यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति
देवाः सर्वे भगवदाश्रिताः
उपनिषत्
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चन । एतद् वै तत् ॥२.१.९॥
श्रीव्यासतीर्थ:
सृष्टिप्रलययोः सूर्यो यत उदेति, अस्तमदर्शनं च यत्र गच्छति तं देवा अर्पिताः प्राप्ताः ||२.१.९।।
वामनपण्डिताचार्य:
तत्स्तोतॄणां देवादीनां स एव ह्याश्रयश्चेत्याह- यतश्वेति ॥ यदाश्रयात् सूर्यस्योदयादिस्तस्मिन्नेव सर्वे देवाः समाश्रिताः । नच तदाज्ञादिकं कश्चनात्येति भूतभव्येशानत्वात् तस्य ॥२.१.९ ॥
श्रीवेदेशतीर्थखण्डार्थ:
किञ्च सूर्यः सृष्टिकाले यत उदेति यत्र च प्रलयकाले अस्तं अदर्शनञ्च गच्छति तं सर्वे देवा अर्पिताः प्राप्ताः तद्भगवत्स्वरूपं कश्चन नात्येत्येव ॥२.१.९||
श्रीवरदतीर्थखण्डार्थ:
सूर्यो यतो विष्णोरुदयास्तमयावेति सर्वे देवास्तं विष्णुमर्पिताः प्राप्ताः । एतद्वै तदित्यस्य सर्वत्रापि यदेतत् ब्रह्म मुक्ते नियामकतया अवशिष्यत एवेत्यर्थः ॥ २.१.९ ॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
पुनश्च महिमोक्तिपूर्वकं त्वत्पृष्टमेतादृगित्याह- यतश्श्रोतीति ॥ सूर्यः सृष्टिकाले यतो यस्मादुदेति, यत्र च यस्मिंश्च हरौ प्रलयकाले अस्तमदर्शनं गच्छति तं सर्वे देवा अर्पिताः । तमाश्रित्य स्थिता इत्यर्थः । तत् तं सर्वदेवाश्रयं गुणतः स्वरूपतो वा कश्चन कोऽपि न उ नैवात्येति नातिक्रामति । एतद्वै तत् त्वया पृष्टमेतद्वै अरण्योरित्यादिनोक्तगुणकं वै ।।