यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह
धारणादिरूपं ध्यानं परमज्ञानसाधनम्
उपनिषत्
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्व न विचेष्टति 'तामाहुः परमां गतिम् ॥
श्रीव्यासतीर्थ:
व्या- तत्राभ्यर्हितं साधनं किमित्यतः प्रत्याहारसिद्धं धारणादिरूपं ध्यानमेवेत्याह- यदेति ॥ ज्ञानानि ज्ञानकारणानि । परमां गतिं परमज्ञानसाधनम् ।।२.३.१०॥
श्रीवादिराजतीर्थ:
"अवतिष्ठन्ते', अव बहिर्विषयान् त्यक्त्वा अन्तरेव भगवद्ध्याना- नुकूलतया तिष्ठन्तीत्यर्थः । " ष्ठा गतिनिवृत्तौ ” इति धातुः ॥ २.३.१० ।।
श्रीवेदेशतीर्थखण्डार्थ:
‘हृदा मनीषा मनसाभिक्लृप्तः” इत्युक्तभक्त्यादावप्रमत्तेन भवितव्यमिति भावेनाप्रमत्तः कदा भवेदित्याकाङ्क्षायामिन्द्रियनियमनावस्था- यामेवेत्याह- यदेति । यदा ज्ञानानि ज्ञानसाधनानि पञ्चेन्द्रियाणि चक्षुरादीनि मनसा सहावतिष्ठन्ते । न विषयाभिद्रवणं कुर्वन्ति । बुद्धिश्च न स्वविषये विचेष्टते । अप्रमत्तस्तदा भवतीति योज्यम् । इन्द्रियधारणां स्तौति- तामिति ॥ तामिन्द्रियधारणां परमगतिसाधनत्वात्परमां गतिमाहुः ।। ।।२.३.१०।।
श्रीवरदतीर्थखण्डार्थ:
ज्ञानस्यावान्तरसाधनमाह - यदेति । यदा यस्यामवस्थायां पञ्चज्ञानानि पञ्चज्ञानेन्द्रियाणि मनसा सहावतिष्ठन्ते एवं स्थितान्येव भवन्ति । नतु विषयाभिद्रवणं कुर्वन्ति । बुद्धिश्च न विचेष्टति न स्वविषयं प्रति चेष्टते । तामवस्थां परमज्ञानसाधनत्वात् परमगतिमाहुः ।।२.३.१०।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
हृदा मनसेत्यत्र हृदेत्युक्तसाधनेषु अभ्यर्हितं ज्ञानसाधनं किमित्यतः प्रत्याहारसिद्धधारणादिरूपं ध्यानमित्याह - यदेति ॥ ज्ञानानि, करणे ल्युट्, ज्ञानसाधनानि चक्षुरादिपञ्चेन्द्रियाणि मनसा सह यदाऽवतिष्ठन्ते विषयेभ्यः व्यावृत्ततया तिष्ठन्ति, बुद्धिश्च न विचेष्टते विषयान् प्रति न प्रवर्तते, तं सप्तानामिन्द्रियाणां विषयेभ्यः प्रत्याहारं परमां गतिं परमसाधनं ज्ञानस्याऽहुरित्यर्थः । तामिति पाठे गत्यपेक्षया स्त्रीलिङ्गत्वम् ।। २.३.१०॥