अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति
भगवतः अङ्गुष्ठमात्रत्वोक्तिः
उपनिषत्
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद् वै तत् ।। २.१.१२ ॥
श्रीव्यासतीर्थ:
गुहास्थितिप्रकारमेव विवृण्वन् गुणान्तरमाह - अङ्गुष्ठेति ॥ २.१.१२ ॥
वामनपण्डिताचार्य:
एवं निर्भेदानन्तगुणक्रियादिस्वरूपो भगवानङ्गुष्ठमात्रतया जीवात्मनि हृदयमध्ये तिष्ठति ।। २.१.१२ ।।
श्रीवादिराजतीर्थ:
एतत् सूर्यपदोपलक्षितसकलदेवसृष्टिसंहारकारकं भूतभव्येशानं सकलजीबहृदि अङ्गुष्ठमात्रतया स्थितं प्रागुक्तरीत्या सर्वेभ्यः पूर्वं चतुर्मुखस्यैव स्रष्टृ ब्रह्मस्वरूपं तद्वै मुक्तजीवहृदि स्थित्वा मुक्तनियामकं वै । अत्रापि वैशब्दः पूर्ववद्युक्तिसूचनार्थः । ‘“नेक्षेतोद्यन्तमादित्यम्” (म.भा. अनु. १६१. १७) इतिवत् ‘“इह नानेव पश्यति' इत्यपि मूलावताररूपादीनां भेददर्शिनो निन्दैव क्रियते, न तु भेदाभावेऽपि तात्पर्यमिति शङ्कावारणाय श्रुतिः स्वयमेव "नेह नानाऽस्ति किञ्चन " इत्याह । इह ब्रह्मणि किञ्चन अवतारावयव- धर्मादिकं नाना नानाभूतं नास्ति हीत्यर्थः । तस्मात् सूर्योदयदर्शनादीनामिव निषिद्धत्वादेव न दर्शनमात्रनिन्दा | किन्त्वविद्यमानशुक्तिरजतादिदर्शनस्य
भ्रान्तित्वेन निन्दावदियमपि मिथ्याज्ञानत्वादेव निन्देत्युक्तं भवति ॥२.१.११-१२ ॥
श्रीवरदतीर्थखण्डार्थ:
किञ्च अङ्गुष्ठमात्रः अङ्गुष्ठपरिमाणः । हृद्यवकाशापेक्षया अङ्गुष्ठमात्रत्वोक्तिः । पुरुषः पूर्णषड्गुणः आत्मनि मध्यदेहे हृद्गुहायां तिष्ठति । ईशान इत्याद्युक्तार्थम् ॥२.१.१२।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
"गुहां प्रविश्य तिष्ठन्तीम्' इत्यत्रोक्तनियामकरूपाणां नियम्य- भूतस्थानभेदप्रसक्तं भेदं निरस्य इदानीं गुहास्थस्योपासनार्थं परिमाणविशेषमाह- अङ्गुष्ठमात्र इति ॥ कथमपरिच्छिन्नस्य तन्मात्रत्वमित्यत आह- मध्य आत्मनीति ।। आत्मनो देहस्य जीवस्य वा मध्ये हृदये तिष्ठतीत्युक्त्या हृदयस्य तत्तदङ्गुष्ठपरिमितत्वात्तत्रस्थोऽपि तथोपचर्यते । स्थानैक्येन "गोष्ठे गावः एकीभूताः” इतिवदिति वा, तन्मात्रपरिमाणाभिव्यक्त्या वा तथोच्यत इति भावः । तदुक्तं सूत्रे- “हृद्यपेक्षया तु मनुष्याधिकारत्वात्' (ब्र.सू.१- ३-२५) इति । पुरुषो जीव इति भ्रमनिरासाय गुणान्तरमाह - ईशान इति ॥ भूतभव्यस्येत्यत्र द्वन्द्वैकवद्भावः । भूतभाविनोः प्रेरकः । ततः हृदयस्थस्य प्रेरकत्वादेव तज्ज्ञानी न विजुगुप्सते आत्मानं गोप्तुं नेच्छति । आत्मरक्षार्थं न प्रयतते । एतद्वै तत् त्वया पृष्टं वस्तु एतद्वै । यदेवेहेत्यादिनोक्तगुणकं वै इति ।। ।।२.१.१२।।