कामस्याsप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्य- मभयस्य पारम्

मत्प्रसादात् नचिकेतसस्तव ब्रह्मज्ञानं भवति

उपनिषत्

कामस्याsप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्य- मभयस्य पारम् ।

स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ।। १.२.११ ।।

भाष्यम्

क्रतोरानन्त्यहेतुम् । स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम् । स्तोमेभ्योऽपि महान्तम् । उरुगायमित्युक्तत्वाच्च न जीवविषयोऽयं प्रश्नः ।शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते" "शरवत्तन्मयो भवेत्” “अभयं तितीर्षतां पारम् " " तादृगेव भवति" । इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेद: ।नाचिकेतं शकेमसि" इत्युक्तत्वाच्च नाचिकेताग्निस्थो भगवानेवोच्यत इति सिद्धम् । उरुगायं दृष्ट्वा कामस्याऽप्तिमत्यस्राक्षीः । न च मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोऽस्ति न वेति संशयोऽस्ति ॥ ॥१.२.११ ॥

श्रीव्यासतीर्थ:

न केवलमहं ब्रह्म जानामीति । किन्तु मत्प्रसादात्त्वमपि जानासीत्याह- कामस्येति ॥ " जगतः प्रतिष्ठाम् " " क्रतोरानन्त्यम्" इति " अनन्तलोकाप्तिमथो प्रतिष्ठाम्" इत्युक्तस्यानुवादः ।अभयस्य पारम् '' इति "स्वर्गलोका अमृतत्वं भजन्ते" इत्युक्तस्य " स्तोममहत्" इति ‘“ब्रह्मजज्ञम्’” इत्युक्तस्य । प्रतिष्ठां मुक्ताश्रयम् ॥ १.२.११ ।।

व्या. भा- अप्रतीतेः क्रतोरानन्त्यपदं व्याचष्टे - क्रतोरिति ॥ अप्रतीतेः स्तोममहदिति पदं तात्पर्यपूर्वं व्याचष्टे स्तोमैरिति नित्यं उरुभिर्मुमुक्षुभिर्गीयत इति उरुगायः । क्रतोरित्यादेः प्रकृतोपयोगं दर्शयति- इत्युक्तत्वादिति ॥ नन्वेतानि विशेषणानि जीवेऽपि घटते तस्य ब्रह्मात्मकत्वादित्यतस्तयोर्भेदं समर्थयते - शर इत्यादिना ॥ जीवाभेदः जीवस्य परमात्मना अभेदः । तृतीयप्रश्नस्येश्वरविषयत्वं ज्ञापकान्तरेण समर्थयते - नाचिकेतमिति ॥ द्वितीयप्रश्ने नाचिकेताग्निस्थितो भगवान् पृष्ट इति समर्थितम् । अत्रापि " नाचिकेतं शकेमसि' इत्युक्तत्वान्नाचिकेताग्नि- स्थितो भगवान्पृष्टः स एवोच्यत इति सिद्धमित्यर्थः । "कामस्याप्तिम्इत्यस्यजगतः प्रतिष्ठाम्" इत्यनेन सामानाधिकरण्यप्रतीतिं निवारयन्नन्वयं दर्शयति- तृतीयप्रश्नस्येश्वरविषयत्वे सर्वथा अपरिहार्यामुपपत्तिमाह- नचेति ॥ येन तद्विषयः स्यात्प्रश्न इति वाक्यशेषः ।। १.२.११ ।

वामनपण्डिताचार्य:

त्वमप्यैहिककामावाप्तिमतिसृज्य, भगवद्भक्त्या तत्प्राप्तय एतमेवाप्राक्षीरित्याह- कामस्येति ॥ ननु नायं परमात्मविषयः प्रश्नः । किन्तु प्रेतजीवविषय एव । अणीयस्त्वनित्यत्वादेस्तस्मिन्नपि सावकाशत्वादित्या- शङ्कयाऽहक्रतोरानन्त्यहेतुमिति । जगतः प्रतिष्ठां मूलाधारम् । अभयस्य मोक्षस्य प्राप्त्यर्थं पारभूतम् । स्तोमेभ्योऽपि महान्तं सन्तं उरुगायं विदित्वा इति परिहारे परस्यैव उक्तत्वान्न जीवविषयोऽयं प्रश्नः । ननु परिहारोक्तेः परविषयत्वेऽपि जीवपरयोरभेदात् प्रेतप्रश्नस्य जीवविषयत्वाविरोध इत्यत आह- शरो हीति ॥ जीवब्रह्मणोः शरलक्ष्यवत् भेदस्यैवोक्तत्वात् न जीवस्य ब्रह्मणाऽभेदः । नहि तर्तृतारकयोः इतरेतरसंयोगिनोश्च क्वचिदभेदो दृष्टः । एवं सर्वज्ञाल्पज्ञयोश्चात्यन्तभेद एव युक्तः । नच नच नाचिकेताग्निस्थत्वं जीवस्योपपन्नम् । कामस्याप्तिमित्यादेरन्वयं दर्शयतिउरुगायमिति ।।अभयं तितीर्षतां पारम्" इत्यत्रापि अभयं प्रति भयमेव तितीर्षतां पारमित्यर्थः । नह्यज्ञा अप्यभयं तितीर्षन्ति । प्रेतजीवास्तित्वस्य स्वानुभवसिद्धत्वाच्च न तत्प्रश्नावकाश इत्याह- नच मृत्वेति ॥ १.२.११ ॥

श्रीवेदेशतीर्थ:

नच यतोऽनित्यसाधनैर्नित्यं न प्राप्यते यश्चानित्यसुखात्मकः शेवधिः स एवानित्यद्रव्यैः प्राप्यते ततो मया नाचिकेतश्चितोऽग्निरिति हेतुहेतुमद्भावोपपत्तिरिति वाच्यम् । अश्रुतकल्पनाप्रसङ्गादिति भावः । " क्रतोरानन्त्यम्" इति कथम् । क्रतुस्वरूपस्याशुतरविनाशित्वात् । नचानन्त्यमनन्तफलत्वमिति वाच्यम् । तथापि तस्य भगवद्विशेषणत्वा- सम्भवादित्यतस्तद्व्याचष्टे- क्रतोरिति ॥ क्रतोर्ज्ञानस्य । एवञ्च अनन्त- लोकाप्तिमित्युक्तानुवादरूपत्वमेतस्य सम्भवतीति भावः । ‘‘स्तोममहत्’” इत्यस्य "स्तोमं अणिमाद्यैश्वर्याद्यनेकगुणसहितञ्च महत् निरतिशयञ्चेति स्तोममहत्’” इति व्याख्यानमसत् । एतस्य प्रागनुक्तत्वेनानुवादासम्भवादिति भावेन तत्तात्पर्यं तावदाह - स्तोमैरिति । वेदसमूहैरित्यर्थः । प्राप्तुं ज्ञातुम् । किमु प्रत्यक्षादिभिरित्यपिशब्दः । तर्हि " सर्वे वेदा यत्पदमामनन्ति' इति वक्ष्यमाणविरोध इत्यत उक्तम्- सर्वात्मनेति । एवञ्च ब्रह्मजज्ञेत्युक्तानुवाद-रूपमेतदिति भावः । ननु " स्तोममहत्" इत्यस्मात्पदात्कथमेषोऽर्थो लब्ध इत्यतः तत्पदार्थमाह- स्तोमेभ्योऽपीति || उरुगायमित्यस्य पुलिङ्गत्वेन श्रुतौ महदिति लिङ्गव्यत्यास इति भावेनं महान्तमित्युक्तम् । वेदसमूहापेक्षया महत्त्वं नाम साकल्येन तदप्रतिपाद्यत्वमेव । स्वरूपमहत्त्वस्याल्पत्वादिति भावः । तृतीयप्रश्नस्य जीवविषयकत्वं वदन्तं प्रति एतद्वाक्यगतमपि बाधकमाह - उरुगायमिति ॥ उरुगायशब्दस्य भगवत्परत्वं साधितमेवेति भावः । ननु न जीवविषयोऽयं प्रश्न इत्यनुपपन्नम् । जीवपरत्वे बाधकाभावात् । नच ब्रह्मपरश्रुतिलिङ्गाद्यनुपपत्तिः । तस्य ब्रह्माभिन्नत्वेन स्वरूपापेक्षया जीवेऽपि सम्भवादिति चेन्न । स्यादेवं यदि जीवेश्वराभेद एव स्यात् नच सोऽस्ति । अप्रामाणिकत्वात् । प्रमाणविरुद्धत्वाच्चेत्याह- शर इति ॥ आत्मा जीवः शरस्थानीयः ब्रह्म लक्ष्यस्थानीयम् । तन्मयः तत्र संल्लग्नचेताः । नहि शरलक्ष्ययोरभेदोऽस्तीति भावः । अभयं इत्यादेरर्थो वक्ष्यते । आदिपदेनअनन्यप्रोक्ते गतिरत्र नास्ति" " अन्यत्र धर्मात् " " नित्यो नित्यानाम्इत्यादिवाक्यग्रहणम् । जीवब्रह्माभेदनिरासाय " अभयं तितीर्षतां पारम् " इतिवाक्योदाहरणेन स्मारितम् । द्वितीयप्रश्नस्य भगवद्विषयत्वे युक्त्यन्तरमाह - नाचिकेतमिति ॥

यस्सेतुरीजानानामक्षरं ब्रह्म तत्परम् ।

अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥

इति नाचिकेताग्नेरक्षरत्वपरब्रह्मत्वाभयत्वादिकथनात् नाचिकेताग्निस्थो भगवानेवात्र ‘“स्वर्ग्यमग्निम्" इत्यादावुच्यत इति सिद्धम् । प्रसिद्धाग्नौ तेषामसम्भवात् विष्णौ तु सम्भवादिति भावः । अपव्याख्यानं तूत्तरत्र निराकरिष्यामः 1 कामस्याप्तिमित्यत्र जगतः प्रतिष्ठामित्यादिवत् ‘“कामस्याप्तिम्इत्येतदपि उरुगायविशेषणमिति व्याख्यानमसत् । पूर्वं तस्यानुक्तत्वेनानुवादायोगात् । " अत्यस्राक्षीः" इत्यस्य कर्मानुक्तिप्रसङ्गाच ।

संसारभोगजातमिति अध्याहारस्त्वगतिका गतिः इति भावेन तद्वाक्यं योजयति- उरुगायमिति ॥ कामस्य काम्यस्य, तृतीयप्रश्नस्य मृतिविषयत्वे ‘“येयं प्रेते विचिकित्सा’” इति वाक्यार्थ एव न युज्यत इति बाधकान्तरमाह- नचेति । मरणानन्तरमपि जीवसद्भावस्य स्वस्मिन्नेव प्रत्यक्षेण निश्चितत्वात् निश्चिते संशयायोगादिति भावः । नच नचिकेतसो मरणमेव कुतः सिद्धम् । सशरीरस्यैव मृत्युं प्रति गमनोपपत्तेरिति वाच्यम् । तथा सति तस्य शापरूपत्वायोगात् । पितरमेव "जीवन् यानि " इति शाखान्तरे जीवन्नित्युक्त्ययोगाच्च । नहि पूर्वममृतत्वे जीवन्नित्येतत्स्वरसम् । नच नचिकेतसः संशयाभावेऽप्यन्येषां संशयः स्यादेव । वादिविप्रतिपत्तेः । नह्यत्र नचिकेतस इति विशिष्योच्यत इति वाच्यम् । अत्र चास्माकं न प्रत्यक्षेण नाप्यनुमानेन निर्णयो युज्यत इति त्वयैवोक्तत्वेन नचिकेतस एव संशयाभ्युपगमात् । स्वस्य संशयाभावेएतद्विद्यामनुशिष्टस्त्वयाहम्इति प्रार्थनायोगाच्च । नच प्रेक्षावद्भिर्महतां वरोऽल्पप्रयोजनाय व्ययीक्रियत इति भावः ॥ १.२.११ ॥

श्रीवेदेशतीर्थ खण्डार्थ:

बे. खं- " स त्वं प्रियान् प्रियरूपांश्च कामानभिध्यायन् नचिकेतोऽत्य- स्राक्षीःइत्युक्तम् । तत्र नचिकेतसः कामविसर्जने किं निमित्तमित्यतः अनन्तलोकाप्तिमित्याद्युक्तप्रकारेण मुक्तनियामकभगवत्स्वरूपज्ञानमेवेत्या- शयत्रानाह- कामस्येति ॥ हे नचिकेतस्त्वं जगतः स्वर्गलोकस्य प्रतिष्ठां धारकं क्रतोरानन्त्यं आनन्त्यहेतुमभयस्य पारं मोक्षहेतुमिति यावत् । प्रतिष्ठां मोक्षे प्रवेश्यम् ।मोक्षे यस्मिन् प्रवेशः स्यात् सा प्रतिष्ठा हि " (छा.भा.७.१४) इत्युक्तेः । स्तोममहत् स्तोमेभ्यो वेदसमूहेभ्यो महान्तम् । वेदसमूहैरपि सर्वात्मना प्रतिपादयितुमशक्यमिति यावत् । अत एव उरुगायं उरुभिर्वेदैरुरुभिर्ब्रहादिभिरुरुत्वेन सर्वोत्कृष्टत्वेन गीयत इत्युरुगायनामानं भगवन्तं दृष्ट्वा धृत्या धैर्येण कामस्याप्तिमत्यस्राक्षीः ।। १.२.११ ।।

श्रीवरदतीर्थ:

वरद- ‘‘क्रतोरानन्त्यमभयस्य पारम्" इत्येतद्व्याचष्टे - क्रतोरिति ॥ स्तोमा वेदाः तैः प्राप्तुमशक्यत्वात् स्तोमेभ्यो महानित्यर्थः । एतन्मन्त्रोक्त- विशेषणसामर्थ्याच्च न तृतीयप्रश्नस्य जीवमात्रविषयत्वमित्याह - उरुगायमिति ॥ नचैतत्स्वर्ग्याग्नेरेव विशेषणमिति वाच्यम् । तृतीयप्रश्नविषयस्य परमात्मनो विशेषणत्वे बाधकाभावात् । नन्वेतानि विशेषणानि जीवेऽपि घटन्ते । तस्य ब्रह्मैक्यादित्यत आह- शर इत्यादि ॥ इतोऽपि तृतीयप्रश्नविषयो हरिरेवेत्याह- नाचिकेतमिति ॥ विष्णुस्तावन्नाचिकेतानौ स्थित इत्युपपादितम् । एतत्प्रकरणप्रतिपाद्येऽपि नाचिकेतमिति विशेषणात् पूर्वप्रकरणप्रतिपाद्यो हरिरेवात्र प्रतिपाद्यत इति सिद्धम् ।कामस्याप्तिं जगतः प्रतिष्ठाम्" इत्यत्रातिसर्जनकर्मणोऽप्रतीतेः तं निरूपयति- उरुगायमिति ॥ इतोऽपि मृत्यनन्तरं जीवोऽवशिष्यते नवेत्येवं प्रश्नवाक्यस्यार्थ इत्येवं न युज्यत इत्याह- नचेति ॥ १.२.११ ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

न केवलमहमेव जानामि मत्प्रसादात् त्वमपि जानासीति भावेन प्रागुक्तमनुवदति- कामस्येति ॥ हे नचिकेतः, धीरस्त्वं धृत्या धैर्यण मनोदार्त्स्न्येन कामस्याऽप्तिं वित्तादेः प्राप्तिं अत्यस्राक्षीः अत्यन्तं त्यक्तवानभूः कथम् ? जगतः प्रतिष्ठां प्रतिष्ठापकम् क्रतोः भगवदीयकर्मणः भगवदीय- ज्ञानस्य वाआनन्त्यं आनन्त्यहेतुं अक्षय्यफलदम्, अभयस्य पारं तीरं अभयदम्, स्तोममहत् स्तोमाः स्तोत्रसाधनभूता मन्त्राः तेभ्यो महत् महान्तम्, स्तोमैः साकल्येन प्रतिपादयितुमशक्यमिति यावत्, उरुभिः ब्रह्मादिभिः मुमुक्षुभिर्वा गीयत इति उरुगायम् । प्रतिष्ठां मुक्ताश्रयं दृष्ट्वा ज्ञात्वेति, उक्तगुणविशिष्टं विष्णुं ज्ञात्वा क्षुद्रकामावाप्तिं न याचितवानिति भात्रः । ‘“अनन्तलोकाप्तिमथो प्रतिष्ठाम्" इति प्रागुक्तद्वयस्य " जगतः प्रतिष्ठाम्’” “क्रतोरानन्त्यम्इति विशेषणद्वयेनानुवादः ।स्वर्गलोका अमृतत्वं भजन्तेइत्युक्तस्य " अभयस्य पारम्इत्यनेनानुवादः ।‘“ब्रह्मजज्ञं देवमीड्यम्इत्यादिनोक्तं " स्तोममहदुरुगायम्इत्यनेनानूदित- मिति ज्ञेयम् ।। १.२.११ ॥