आत्मानं रथिनं विद्धि शरीरं रथमेव च
इन्द्रियनियमनमवश्यं सम्पाद्यमित्युपदेशः
उपनिषत्
आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।। १.३.३ ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।। १.३.४ ॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ।। १.३.५ ॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ।। १.३.६ ॥
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत् पदमाप्नोति संसारं चाधिगच्छति ।। १.३.७॥
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ।। १.३.८॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान् नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ १.३.९ ॥
श्रीव्यासतीर्थ:
अभ्यर्हितं प्रत्याहारं निरूपयति- आत्मानमित्यादिना ॥ प्रग्रहं दाम ।। १.३.३ ।।
अश्वादीनां ग्रामादीनिव तेषु तेषां गोचरान्विषयानाहुः । आत्मा आत्मानम् ।। १.३.४ ॥
सन्त्वात्मादयो रथ्यादिरूपाः । तथाच किमित्यत आह- य इति ।। विज्ञानवान् बुद्धियुतः ।। १.३.६ ।।
ध्यानस्य प्रत्याहारोऽभ्यर्हितं साधनं कुत इत्यतस्तद्रहितस्य तद्वतश्च क्रमेणानर्थफले आह- यस्त्वित्यादिना । १.३.७-८ ॥ " स तु तत्पदम्" इति तच्छब्देनोक्तं किमित्यत आह - विज्ञानेति ॥ ।। १.३.९ ॥
वामनपण्डिताचार्य:
अथ यथाश्रुतस्य ध्यानप्रकारमपि सङ्ग्रहेण वक्तुमुपक्रमते- आत्मानमिति ।। उपासकजीवो रथिवत् अध्यवसायगामी स्यादित्यर्थः ।। ।। १.३.३ ।।
स्वरूपभूतैरिन्द्रियैर्मनसा च ध्यानयोगे संस्थितं नित्यसुखभोक्तेत्याहुः || ४ ||
तस्य च योगस्यार्थे विशिष्टज्ञानादिनेन्द्रियाणां स्वावश्येन भाव्यम् ।
अविज्ञानवतो नित्याशुचेर्योगाभावात् तत् विष्णुपदं नाप्नोति ॥। १.३.५-७ ।।
यस्मात् यत्प्राप्तिनिमित्तात् भूयो न जायते ।। १.३.८ ॥
एतदेव विशिनष्टि - विज्ञानेति |
विज्ञानसारथिः बुद्धिसारथिः ।
संसाराध्वनः पारं विष्णुपदम् ॥१.३.९ ॥
श्रीवादिराजतीर्थ:
वादि- 'आत्मेन्द्रियमनोयुक्तम्" इत्यत्र आत्मेन्द्रियमनोभिः, "आत्मा देहे धृतौ यत्ने’” इत्यनुशासनात् आत्मशब्दवाच्यरथभूतदेहेन इन्द्रियाख्याश्वैः प्रग्रहरूपमनसा च युक्तं रथिनं जीवं भोक्तारं विद्धीत्यर्थः । भवतु भोक्ता जीवः प्रकृते किमित्यतो मनोजयरहितानामकुशलतां मनोजयवतः कुशलतां मन्त्रद्वयेन प्राक् प्रदर्श्य पुनर्मन्त्रद्वयेन मनोजयरहितो ज्ञानी इन्द्रियजयशक्त्यभावा- दिन्द्रियलालसो भूत्वा संसार एव क्लिश्यते । परमात्मज्ञानबलेन मनोजयवांस्तु इन्द्रियाणि विषयेभ्य उपसंहृत्य परमात्मानं ध्यात्वाऽपुनरावृत्ति- स्थानमाप्नोतीति भावेन तयोरुभयोरपि योग्यं फलमाह - यस्त्वित्यादिना ॥ स तु तत्पदमाप्नोतीत्यत्र पदं विष्णुपदमेव, न तु रुद्रादिपदम् । मुक्तिश्च "
विष्णुपदप्राप्तिरेव न तु तदैक्यमिति भावेनाऽह - विज्ञानेति ॥ “भेजे खगेन्द्रध्वजपादमूलम्’’(भाग १.१८.१६) इति हि स्मृतिः । “यस्माद्भूयो न जायते” ‘‘सोऽध्वनः पारमाप्नोति" इति वदताऽयमेव परमो मोक्षो, न तु पुनरितोऽन्यः कोऽपि परमो मोक्षोऽस्तीति च सूचितः ।। १.३.३ ९ ।।
श्रीवेदेशतीर्थखण्डार्थ:
इन्द्रियनियमनमवश्यं सम्पाद्यमिति वक्तुं तदुपयुक्तत्वेन किञ्चिदुपदिशति - आत्मानमिति ॥ आत्मानं शरीरिणमेव रथिनं रथस्वामिनं विद्धि, शरीरं तु रथं विद्धि, अश्वस्थानीयैरिन्द्रियैर्विकृष्यमाणत्वात् । बुद्धिं तु तु सारथिं विद्धि शरीरप्रवर्तकत्वात्, बुद्ध्या विचार्य हि किञ्चित्करोति । मनः प्रग्रहमेव रशनामेव विद्धि । चशब्दस्तुशब्दार्थः । मनसा प्रगृहीतानां श्रोत्रादीनां प्रवर्तनात् ॥ १.३.३ ।।
इन्द्रियाणि हयानाहुः शरीराख्यरथाकर्षकत्वात् । तेषु तेषामिन्द्रियाणां गोचरान् शब्दादीन् विषयान् । अश्वसञ्चारदेशानहुः तेष्विन्द्रियाणां सञ्चारात् । सन्त्वात्मादयो रथ्यादिरूपाः किं तत इत्यतो यथा सारथिशून्यो रथी दुःखभोक्तैवं बुद्धिशून्य आत्मापीत्याह- आत्मेति ॥ आत्मेति द्वितीयार्थे । आत्मानं शरीरिणं इन्द्रियमनोयुक्तं तन्मात्रयुक्तं बुद्धिशून्यं दुःखभोक्तेत्याहुर्मनीषिणः । यद्वात्र बुद्धिरपि ग्राह्या तथाच प्रसिद्धरथिवत्सुखभोक्तेत्याहुः इति व्याख्येयम् ।। १.३.४ ।।
इदानीमश्वस्थानीयेन्द्रियनियमनं कार्यमिति भावेन मनोनियमनं विज्ञानं च तत्साधनमित्यन्वयव्यतिरेकाभ्यामाह - यस्त्विति ॥ यस्तु अविज्ञानवान् । शास्त्रादिजनितविशेषबुद्ध्याख्यविवेकिसारथिशून्योऽत एवायुक्तेनानिगृहीतेन मनसा सदा युक्तो भवति तस्य पुरुषस्येन्द्रियाण्यवश्यानि भवन्ति । तत्र दृष्टान्तमाह- दुष्टाश्वा इति || अनिगृहीताश्वा इत्यर्थ: ।। १.३.५ ।।
श्रीवरदतीर्थखण्डार्थ:
प्राधान्याद्व्यतिरेकमुक्तत्वान्वयमाह यस्त्विति ।। १.३.६ ।।
अस्त्वेवमन्वयव्यतिरेकाभ्यां इन्द्रियनियमने मनोनियमनादि - साधनम् । तदेव किमर्थमिति चेन्न । तस्य परम्परया मोक्षोपयोगित्वादिति भावेनेन्द्रियनियमनाद्यभावे मोक्षाभावं तावदाह - यस्त्विति ॥ अमनस्कः अगृहीतमनस्कः | अत एवेन्द्रियाणां दुष्टविषयेषु यथेष्टं प्रवृत्त्या निरन्तरमशुचिः ।। १.३.७ ।।
इदानीमन्वयमाह- यस्त्विति ॥ यस्मात् यत्पदं प्राप्य ।। १.३.८ ।।
तदेव विवृणोति- विज्ञानेति ॥ अध्वनः संसाराध्वनः ।। १.३.९ ।।
‘‘आत्मेन्द्रियमनोयुक्तम्” इति इन्द्रियमनोयुक्तमात्मानं भोक्तेत्याहुरित्यर्थः ।। १.३.४ ।।
योगैकदेशं प्रत्याहारं निरूपयति - यस्त्वविज्ञानवानिति ॥ अविज्ञानवत्त्वेनावशीकृतेन्द्रियस्य विज्ञानवत्त्वेन वशीकृतेन्द्रियस्य च किं फलं भवेदित्यतः तयोः क्रमेण फलमाह- यस्त्वविज्ञानवान्भवति इत्यादिश्लोकद्वयेन ।। १.३.७-८ ॥
तत्पदमाप्नोतीत्युक्तं पदं किमित्यत आह- विज्ञानसारथिरिति ॥
।। १.३.९ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
उपोद्घातं श्लोकद्वयेनाह - आत्मानमिति ॥ आत्मानं शरीरान्तर्व्यापिनं जीवमेव रथिनं विद्धि । शरीरं च रथं विद्धि जानीहि । प्रग्रहं रज्जुं मनस्त्वित्यन्वयः ।। १.३.३ ।।
इन्द्रियाणि श्रोत्रादीनि हयानश्वानाहुः प्राज्ञाः । तेषु तेषाम्, व्यत्ययात्, हयरूपेन्द्रियाणां गोचरान् विषयभूतान् शब्दादीन् विषयान् अश्वसञ्चारानु- कूलदेशानाहुः इत्यर्थः । आत्मा आत्मानं इन्द्रियमनोभिर्युक्तं
भोक्तेति सुखदुःखानुभवकृतोच्चत्वनीचत्वभाजमाहुः, मनीषिणः ज्ञानिन इत्यर्थः ।।१.३.४।।
अश्वभूतेन्द्रियाणां प्रत्याहारः कस्य भवति, कस्य नेत्यतो रथित्वाद्युक्तेरुपयोगोक्तिपूर्वमाह - यस्त्विति । यस्सदा अयुक्तेन अनिगृहीतेन मनसा अविज्ञानवान् विवेकहीनो भवति तस्येत्यादि व्यक्तम् ॥१.३.५।।
युक्तेन निगृहीतेन । विज्ञानवान् सारथिस्थानीयबुद्धिमान् । सारासार-विवेकवान् तस्येत्यादि व्यक्तम् ।।१.३.६।
अमनस्कः
वशीकृतेन्द्रियत्वरूपप्रत्याहाराभावभावयोः को विशेषः ? येन स आवश्यक इत्यतः तदभावे तद्भावे च विशेषमाह - यस्त्वित्यादिना मन्त्रद्वयेन ॥ अविज्ञानवान् विबेकारख्यबुद्धिरूपसारथिहीनो भवति अवशीकृतमनस्कः ॥ अशुचिरिति ॥ विषयलम्पटत्वादिति भावः । इष्टाप्राप्त्यनिष्टप्राप्ती च आह- न स इति ॥ तत्पदं “सर्वे वेदाः" इत्युक्तं ब्रह्मस्वरूपम् ।। १.३.७ ॥
विज्ञानवान् बुद्धिरूपसारथियुक्तः । समनस्कः वशीकृतमनस्कः ॥ शुचिरिति ॥ विषयालम्पटत्वादिति भावः । भूयः पुनरित्यर्थः ।। १.३.८ ।।
एवं प्रत्याहाराभावभावयोः अनर्थप्राप्तीष्टप्राप्ती निरूप्य प्रत्याहाररूपं साधनं फलोक्त्या निर्धारयति - विज्ञानेति ॥ वशीकृतेन्द्रियवान् इत्यपि ज्ञेयम् । सारथिप्रग्रहवत्त्वोत्तत्यैव वशीकृतेन्द्रियत्वं लब्धमिति तदनुक्तिः । अध्वनः संसारपदव्याः पारं तीरभूतं तद्विष्णोः परमं पदं स्वरूपमाप्नोतीति ।। १.३.९ ।।