एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते

योग्यानामेव भगवद्दर्शनम्

उपनिषत्

एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते ।

दृश्यते त्वग्र्याया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।। १.३.१२ ॥

श्रीव्यासतीर्थ:

व्यास - सर्वगः कश्चिदस्ति चेत्कस्मात्स न दृश्यत इत्यत आह- एष इति ॥ न दृश्यते चेदलं तद्दर्शनार्थं प्रयासेनेत्यत आह- दृश्यत इति ॥ १.३.१२ ॥

वामनपण्डिताचार्य:

एष आत्मा प्रकृत्या गूढः । अप्राकृतबुद्ध्या गृह्यते ॥ १.३.१२ ॥

श्रीवेदेशतीर्थखण्डार्थ:

"सुकृतस्य लोके" इति भगवतः शरीरस्थत्वमुक्तम् । तर्हि जीववत्कुतो न दृश्यत इति चेन्न । किं सर्वेषां दर्शनमापाद्यते उत योग्यानामेव । आद्य आह- एष इति । द्वितीये त्वाह- दृश्यत इति ।। अग्र्यत्वमेव विशदयति- सूक्ष्मयेति ।। सूक्ष्मवस्तुविषयया ।। १.३.१२ ॥

श्रीवरदतीर्थखण्डार्थ:

पुरुषस्य माहात्म्यमाह - एष इति । य एष पुरुषशब्दोक्त आत्मा स सर्वेषु जीवेषु भूतनामकेषु वर्तते । तर्हि दृश्येतेत्यत आह- गूढ इति ॥ परमात्मा न प्रकाशते चेदनिर्मोक्ष इत्यत आह- दृश्यत इति ॥ १.३.१२ ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

एवंविधः कश्चिदस्ति चेत् कुतो नोपलभ्यत इत्यत आह- एष इति । गूढोऽत्मा अन्तर्हितस्वरूपः सन् न प्रकाशते । तर्हि किं दर्शनार्थं प्रयत्नेनेत्यत उक्तम्- दृश्यत इति ॥ तुः भगवत्प्रसादरूपहेतुद्योतकः । अग्र्ययां श्रवणादिजनितया भगवत्प्रसादसध्रीचीनया सूक्ष्मया बुद्ध्या सूक्ष्मदर्शिभि- र्दृश्यत इत्यर्थः ।। १.३.१२ ॥