यथादर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके
योग्यताभेदेन भगवद्दर्शनम्
उपनिषत्
यथादर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाप्सु परीव दृश्यते तथा गन्धर्वलेके |
छायातपयोरिव ब्रह्मलोके ॥ २.३.५ ।।
भाष्यम्
जीवे स्थितस्तु भगवान् दृश्यते ज्ञानदृष्टिभिः ।
आदर्शे मुखवत् सम्यङ् न तथा पितृलोकगः ।।
ततः किश्चित् स्पष्टतया गान्धर्वे दृश्यते हरिः ।
नात्यातपे न च्छायायां यथैवाहनि दृश्यते ।
स्पष्टं तथा ब्रह्मलोके दृश्यते पुरुषोत्तमः । इति च ।। २.३.५ ।।
श्रीव्यासतीर्थ:
व्या- स्वर्गे वैकुण्ठादिषु चिन्मयशरीरित्वाय प्रकृतो बोधोपदेशः पुरुषापेक्षयानेकप्रकार इत्याह- यथादर्श इत्यादिना ॥ परीब सम्यगिव । सम्यगर्थाप्रतीतेस्तंद्वाक्यजातं व्याचष्टे - जीवे स्थित इत्यादिना ॥ पितृलोकगोऽपि यथा स्वप्ने तथा दृश्यते ॥२.३.५॥
वामनपण्डिताचार्य:
अथ ‘“जीवे स्थितः" इत्यादिना " यथाऽदर्शे'' इत्यादेरभिप्राय- माह । अत्र तावदमृतत्वसाधने ब्रह्मदर्शने स्थानविशेषाद्विशेष उच्यते । तथाहि आत्मशब्दिते जीवे स्थितो भगवानादर्शे मुखवत् विस्पष्टं दृश्यते । पितृलोके तु स्वप्ने घटादिवदल्पाभिव्यक्त्यैव दृश्यते । गन्धर्वलोके तु स्वप्ने दृश्यमानात् किञ्चित् स्पष्टतया दृश्यते । यथाप्सु परिवृतः पाषाणादिस्तथैव । अथ ब्रह्मलोके स्वप्नजलादर्शगतेभ्योऽपि स्पष्टतया दृश्यते । “छायातपयोरिव " इत्युक्तत्वात् । सर्वत्रापि ज्ञानदृष्ट्यैव भगवान् दृश्यते न प्राकृतद्दृदृष्ट्या ॥२.३.५॥
श्रीवादिराजतीर्थ:
वादि - "आदर्शे मुखवत् सम्यक् न तथा पितृलोकगः " इति बदतोऽयमभिसन्धिः । पितृलोकगो भगवान् यथा बहुधा सम्यग् दृश्यते तथाऽऽत्मनि मनुष्यरूपस्थे जीवे न दृश्यते । किन्तु आदर्शे मुखवत् स्वात्मन्येव दृश्यते । यद्वा मनुष्यलोकस्थैरादर्शे मुखमिव आत्मनि स्वस्मिन्नेव बिम्बभूतः परमात्मा यथा दृश्यते तथा पितृलोके न । किन्तु स्वप्न इव बहुधा दृश्यत इति । " यथाऽप्सु परीव" इत्यत्र यथाऽप्सु प्रतिबिम्बिताः सूर्यचन्द्रादयः परीव परितः प्रकाशवन्त इव ददृशे सम्यक् परितश्च दृश्यन्ते तथा गन्धर्वलोकेऽपीत्यर्थः । छायातपयोः ईषच्छायासहितातपे वस्तु यथाऽतिस्पष्टं दृश्यते तथा ब्रह्मलोकेऽपीति भावः । केवलं छायायां चेन्न स्पष्टं दृश्यते । केवलमातपे चेदपि नयनघातान स्पष्टं दृश्यते । सूर्यातपशबलित- वृक्षादिच्छायायां तु रेखोपरेखासहितया सम्यग् दृश्यत इति भावेनोक्तम्- नात्यातप इति ॥ २. ३.५॥
श्रीवेदेशतीर्थ:
“यथादर्शे तथात्मनि” इत्येतदन्यथाप्रतीतेः किञ्चिदध्याहारेण त्र्याचष्टे - जीव इति ॥ आत्मनीत्यस्यार्थः- जीव इति ॥ स्थितो भगवानिति शेषोक्तिः । सम्यक् दृश्यत इति सम्बन्धः । अनेन श्रुतौ परिदृश्यत इत्यस्यैव पूर्वत्रापि सम्बन्ध इत्युक्तं भवति । अनुपलम्भबाधपरिहाराय ज्ञानदृष्टिभिरि- त्युक्तम् । ऋषिभिरित्यर्थः । " ऋषयोऽन्तः प्रकाशाः" इति श्रुतेः । मुखवदित्युक्त्या श्रुतौ मुखमिति शेष इति सूचितम् । यथा स्वप्ने तथा पितृलोके इत्यस्य तात्पर्यमाह - न तथेति । अत एव यथा स्वप्ने इति दृष्टान्तः । स्वाप्नपदार्थस्यादर्शस्थमुखवत्स्पष्टमप्रतिभानादिति भावः । न तथा सम्यक् दृश्यत इत्यनेन श्रुतौ दृश्यत इत्यस्यैवात्र सम्बन्ध इति सूचितम् । यथाप्सु परीव दृश्यत इत्येतद्व्याचष्टे - तत इति ॥ अनेन इवशब्दोऽल्पार्थ इत्युक्तं भवति । अत एवाप्स्विति दृष्टान्तः । वारिस्थप्रतिबिम्बस्य स्वाप्नपदार्थापेक्षया स्पष्टत्वात् । आदर्शमुखापेक्षया चास्पष्टत्वात् । गन्धर्वलोके स्थित इति शेषोक्तिः । उत्तमगन्धर्वापेक्षयैतत् । तेन पित्रपेक्षया गन्धर्वाणां नीचत्वोत्त्या न विरोधः । छायातपयोरिति तयोरेवोपादानाभिप्रायं वदंस्तद्वाक्यं व्याचष्टे- नात्यातप इति ।। अत्यातपे वस्तु स्पष्टं न दृश्यते । तेन दृष्टिप्रतिहतेः । नाप्यतिच्छायायाम् । विषयसंस्कारकालोकाभावात् । किन्तु यथैवाहनि छायातपयोः स्पष्टं दृश्यत इत्यर्थः ।। २.३.५ ॥
श्रीवेदेशतीर्थखण्डार्थ:
बोद्धुमित्युक्तो बोधो न सर्वेषामेकप्रकार इति भावेनाह - यथेति ॥ परिदृश्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । यथाऽऽदर्शे मुखं परिदृश्यते सम्यक् दृश्यते तथात्मनि स्थितो भगवान् ज्ञानदृष्टिभिऋषिभिः परिदृश्यते सम्यक् दृश्यत इत्यर्थः । यथा स्वप्ने स्वप्नावस्थायां स्थितः पदार्थो दृश्यते तथा पितृलोके स्थितो भगवान् दृश्यते । पूर्वं परिदृश्यत इत्यस्याकर्षणमत्र तु दृश्यत इत्यस्यैव । तेन ऋषिज्ञानात् पितृज्ञानस्यासम्यक्त्वं लभ्यते । अत एव यथा स्वप्न इति दृष्टान्तोक्तिः । स्वाप्नपदार्थस्यादर्शस्थमुखवत्स्पष्टत्वाभावात् । यथाप्सु स्थितः पदार्थः परीव दृश्यते स्वाप्नपदार्थात्किञ्चित्स्पष्टतया दृश्यते तथा गन्धर्वलोके स्थितो भगवान् परीव दृश्यते । ततः किञ्चित्स्पष्टतया दृश्यते । छायातपयोरिव नात्यातपे न च्छायायां किन्तु अहनि छायातपयोर्विद्यमानं वस्तु यथा स्पष्टं दृश्यते तथा ब्रह्मलोके स्थितः पुरुषोत्तमो दृश्यते ।।२.३.५ ।।
श्रीवरदतीर्थ:
बरद- परमेश्वरज्ञानञ्च नानाविधमित्युच्यते - यथादर्श इत्यादिना ॥ तस्यार्थः- जीवे स्थितस्तु भगवान् इति ॥ २.३.५ ।।
श्रीवरदतीर्थखण्डार्थ:
अशकद्बोद्धुं इत्यत्र बोध: प्रसक्तः स च नानाविध इत्याह- यथादर्श इति ॥ यथाप्सु परीव दृश्यत इति ॥ यथा जले प्रतिबिम्बं परि परितः सर्वात्मना दृश्यते । गन्धर्वलोके स्थितैः पुरुषैः तथा ददर्श भगवान् । छायातपयोः इति सप्तमीद्विवचनान्तम् ॥२.३.५।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
उक्तोपायैर्जायमानोऽपि भगवद्बोधो नैकविध इत्याह- यथेति ॥ आत्मनि जीवेऽवस्थितो भगवान्, आदर्शे दर्पणे मुखं यथा दृश्यते सम्यक् तथा ज्ञानदृष्टिभिः दृश्यते । यथा स्वप्ने पदार्थो दृश्यते तथा पितृलेके दृश्यते न सम्यगित्यर्थः । यथाऽप्सु परीव सम्यगिव, प्रतिमुखादिकं दृश्यते तथा गन्धर्वलोके किञ्चित्स्पष्टतया दृश्यते । ब्रह्मलोके तु छायातपयोः छायातपमिलितप्रदेशे वस्तु यथाऽहनि दृश्यते तथा हरिर्दृश्यत इत्यर्थः ।। ॥२.३.५॥