यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम्

भगवतो वज्रायुधवद्भयप्रदत्वम्

उपनिषत्

यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ।। २. ३.२।।

भाष्यम्

प्राणाख्ये तु 'हरौ सर्वमेजत्यस्माच्च निःसृतम् ।

वज्रवद्भयदं चैव स्वधर्मस्यातिलङ्घने ।। २.३.२।

श्रीव्यासतीर्थ:

व्या- "यदिदं किञ्च" इत्यत्र तत्प्रसिद्धप्राणवज्रार्थत्वप्रतीतेर्व्याचष्टे- प्राणाख्य इति ॥ निमित्तसप्तमीयम् । प्राणान्निमित्तादेति चेष्टत इत्यर्थः ॥

।।२.३.२ ।।

वामनपण्डिताचार्य:

'प्राणाख्ये तु" इत्यादिना "यदिदम्" इत्येतद्व्याख्याति । यदिदमुक्तलक्षणं जगत् सर्वं प्राण एजति । प्रकृष्टचेष्टकत्वात् प्राणाख्ये गतौ आश्रयभूते विष्णौ स्थित्वा कम्पते चेष्टत इत्यर्थः ।एजृ कम्पने’” । अस्मात् ऊर्ध्वतो मूलात् निःसृतम् । य एतत् प्राणाख्यं महद् भयं वज्रं विदुस्ते मुक्ता भवन्ति । वज्रवन्महाभयङ्करं ब्रह्मेत्यभिप्रायः ।। २.३.२ ।।

श्रीवेदेशतीर्थ:

भा- "यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्इति वाक्ये मुख्यप्राणस्य सर्वजगच्चेष्टकत्वादिकमुच्यत इत्यसत् । अस्य पितृसौमनस्यादि - त्रयाणामेव प्रश्ने तदनुपन्यासेन मुख्यप्राणकथनस्यासङ्गतत्वात् । अत एवं ‘‘महद्भयम्’” इत्युत्तरवाक्ये वज्रशब्दादुद्यतत्वलिङ्गाच्च इन्द्रायुधमेवोच्यत इत्यप्ययुक्तमिति भावेन तद्वाक्यद्वयं व्याचष्टे - प्राणाख्य इति ॥ निमित्त- सप्तमीयम् । तुशब्दोऽवधारणार्थः । नतु मुख्यप्राण इत्यर्थः । चशब्दोऽप्यव- धारणार्थः । निःसृतश्चेति वा चशब्दसम्बन्धः । अस्मादिति श्रुतौ शेषोक्तिः । वज्रवद्भयदमित्यनेन वज्रशब्दो गौण्या वृत्त्या विष्णावपि सावकाश इत्युक्तं भवति । अत एव श्रुतौ महद्भयमित्यनेन वज्रशब्दप्रवृत्तिनिमित्तगुणयोगो दर्शितः । सूत्रभाष्ये तु "वर्जनाद्वज्रमुच्यते” (१.३.३९) इति वज्रशब्दो यौगिक इत्युक्तम् । स्वधर्मस्येत्यादिशेषोक्तिः । चशब्देनोद्यमित्वेनोद्यतं चेति ग्राह्यम् । भयदमित्यस्य ‘‘ये विदुरमृतास्ते भवन्तिइति श्रुत्या सम्बन्धः । अनेन प्रसिद्धवज्रज्ञानान्मोक्षायोगेन न तत्परत्वमुपपन्नमित्युक्तं भवति । यद्वा वज्रवद्भयदमित्यनेन श्रुतौ महद्भयमित्युक्तभयप्रदत्वे वज्रमुद्यतमिति लुप्तोपमा उच्यत इति व्याख्यातमिति प्रतिभाति । अस्मिन्पक्षे वज्रमुद्यतमित्येतत् प्रसिद्ध- वज्रपरमेव । तथापि वाक्यस्य भगवत्परत्वाविरोधात् । यद्यपि तत्त्वप्रकाशिकायां ‘‘कम्पनात्’’(१.३.३९) इति सूत्रभाष्याद्यनुरोधेन "यदिदं किञ्च" इत्यादि ‘“अमृतास्ते भवन्ति" इत्यन्तमेकवाक्यं कृत्वा व्याख्यातम् । तथापि व्याख्यानान्तरमेतदित्यविरोधः ।।२.३.२।।

श्रीवेदेशतीर्थखण्डार्थ:

यदिदं किञ्च तत्सर्वं जगत् प्राणाख्ये हरौ जति कम्पते । तस्मादेव निःसृतम् । एतत् ब्रह्मोद्यतं वज्रं तदुपपादनायोक्तं महद्भयमिति, उद्यतवज्रवन्महाभयप्रदम् । स्वधर्मालिन इति शेषः । ये विदुस्ते मुक्ता भवन्ति ॥२.३.२।।

श्रीवरदतीर्थ:

वरद- ‘“यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्इत्यस्यार्थः- प्राणाख्य इति || हराविति निमित्तसप्तमी ॥ २.३.२।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

यदिदमिति ।। यदिदं किञ्च सर्वं जगत् प्राणाख्ये हरौ स्थितं प्राणान्निस्सृतं तदिदं जगत् यस्मादेजति यत्प्रेरणया चेष्टते तत् वज्रं वज्रवत् महद्भयं महद्भयदम्, उद्यतं उत्कृष्टयत्नवन्तं एतत् एतं ये विदुः ते अमृताः मुक्ता भवन्ति । भाष्यटीकयोस्तु, प्राणः सर्वमिदम्, किञ्च जगच्च यस्मान्निस्सृतं एजति चेष्टते च, सर्वं जगद्यस्मान्निस्सृतं स प्राणो यस्माच्चेष्टत इति वाऽर्थः । वज्रपदस्य तु ‘“वर्जनाद्वज्रमुच्यते " इति स्मृत्या योगरूढिभ्यां च वज्रशब्दार्थो भगवानित्युक्तम् । तदाहं सूत्रकारःकम्पनात्' (ब्र.सू. २.३.३९ ) इति ।।२.३.२।।

Load More