अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः

भगवदुपलब्धिः भगवत्प्रसादादेव भवति

उपनिषत्

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ।। २.३.१३ ॥

भाष्यम्

प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ।

तत्त्वभावस्ततो विष्णुस्तत्प्रसादात्तु तस्य हि ॥

आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः ।

अनादिकालादाधिक्यं सर्वस्माज्जानतो हरेः ॥

पुनः पुनर्वृद्धिमेति तज्ज्ञानं हि भवे भवे ।

येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् ॥

तेषां पश्चाच्च नैव स्यादभिभूतं तु तत् पुनः ।

व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम्

इति च ।। २.३.१३ ॥

श्रीव्यासतीर्थ:

व्या- गुरूपलभ्योऽपि भगवान् प्रसन्नेन स्वेनैवेत्याह- अस्तीत्येवेति ॥ उभयोस्तत्त्वभावेन तत्त्वभावनकर्त्रा प्रसन्नेन भगवतेति यावत् । अस्तीत्येवोप- लब्धव्यः ज्ञातव्यः । परमात्मा अस्तीत्यनेन सन्मात्रमित्येव बोद्धव्य इत्यन्यथा- प्रतीतिं निवारयन्नस्तीत्यादि व्याचष्टे - अधिक इत्यादिना ॥ अनाधिक्यं जानतां सकाशात् । ननु तत्प्रसादादेवाधिक्यज्ञानं प्रसादचाधिक्यज्ञानादि- त्यन्योन्याश्रयतेत्यतो व्यक्तिभेदान्न दोष इत्याह- अनादीति ॥ नन्वनादि- कालादाधिक्यं जानतस्तज्ज्ञानं भवे भवे पुनर्वृद्धिमेतीत्ययुक्तम् ।अनादितस्तद्रहितानामपि पश्चाज्जायमानत्वादित्यत आह- येषामिति ॥ ननु कथमेतत् । अस्मासु पश्चाद्भाविनस्तज्ज्ञानस्यानुभवसिद्धत्वादित्यत आह- अभिभूतमिति ॥ २.३.१३ ।।

वामनपण्डिताचार्य:

बामन - प्रकृतिपुरुषयोस्तत्त्वं सृष्ट्यादिना भावयतीति उभयोस्तत्त्वभावः । अनेन च विशेषणेन सह ज्ञातव्यः परमात्मा | उपलब्धस्य ज्ञानवत इत्यर्थः ।। ॥२.३.१३ ॥

श्रीवादिराजतीर्थ:

उभयोस्तत्त्वभावेन" इत्यत्र कावुभौ कश्च तयोस्तत्त्वभाव इत्यत आह- प्रकृतेः पूरुषाणां चेति । २.३.१३ ।।

श्रीवेदेशतीर्थ:

" तत्त्वभावेन चोभयोः" इत्येतदन्वयाप्रतीतिनिरासाय व्याचष्टे - प्रकृतेरिति ॥ प्रकृतेः पुरुषाणाञ्च" इत्यनेनोभयोरित्येतत्प्रकृतिपुरुषयोरिति व्याख्यातम् । तत्त्वं याथात्म्यं भावयति उत्पादयति । ननु यदि तत्त्वभावो विष्णुस्तदा तत्त्वभावेनास्तीत्येवोपलब्धव्य इति कथम् । विष्णोः सर्वसाधारण्येन सर्वेषामपि सदाधिक्यज्ञानप्रसङ्गादित्यतस्तदभिप्रायमाह- तत्प्रसादादिति ॥ तुशब्दोऽवधारणार्थः । तेन चशब्दो व्याख्यातः । प्रसादश्च न सर्वसाधारण इति भावः । अस्तीत्येवोपलब्धस्येत्येतद्व्याचष्टे - प्रसादश्चेति ॥ तथाविदो भगवदाधिक्यविदः । ननु पूर्वं प्रसादो भगवदाधिक्यज्ञान- साधनमित्युक्तम् । इदानीं ज्ञानं प्रसादसाधनमित्युच्यते । अतोऽन्योन्याश्रय इत्यतो व्यक्तिभेदान्नान्योन्याश्रय इति भावेनाह- अनादीति ॥ पुनः पुनर्वृद्धि- मेति प्रसादद्वारा । ननु ‘"अनादिकालादारभ्य " इति किमर्थं वक्तव्यम् । पूर्वमाधिक्यज्ञानरहितस्यापि भगवत्प्रसादात्पश्चात्तज्ज्ञानं भवतीत्येव किन्न स्यादित्यत आह- येषामिति । पश्चाज्जायमानं प्रति भगवत्प्रसादो हेतुः । स च भगवदाधिक्यज्ञानसाध्य इति पूर्वमपि तत्सद्भावोऽपेक्षितः । एवं तदपि ज्ञानं

भगवत्प्रसादसाध्यमित्यनादित्वमाश्रयणीयमिति भाव: ननु केषाञ्चिद्योग्यानां पूर्वं भगवदाधिक्यज्ञानानुपलम्भेऽपि पश्चात्तद्दर्शनात्कथ- मेतदित्यत आह- अभिभूतमिति ॥ अभिभवकृतोऽनुपलम्भ इति भावः ॥।।२.३.१३।।

श्रीवेदेशतीर्थ खण्डार्थ:

यत एवमनाधिक्यं जानतां भगवज्ज्ञानाभावः अतो भगवानस्तीत्येव सतः सर्वस्मादधिक इत्येवोपलब्धव्यः । सा चोपलब्धिर्भगवत्प्रसादादेवेत्याह- तत्त्वभावेनेति ॥ उभयोः प्रकृतिपुरुषयोस्तत्त्वं भावयतीति तत्त्वभावो विष्णुस्तेन तत्त्वभावेन प्रसन्नेन विष्णुनैवास्तीत्युपलभ्यत इति शेषः । विष्णु- प्रसादसाध्यभगवदाधिक्यज्ञानवतः फलमाह - अस्तीति ॥ भगवान् अस्ती- त्येवोपलब्धस्योपलब्धिमतस्तत्त्वभावो विष्णुर्विशेषतः प्रसीदति ।।२.३.१३॥

श्रीवरदतीर्थ:

वरद- ‘‘अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोःइति । तस्यार्थः- प्रकृतेः पुरुषाणाञ्श्चेति ॥ परमेश्वरस्यास्तित्वज्ञानस्य फलमुच्यते- अस्तीत्येबोपलब्धस्य तत्त्वभावः प्रसीदतीति ॥ उपलब्धस्येति उपलब्धिमत इत्यर्थः । प्रसादेन किं भवतीत्याह- तत्प्रसादादिति ॥ तद्विष्णोः प्रसादात् तस्य विष्णोः प्रसादात् तस्यैव विष्णोः सत्तः सर्वस्मादपि सतः, आधिक्यं ज्ञायते । तथाविदः सर्वस्मादपि सतो विष्णोराधिक्यविदः पुनरपि विष्णोः प्रसादो भवति । नन्वेवं सत्यन्योन्याश्रयत्वं स्यात् । प्रसादादाधिक्यज्ञानं भवति, आधिक्यज्ञाने सति प्रसादो भवतीत्यङ्गीकारादित्यतो नान्योन्याश्रयः व्यक्तिभेदाङ्गीकारादित्याह - अनादीति ॥ अनादिकालमारभ्य सामान्याकारेण सर्वस्मादपि विष्णोराधिक्यं जानतः पुरुषस्य प्रसादद्वारा सर्वोत्तमत्वज्ञानं पुनः पुनरभिवृद्धिमेतीति नान्योन्याश्रय इत्यर्थः । नन्वनादिकालादिति किमर्थम् ? पूर्वं सामान्याकारेण विष्णोः सर्वोत्तमत्वज्ञानरहितस्यापि पश्चात्तद्विषयज्ञानं भविष्यतीति किन्न स्यादित्यत आह- येषामिति ॥ ननु मोक्ष योग्यानां केषाञ्चित् पूर्वमसदपि विष्णोः सर्वोत्तमत्वज्ञानं पश्चादुपजायत एव अतो नायं नियम इत्यत आह- अभिभूतमिति ॥२.३.१३ ॥

श्रीवरदतीर्थखण्डार्थ:

न केवलमस्तीति ज्ञानेनालं किन्तु सर्वसृष्टिकर्तृत्वेन च ज्ञातव्यमित्याह- अस्तीत्येवोपलब्धव्य इति ॥ तद्ब्रह्मास्ति सर्वस्मादपि उत्तमः चेतनाचेतनतत्त्वभावकञ्चेत्युपलब्धव्यं ज्ञातव्यमित्यर्थः । अस्तीतिज्ञाने किं फलं भवतीत्यत आह- अस्तीति ॥ उपलब्धस्येति ॥ उपलब्धिमत इत्यर्थः । तत्त्वं भावयतीति तत्त्वभावो भगवान् ||२.३.१३।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

सेतिकर्तव्यताकश्रवणादिस्वप्रयत्नमात्रादेव नोपलभ्यते, किन्तु तज्जन्यभगवत्प्रसादादेवेति भावेन तद्धेतूक्तिपूर्वकमाह- अस्तीत्येवेति ॥ उभयोः प्रकृतिपुरुषयोः तत्त्वं प्रामाणिकत्वं प्रकृतिपुरुषभावं वा भावयति सम्पादयतीति तत्त्वभावो भगवान् तेन, तत्प्रसादेनेति यावत्, सर्वस्मादधिकतया अस्तीत्येव ज्ञातव्यः पुरुष इत्यनुषङ्गः । न तु तत्प्रसादेन विना । मुक्तिहेतुः भगवत्प्रसादश्च तत्प्रसादजन्येश्वरविषयोपलम्भादित्याह- अस्तीत्येवेति ॥ सर्वाधिकतयाऽस्तित्वादस्तीतिनामा भगवान् इत्युपलब्धस्य, कर्तरि निष्ठा, एवमुपलभमानस्य तत्त्वभावः प्रागुक्तव्युत्पत्या भगवान् प्रसीदति परमप्रसादवान् भवति ।।२.३.१३।