सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति
बुद्ध्यारोहार्थं सङ्ग्रहेण यमकृतः भगवदुपदेशः
उपनिषत्
सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत ते पदं सङ्ग्रहेण ब्रवीमि ॥ ओमित्येतत् ॥ ।।१.२.१५ ।।
श्रीव्यासतीर्थ:
पृष्टं ब्रह्मस्वरूपं निरूपयितुं प्रतिजानीते - सर्व इति ॥ सर्वाणि तपांसि च यत्प्रतिवदन्ति ॥ १.२.१५ ।।
वामनपण्डिताचार्य:
‘“सर्वे वेदाः” इत्यादिना तत्स्वरूपलक्षणमेव तस्मै स वक्ति । पदं स्वरूपम् । तपांसि युक्तयः । ओमितिनामकं एतत् ॥ १.२.१५ ।।
श्रीवादिराजतीर्थ:
वादि- ‘“सर्वे वेदा यत्पदमामनन्ति” इति वदता वेदे अग्निवैश्वानर- हिरण्यगर्भरुद्रेन्द्रविश्वकर्मादीनां बहुधा निरूपणात् कथमेकस्य सर्वोत्तमत्वमिति शङ्का परिहृता । अग्न्यादिशब्दैरपि वेदा विष्णुमेव वदन्तीति भावः । अन्यथा सृष्ट्युत्तरकालीनानेतान् सृष्टेः प्रागपि विद्यमाना वेदाः कथं ब्रूयुः ? तर्ह्यग्र्यादिदेवानां यज्ञादिकर्मणां चाप्रामाणिकत्वप्रसङ्ग इति शङ्कानिवारणायोक्तं आ सम्यक् मनन्ति वदन्तीति । सृष्टयुत्तरकालमग्न्यादिस्वनामानि स्वनामधारकेषु तेषु दत्त्वा अमुख्यया वृत्त्या तानपि वेदैर्वाचयतीति ज्ञेयम् । श्रुतिगीतायां "क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेनिगमः " तदुक्तं ( भाग. १०.९४.१५) इति । ब्रह्मचर्यं ब्रह्मणो वेदस्य चर्यं श्रवणमननादि- रूपमाचरणं चरन्तीत्यर्थः । ब्रह्मस्वरूपस्यालं वक्तुमशक्यत्वात्सङ्ग्रहेणेत्युक्तम् ॥ ।। १.२.१५ ॥
श्रीवेदेशतीर्थखण्डार्थ:
एवं प्रार्थितो यमो बुद्ध्यारोहार्थं सङ्ग्रहेण भगवत्स्वरूपवचनं प्रतिजानीते - सर्व इति ॥ सङ्ग्रहेण कथनस्यानुपादेयताशङ्कापरिहाराय “सर्वे वेदाः” इत्याद्युक्तम् । सर्वे वेदा ऋगाद्या यत्पदं यस्य स्वरूपं आमनन्ति तपांसि च यत्प्रतिवदन्ति वेदाः, यज्ज्ञानमिच्छन्तो ब्रह्मचर्यं गुरुकुलवासादिरूपं गुह्येन्द्रियनियमनं वा चरन्ति तत्पदं भगवत्स्वरूपं ते तव सङ्ग्रहेण ब्रवीमि । एवं प्रतिज्ञातं भगवत्स्वरूपमुपदिशति - ओमित्येतदिति । एतत् त्वया पृष्टं भगवत्स्वरूपं ओं गुणपूर्णत्वादनामकमित्युपासीतेति शेषः । उपदेशसमाप्तौ वा इतिशब्दः । अन्यथाभावनिवृत्त्यर्थं वा । " इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः” : " (छा. भा. १.८) इत्युक्तेः ॥ १.२.१५ ॥
श्रीवरदतीर्थखण्डार्थ:
बरद. खं- ब्रह्मोपदेशार्थं प्रतिजानीते यमः सर्वे वेदा इति ॥ सर्वाणि तपांसि यत् ब्रह्म प्रति कर्तव्यमिति वदन्तीत्यर्थः ॥ १.२.१५।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
पृष्टं ब्रह्मस्वरूपं वक्तुं तन्महिमोक्तिपूर्वकं प्रतिजानीते - सर्व इति ॥ आमनन्ति मुख्यवृत्त्या बोधयन्ति । यत्पदं यस्य स्वरूपम् । यत् प्रति यदुद्दिश्य यत्प्रीत्यर्थं सर्वाणि तपांसि कर्माणि वेदाः वदन्ति, यदिच्छन्तो यत्प्रीति- मिच्छन्तो महान्तः ब्रह्मचर्यं ब्रह्मगोचरश्रवणादिकं ऊर्ध्वरेतस्त्वादिव्रतं वा चरन्ति अनुतिष्ठन्ति तत्पदं ते तुभ्यं सङ्ग्रहेण सङ्क्षेपेण ब्रवीमीति । एवमुक्तो नचिकेता आह- ओमित्येतदिति ॥ एतत् त्वया ब्रवीमीति प्रतिज्ञातं ब्रह्मस्वरूपम्, इति ‘“सर्वे वेदाः" इति त्वदुक्तप्रकारेण ओम्, भवत्येवे- त्यङ्गीकारार्थ ओङ्कारः । यद्वा तत्पदमित्युक्तं पदं किमित्यत उक्तम् - ओमिति ॥ एतत्पदं ओमित्युच्यत इत्यर्थः ॥१.२.१५॥