अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्

नश्वरेषु स्थितस्यापि भगवतः अनश्वरत्वकथनम्

उपनिषत्

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १.२.२२।।

श्रीव्यासतीर्थ:

अनवस्थेषु नश्वरेषु ॥ १.२.२२।।

वामनपण्डिताचार्य:

अवस्थानशक्तिरहितेष्ववस्थापकत्वेनावस्थितम् ॥१.२.२२॥

श्रीवेदेशतीर्थखण्डार्थ:

अशरीरं प्राकृतशरीरशून्यं अनवस्थेषु नश्वरेष्वपि शरीरेषु अवस्थितं महान्तं विभुं व्याप्तमात्मानं धीरो मत्वा न शोचति ॥ १.२.२२ ।।

श्रीवरदतीर्थखण्डार्थ:

अशरीरं स्वयं शरीररहितम् । अनवस्थेषु अनित्येषु शरीरेष्ववस्थितं आत्मानं मत्वा न शोचति ॥ १.२.२२।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

पुनस्तन्महिमोक्तिपूर्वकं तज्ज्ञानिनः फलमाह - अशरीरमिति ॥ अनवस्थेषु नश्वरेषु शरीरेषु प्राणिदेहेषु अशरीरं तच्छरीरनिमित्तकविकार- रहिततयाऽवस्थितं महान्तं देशकालगुणतो महान्तं विभुं समर्थमात्मानं स्वामिनं मत्वा धीरो न शोचति मुक्तो भवति ॥ १.२.२२ ।।