महिमानमाह - ऊर्ध्वति ॥ ऊर्ध्वः सर्वोच्चो भगवान् मूलं वृक्षमूलं भूतलमिव मूलं यस्य जगदाख्यवृक्षस्य स ऊर्ध्वमूलः । अवाक् अर्वाञ्चः अधमाः देवाः शाखाः यस्यासौ अवाक्शाखः । भूमिगतवृक्षमूलं तु श्रीतत्त्वं ज्ञेयम् । एषः प्रमाणप्रमितो जगदाख्योऽश्वत्थः । अश्वत्थतरुरिव स्थितः । आशु गतिमत्त्वादश्वो हरिः । आशूपपदात् वाधातोः कप्रत्यये उपपदान्तलोपे ह्रस्वत्वे च अश्व इति सिद्धेः, अश्वः अस्मिंस्तिष्ठतीति वा, अश्वस्य थमन्नमिति वाऽश्वत्थः । सनातनः प्रवाहतोऽनादिः । तदेव ऊर्ध्वाख्यं मूलमेव शुक्रम् व्याख्यातानि पदानि । एतद्वै तत् त्वया पृष्टं एतादृशगुणकं वै इति ॥२.३.१ ॥