यदेवेह तदमुत्र यदमुत्र तदन्विह

भगवत्स्वरूपेषु भेदाभेदचिन्तनमनर्थप्रदम्

उपनिषत्

यदेवेह तदमुत्र यदमुत्र तदन्विह । ॥२.१.९।।

मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ।। २.१.१०॥

भाष्यम्

यः प्रादुर्भावो विष्णुर्देहादिषु च संस्थितः ।

स एव मूलरूपश्च साक्षान्नारायणाभिधः ||

मूलरूपश्च यो विष्णुः प्रादुर्भावादिकच सः ।

गुणतः स्वरूपतो वाऽपि विशेषं योऽत्र पश्यति ॥

अत्यल्पमपि मृत्वा स तमोऽन्धं यात्यसंशयम् ।

भेदाभेदविदश्वात्र तमो यान्ति न संशयः ॥

तथैवावयवानां च गुणानां च परस्परम् ।

क्रियाणां तेन चैतेषां भेदविच्चोभयं विदुः ॥

यान्त्येवान्धन्तमो नात्र कार्या काचिद्विचारणा ।।

इति च ॥२.१.१०॥

श्रीव्यासतीर्थ:

"गुहां प्रविश्य तिष्ठन्तीम्" इत्यत्र ब्रह्मादिभूतनियामकत्वेनात्मानं भूतेभिर्भूतैः सह व्यजायत जनयामासेत्युक्तं तत्र मूलरूपादवताररूपाणां भेदो नास्तीत्याह- यदेवेहेति ॥ उक्तं भेदाभावं भेददर्शिनो भेदाभेददर्शिनश्च अनर्थोक्त्या समर्थयते- मृत्योरिति ॥ २.१.१० ॥

व्या.भा- ‘“यदेवेह’” इत्येतद्यदस्मिन् शरीरे चैतन्यं तदेवामुत्र परदेहेऽपि इत्यन्यथाप्रतीतिं निवारयन्त्र्याचष्टे - य इत्यादिना ॥मृत्योः स मृत्युम्इत्यादि पुनः पुनः जायते म्रियते चेति प्रतीतिं निवारयन् व्याचष्टे - गुणत इति ॥ अनेन "नेह नाना" इति व्याख्यातं भवति । इवशब्दार्थमाह- अत्यल्पमपीति ।। इवशब्दस्यार्थान्तरमाह - भेदाभेदेति । अत्र भगवति तद्रूपेषु च । करचरणाद्यवयवादीनां भेदभेदाभेददर्शिनोऽनर्थकथनंमृत्योः स मृत्युं गच्छति’” इति । तद्व्याचष्टे- तथैवेति ।। २.१.१० ॥

वामनपण्डिताचार्य:

ननु तदंशानां मत्स्यादीनां केवलतात्कालिकत्वात् भूतभव्येशानत्वं न युक्तमित्याशङ्कचाह- यदेवेति । अस्य वाक्यस्याभिप्रायं यः प्रादुर्भावगः " इत्यादिना महावराहवचनेन व्यक्तं वक्ति । यदेव अत्र प्रादुर्भावादिरूपं विष्णोः तदेवामुत्र क्षीरसमुद्रादिगतमूलरूपम् । यच्च तन्मूलरूपं तदेवात्राप्यनु- वृत्तम् । नाणुरप्यनयोर्भेद इत्यर्थः ।गुणतःइत्यादिना ‘“मृत्योः स मृत्युम्इत्यादेरभिप्रायमाह । य इह भगवतो रूपेषु गुणेषु वा नाना पश्यति

सर्वप्रकारेण भेदं पश्यति, इवशब्दादत्यल्पमेव वा भेदं पश्यति ।विशेषं योऽत्र पश्यति' इत्यत्रापि भेदं पश्यतीत्यभिप्रेतत्वात् । स उक्तभेददृक् मृत्यनन्तरं मृत्युनामकमन्धन्तमो याति । इवशब्दस्यार्थान्तरमप्याह भेदाभेदं च यः पश्यति सोऽपि तथा तमो याति । एवं तावदनन्तानां भगवद्रूपाणां न कश्चिद् भेद इत्युक्तम् ।। २.१.१० ॥

श्रीवेदेशतीर्थ:

मायावादिनस्तु यदेवेत्यादिकमेवं व्याचक्षते । ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधिवशादब्रह्मवदवभासमानं संसारि परस्मात् ब्रह्मणोऽन्यदिति शङ्कापरिहारार्थमाह- यदेवेति || यदेवेह कार्यकारणोपाधिसमन्वितं संसार- धर्मवदवभासमानं स्वात्मस्थं तदमुत्र नित्यं विज्ञानघनस्वभावं संसारधर्मवर्जितं ब्रह्म यच्चामुत्रामुष्मिन्नात्मनि स्थितं तदेवेह नामरूपकार्यकारणोपाधि- मननुभाव्यमानं नान्यत् । तत्रैवं सत्यविद्यया मोहितः सन् य इह ब्रह्मणि अनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यति स मृत्योः मृत्युं पुनर्जन्म मरणभावमाप्नोति । तस्मात्तथा न पश्येत् । विज्ञानैकरसं ब्रह्मैवाहमिति पश्येदिति वाक्यार्थः । प्रागेकत्वविज्ञानादाचार्यागमसंस्कृतेन मनसेदं ब्रह्माप्तव्यम् । आत्मैवास्ति नान्यदस्तीति आप्ते तु नानात्व- प्रत्युपस्थापिकाया अविद्याया निवृत्तत्वादिह ब्रह्मणि नाना नास्ति । किञ्च नाणुमात्रमपि वस्तु । य इह नानेव पश्यति स मृत्योः मृत्युं गच्छत्येव स्वयमपि भेदमध्यारोपयन्नित्यर्थं इति । तदसत् । चैतन्यैक्यस्याप्रामाणिकत्वात् प्रमाणविरुद्धत्वाचेति भावेन श्रुतिव्याख्यानरूपं प्रमाणमेवोदाहरति य इति ॥ अनेन ‘“यदेवेह तदमुत्रइत्येतव्याख्यातम् । " प्रादुर्भावगःइत्यनेनेहेत्यस्य भूम्यादावित्यर्थो वक्तव्य इति सूचितम् । तस्यैवार्थान्तरम् - देहादिषु चेति ॥ स एवेत्युक्त्या श्रुतावेवकारो भिन्नक्रम इत्युक्तं भवति । चशब्दोऽवधारणार्थः । साक्षादित्यनेन सम्बध्यते । " यदमुत्र तदन्विह" इत्येतत् व्याचष्टे- मूलरूपश्चेति ।। आद्यश्चशब्दः प्रकृतत्वानुसन्धानार्थः, द्वितीयोऽवधारणार्थः स इत्यनेन सम्बध्यते । नन्ववतारादिरूपस्य मूलरूपाभेदे मूलरूपस्यावतारा- भेदः सिद्ध एव । नहि यद्येनाभिन्नं तत्तेन भिन्नमिति शङ्कार्हम् । अतो " यदमुत्र तदन्विह'" इत्येतद्व्यर्थमिति चेन्न । तथा सति त्वत्पक्षेऽपि वैयर्थ्यापातात् । सङ्घातस्य चैतन्यस्य निर्विशेषचैतन्याभेदे निर्विशेषचैतन्यस्यापि तदभेदस्य सिद्धत्वात् । अस्मत्पक्षे तु इन्द्रार्जुनादिवत्सर्वविशेषाभावज्ञापनार्थत्वेन सार्थक्यात् । अत एवात्यल्पविशेषदर्शिनामप्यनर्थः कथ्यतेमृत्योः स मृत्युम्इत्युंत्तरवाक्येनेति भावेन तद्वाक्यं व्याचष्टे - गुणत इति ॥ नानेत्यस्यार्थः- विशेषमिति ।।क्वचिदन्तरशब्दश्च विशेषस्यैव वाचकःइति नानाशब्द- पर्यायान्तरशब्दस्य विशेषवाचकत्वस्मरणात् । गुणतः स्वरूपत इत्यस्य योग्यतया सम्बन्धः । इवशब्दार्थ:- अत्यल्पमिति ॥ अनेन परमते इव शब्दो व्यर्थः स्यादित्युक्तं भवति । अपिशब्देनाधिकविशेषदर्शिनस्तमो यान्तीति किं वक्तव्यमिति सूचयति । मृत्योर्मृत्युमित्यस्य तात्पर्यम्- तमोऽन्धमिति ॥ पुनर्जन्ममरणभावमात्रस्य मिथ्याज्ञानफलत्वायोगात् । एवं यदेवेहेत्यनेना-

वतारादिरूपस्य मूलरूपस्य च विशेषशून्यतयाऽत्यन्ताभेदेऽभिहिते किमत्यन्ताभेदेन भेदाभेदः किन्न स्यादित्यतस्तज्ज्ञानिनामनर्थोक्तेरिति भावेन भेदाभेदज्ञानिनामनर्थोक्तिपरतयापिमृत्योः स मृत्युम्' ं इति वाक्यं व्याचष्टे- भेदेति ।। नानेवेत्यस्यार्थः- भेदाभेदेति ।। अत्रावतारमूलरूपयोः । इदानींमृत्योः स मृत्युं गच्छति" इति वाक्यं व्याचष्टे - तथैवेति । यथा स्वरूपेषु भेदाभेददर्शिनस्तमःप्राप्तिस्तथैवेत्यर्थः अनेन नानेवेति इवशब्द उपमार्थतयापि व्याख्यातः । तेन विष्णुना एतेषामत्रयवादीनां भेदविच्चेत्यनेन ‘“एवं धर्मान् पृथक्पश्यन्इत्येतदुक्तार्थम् । उभयविदः भेदाभेदविदः ।।२.१.१० ।।

श्रीवेदेशतीर्थखण्डार्थ:

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिः व्यपश्यत” “गुहां प्रविश्य तिष्ठन्तीं या भूतेभिः व्यजायत" इत्यनेन भगवद्रूपाणां भगवता सह भेदप्राप्तावाह - यदेवेति ॥ इह भूम्यादौ देहादौ च यद्रूपं वर्तते तदेवामुत्र वैकुण्ठादावप्यस्ति । अभेदेऽपि इन्द्रार्जुनादाविव ज्ञानादौ विशेषो न मन्तव्य इति भावेनाह- यदमुत्रेति । यद्रूपं वैकुण्ठादावस्ति । तदेव भूम्यादावस्ति । न तत्र ज्ञानादावत्यल्पेऽपि विशेषो ज्ञेय इति भावः । कुतो न ज्ञेय इत्यतस्तज्ज्ञानिनामनर्थमाह- मृत्योरिति ॥ य इह मूलरूपावताररूपादी नानेव अत्यल्पमपि विशेषं पश्यति स मृत्योरनन्तरं मृत्युं नरकमन्धन्तमः प्राप्नोति । "यदेवेह तदमुत्र" इतिभगवद्रूपाणामत्यन्ताभेदोक्तिरयुक्ता । भेदाभेदस्यापि सम्भवादित्यतो भगवत्स्वरूपेषु भेदाभेदनिषेधाय तद्दर्शिनां वानर्थमाह- मृत्योरिति ॥ य इह भगवत्स्वरूपेषु । नानेव नानाशब्दो भेदवाची ।मुक्तोपसृप्यव्यपदेशात् " (ब्र.सू.१.३.२ ) इत्यादाविव भावप्रधानत्वात् । इवशब्दस्तु तद्विरुद्धाभेदाभिधायकः । तस्य यद्वाचकशब्द- शिरस्कत्वं तद्विरुद्धाभिधायकत्वस्वाभाव्यात् । तथाच भेदाभेदं पश्यति । स मृत्योर्मृत्युं तमः प्राप्नोति । अतो न तत्र भेदाभेद इत्यर्थः ।। २.१.१० ॥

श्रीवरदतीर्थ:

वरद - " या भूतेभिर्व्यजायत" इत्यनेन भगवतो नानारूपेण सृष्टिकर्तृत्व-. मुक्तम् । न च तेषां रूपाणां परस्परभेदः शङ्कनीय इत्युच्यते - यदेवेह तदमुत्र इत्यादिना ॥ तद्व्याचष्टे- य इति । गुणतः स्वरूपत इति अस्य रूपस्यायं गुणोऽस्ति अस्य तु नास्तीति विशेषं पश्यति रूपयोरेव वा विशेषं भेदं पश्यतीत्यर्थः ।। २.१.१० ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

पूर्वं " गुहां प्रविश्य तिष्ठन्तीम्" इत्यत्र उक्त मत्स्याद्यवताराणां ब्रह्मादिभूतप्रेरकाणां मूलरूपेण गुणकर्मादिना वा भेदो भेदाभेदो वा नेति महिमान्तरमाह - यदेवेति । इह देहादिषु यदेवावतारजातमस्ति तदेवामुत्र बैकुण्ठादिलोकेषु मूलरूपतया आस्ते । तयोः कश्चिदपि भेदो नास्ति । इन्द्रार्जुनादाविवावान्तरविशेषोऽपि नेति भावेनाह- यदमुत्रेति ॥ यदमुत्र मूलरूपमस्ति तदनु तदेवेह देहादिषु स्थितमवतारजातम् । गुणतः स्वरूपतो वा नाणुमात्रं विशेषोऽस्तीति भावः । एतच्चोपलक्षणम् । इहस्थानामपि रूपाणां नियम्याख्यस्थानभेदेऽपि न भेद इत्यपि ध्येयम् । तथा च सूत्रम्- ‘‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि” (ब्र.सू.३.२.११) इति । कुत एतदित्यतस्तथा पश्यतोऽनर्थस्य सद्भावादित्याह - मृत्योरिति ॥ य इह भगवन्मूलरूपावताररूपेषु नाना, भावप्रधानम्, नानात्वं भेदम्, इवशब्दाद् भेदाभेदं वा पश्यति जानाति स मृत्योः मारकात् मृत्युं मरणं तमोलक्षणं प्राप्नोति ॥ २.१.१०

Load More