यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति
मुक्तजीवा अपि भगवतो भिन्नाः
उपनिषत्
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ।। २.१.१५ ॥ ॥
इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥
भाष्यम्
विजानतो मुनेरात्मा वायुरपि तादृगेव भवति न तु स एव भवति । किम्वन्ये जीवाः ||
'सर्वेषां ज्ञानिनामात्मा देवानां च विशेषतः ।
मुक्तो वायुश्च सादृश्यमेवं विष्णोस्तु गच्छति ॥
न तु तद्रूपतां याति किम्वन्ये देवमानुषाः ।
आभासाभासरूपास्तु वायोर्देवस्य सर्वशः ।।
इति भविष्यपर्वणि ।। २.१.१५ ॥
॥ इति काठकभाष्ये द्वितीयाध्यायस्य प्रथमा वल्ली ॥
श्रीव्यासतीर्थ:
मुक्तस्येश्वरो नियामक इत्ययुक्तम्, तस्य ब्रह्मणि प्रवेशेनैक्यादित्यतः कैमुत्यमाह - यथोदकं शुद्ध इति ।। २.१.१५ ॥
व्या. भा- विजानतो मुनेरात्मा स्वामी क इति न ज्ञायतेऽतो व्याकरोति- विजानत इति ।। अवधारणार्थं व्यनक्ति- नत्विति ॥ वायुः सर्वेषां ज्ञानिनां स्वामी विमुक्तोऽपि स भगवत्सादृश्यमेव यातीति च कुत इत्यत आह- सर्वेषामिति ॥ वायोर्भगवदैक्याभावेऽन्येषां भगवदैक्याभावः कस्मादित्यतः परम्परया तदधीनप्रतिबिम्बत्वादित्याह - आभासाभासरूपा इति ॥२.१.१५ ॥
वामनपण्डिताचार्य:
मुक्तजीवस्यापि परमात्मन्येकीभावोक्तेः पृथङ् न स द्रष्टव्य इत्यत आह— यथोदकमिति ॥ " तादृगेव भवति " तत्सदृशमेव भवति । एवं मुक्तसञ्चोऽपि निर्दोषत्वादिधर्मैः विष्णुसदृश एव भवति । नतु तदभिन्नो भवति । एकीभावोक्तिः स्थानैक्यादिविवक्षयैव । "ब्रह्म प्रधानमुपयान्त्यगताभि- मानाः’’(भाग.३.३३.१० ) इति वचनात् । “उपसङ्क्रामति’, “साम्यमुपैति’” इत्यादिभिश्च । एतमर्थं “सर्वेषाम्" इत्यादिना भविष्यत्पर्ववचनेन दृढयति ॥
।।२.१.१५।।
श्रीवेदेशतीर्थ:
विजानतो मुनेरात्मा स्वरूपमेवं ब्रह्माभिन्नं भवतीति निरासाय " एवं मुनेर्विजानत आत्मा भवति" इत्येतद्व्याचष्टे - विजानत इति ॥ आत्मा स्वामीत्यर्थः । तादृगेवेत्यनेन दृष्टान्तवाक्यस्थं तादृगिति पदमत्र अनुवर्तत इत्युक्तं भवति । एवकारव्यावर्त्यमाह - नत्विति ॥ वायुरपीत्य- ध्याहृतापिशब्दसूचितकैमुत्यमाह - किम्बन्य इति ॥ अन्ये जीवास्तादृशा एव भवन्ति । नतु स एव भवतीति किमु वक्तव्यमित्यर्थः । वायोः संसारितया सादृश्यमात्रप्राप्तावपि मुक्तस्य तदैक्यप्राप्तिः किन्न स्यादित्याशङ्कां परिहरन् श्रुतेः स्वकृतं व्याख्यानं प्रमाणेन दृढयति- सर्वेषामिति ॥ अत्र बहुवचनश्रवणाद्विजानत इत्येकवचनं समुदायाभिप्रायम् । वायुर्ब्रह्मा । शब्दोऽपिशब्दार्थः । वायोस्तद्रूपत्वाभावेऽपि अन्येषां तत्किन्न स्यादित्यत आह- आभासेति ॥ केचन साक्षादाभासाः केचनाभासाभासा इत्यर्थः।। ।।२.१.१५।।
श्रीवेदेशतीर्थखण्डार्थ:
ननु यथा भगवत्स्वरूपाणां भगवता भेदाभावस्तथा मुक्तानामपि भगवता भेदाभावः किन्नेत्याह- यथेति ॥ हे गौतम यथा शुद्धे उदके आसिक्तं शुद्धमुदकं तादृगेव भवति नतु तदेव । अन्यथा वृद्धिदर्शनासम्भवात् । एवं विजानतो मुनेरात्मा स्वामी वायुरपि मुक्तः सन् तादृगेब भगवत्सदृश एव भवति । नतु स एव । किमन्ये जीवा इत्यर्थः ।। २.१.१५ ।।
श्रीवरदतीर्थ:
वरद- ननु मुक्त्यनन्तरं मुक्तानां भगवत्प्रतियोगिकभेदाभावान्मुक्तावपि भगवन्नियामकत्वेनावशिष्यते इत्येवं न युज्यत इत्याशङ्कयोच्यते-- यथोदकमिति ॥ तत्र विजानतो मुनेरात्मा क इत्यत आह- विजानतो मुनेरिति ॥ अत्रैव प्रमाणञ्चाह - सर्वेषामिति ॥ आत्मा स्वामी । वायोरैक्याभावे अन्येषामैक्यं कुतो न भवेदित्यत्राह - आभासेति ॥
।। २.१.१५ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
ननु ईश्वरस्य कथं प्रेरकत्वम् ? मुक्तस्य तदनुप्रवेशेन तेनैक्यादित्यतो नैवमित्याह - यथेति । यथा शुद्धमुदकं शुद्धोदके सिक्तं स्थापितं सत् तादृगेव भवति नतु तदेव वृद्धिदर्शनात् । विजानतो मुनेः विजानतां मुनीनामात्मा स्वामी मुक्तश्चतुर्मुखः एवं भवति भगवत्सदृश एव भवति । न तु तदैक्यमाप्नोति । जीवास्तु नाऽनुवन्तीति किमु वक्तव्यमित्यर्थः । अत उक्तं युक्तमिति भावः । गौतमेति नचिकेतसः सम्बोधनम् ॥२.१.१५॥
|| इति द्वितीयाध्यायस्य प्रथमा वल्ली ॥