यः सेतुरीजानानामक्षरं ब्रह्म यत् परम्
अग्निस्थितो भगवान् मुक्तस्थितो भगवानेक एव
उपनिषत्
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥ १.३.२ ॥
भाष्यम्
.................................मर्यादा विष्णुयाजिनाम् ।
संसारस्य च पारस्थस्स विष्णुर्द्धिस्वरूपकः ॥ १.३.२ ॥
श्रीव्यासतीर्थ:
भगवद्ध्यानस्याहत्य साधनं किमित्यतो भगवन्तं स्तुवन् तद्वक्तुं शक्रम इत्याह- यस्सेतुरिति ॥ सेतुत्वादिगुणकं ध्यातुं साधनं वक्तुं शक्नुम इत्यर्थः ।। १.३.२ ।।
व्या.भा- ‘‘यः सेतुरीजानानाम्" इत्येतद्व्याचष्टे - मर्यादेति ।। १.३.२ ।।
टीका- मर्यादा इत्यादिना यः सेतुः इत्यादेरभिप्रायमाह । अत्र एकवचनेन परब्रह्मत्वादिभिश्च विशेषणात् विष्णुरेव पिबन्ताविति भावः । संसारनदीं तितीर्षतां अभयं पारं विष्ण्वारूपं ब्रह्म । एवं सङ्ग्रहेणोक्तं नाचिकेताग्निस्थं हरिं किञ्चिद्विस्तरेण च वक्तुं वयं तथा किञ्चित् शक्नुमः । नहि श्रोतुं शक्नोषीत्युपरम्यते ।। १.३.२ ॥
"
श्रीवादिराजतीर्थ:
ईजानानां ‘“एजृ कम्पने ” इति धातोः पापाद्भीतानां भक्तिनम्रतया विष्णुयाजिनां सेतुर्मर्यादा आधार इति यावत् । नाचिकेतं नाचिकेताग्निस्थं तं परमात्मानं शकेम वक्तुं शक्नुमः । त्वं सि असि, त्वं श्रोतुं शक्नोषीत्यर्थः । नेदमपूर्वम् । ‘“तव वयं स्मः, त्वमस्माकमसि” इत्यैतरेयोपनिषदिस्थं प्रागुक्त्वा “ तदप्येतदृषिणोक्तम्, त्वमस्माकं तव स्मसि" इति तदुत्तरवाक्येऽस्यार्थस्य स्पष्टीकृतत्वात् । अन्यथा शंकेमेत्येतावतैव पूर्तेः सीति व्यर्थं स्यादिति ज्ञेयम् ।। १.३.२ ।।
श्रीवेदेशतीर्थ:
किञ्च “यस्सेतुः” इति पिबतोरेकवचनेन विशेषणादेक एव पाता । अत एव श्रुतौ द्विवचनप्रयोगेऽपि भाष्ये एकवचनप्रयोगः । स च याजकसेतुत्वादिविशेषणाच्च विष्णुरिति भावेन यः सेतुरीजानानाम्” इति वाक्यं सर्वेषां याजिनामित्यन्यथाप्रतीतिनिरासाय व्याचष्टे - मर्यादेति ॥ स द्विस्वरूपको विष्णुर्विष्णुमुद्दिश्य याजिनां मर्यादा आश्रय इत्यर्थः । एतेन यत्परैरुक्तं यः सेतुरीजानानां तं नाचिकेतमग्निं यच्चाक्षरं परं ब्रह्माभयं पारं संसारपारं तीतिर्षतामाश्रयश्च तच शकेमसि परापरब्रह्मणी कर्मब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थ इति तदपि परास्तम् । यः सेतुरीजानानां यच्चाक्षरं परं ब्रह्म तं नाचिकेतमग्निं शकेमसीत्येकवाक्यत्वसम्भवे वाक्यभेदाश्रयणायोगात् । त्वत्पक्षे जीवेश्वरस्वरूपनिरूपणावसरेऽग्निस्वरूपनिरूपणस्यासङ्गतत्वाच्च । अपरब्रह्मभूताग्नेः कर्मविदाश्रयस्य ज्ञातव्यत्वस्य प्रागेवोक्तत्वाच्चेति । संसारपारं तितीर्षतामिति व्याख्यानमसत् । पारमित्यस्य पृथग्विशेषणत्वे गुणान्तरलाभात् । मुमुक्षूणां संसारपारमोक्षतितीर्षाया अभावाच्चेतिभावेन पारमित्येतत्सोपस्करं व्याचष्टे- संसारस्येति || संसारस्य पारो मोक्षस्तस्मिंस्तिष्ठतीत्यर्थः ।। १.३.२ ॥
श्रीवेदेशतीर्थखण्डार्थ:
यत्पूर्वं ‘‘अनन्तलोकाप्तिम्'' इत्यादिना अग्निस्थभगवत्स्वरूपमुक्तं यच्च ‘‘ओमित्येतत्’” इत्यादिना मुक्तनियामकभगवत्स्वरूपमुक्तं तदुभयमेकमेव तद्ध्याने चाहमेवाधिकारीत्याह - यः सेतुरिति ॥ यः पूर्वोक्तो द्विरूपको विष्णुरीजानानां विष्णुयाजिनां सेतुर्मर्यादा यच्च संसारभयं तितीर्षतामभयं अभयप्रदं पारं संसारस्थं मुक्तनियामकमितियावत् । अक्षरं परं ब्रह्म तं नाचिकेतमग्निं अग्निस्थं भगवन्तं शकेमसि ध्यातुं शक्ताः स्मः ।। १.३.२ ।।
श्रीवरदतीर्थखण्डार्थ:
तस्य महिमानमाह- यस्सेतुरिति ॥ " नाचिकेतं शकेमसि " इति नाचिकेताग्निस्थितं हरिं ज्ञातुं शक्तोऽस्मीत्यर्थः ।। १.३.२ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
धानस्याभ्यर्हितं प्रत्याहाररूपं साधनं “ विज्ञानसारथिः’” इत्यादिना विवक्षुः भगवन्तं स्तुवन् प्रतिजानीते - यः सेतुरिति ॥ ईजानानाम्, यजतेः कानच् सम्प्रसारणम्, विष्णुयाजिनां यः सेतुः मर्यादा तदक्षरं ब्रह्म परं उत्तमं तितीर्षतां संसारार्णवं तर्तुमिच्छतां अभयं पारं अभयप्रदं तीरम् ध्यातुं नाचिकेतं नचिकेतसं प्रति साधनं वक्तुं शकेमसि शक्नुम इति योज्यम् । “शक्त शक्तौ’' शब्विकरणं छान्दसम् । “ इदन्तो मसि' (सि. कौ. ३५६८) इति मसिः ।।