अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम्

धातुः प्रसादादेव गुहास्थितभगवद्दर्शनम्

उपनिषत्

अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।

तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ||

१.२.२० ॥

भाष्यम्

एवं नित्यस्य जन्तोर्गुहायां निहितः । ए विष्णौ क्रतुर्यस्य सोऽक्रतुस्तन्निश्चयः । आत्मनः सकाशान्महिमानं महामानम् ।

'जीवाद् गुणपरीमाणं यस्माद्विष्णोर्महत्तरम् ।

तस्माज्जीवात्स महिमा विष्णुरित्युच्यते श्रुतौ ।। इति च १.२.२० ॥

श्रीव्यासतीर्थ:

उपदेशप्रकारमेवाह- अणोरणीयानिति ॥एतदालम्बनं

ज्ञात्वा’” इत्युक्तब्रह्मज्ञानस्य प्रथमभाविसाधनमाह - तमिति ॥१.२.२० ॥

व्या. भा- ‘“आत्मास्य जन्तोर्निहितो गुहायाम्" इत्येतद्व्याचष्टे- एवमिति । एवमुक्तप्रकारेण नित्यस्येति । अक्रतुः क्रतूपलक्षितकर्मरहितः तं पश्यतीति प्रतीतिं निवारयन् व्याचष्टे - अ इति । एवं तर्हि कथं क्रतोः कर्मात्मकत्वात्तेन तं पश्यतीत्यत आह- तन्निश्चय इति ॥ तनिश्चयः सम्यक् तत्परोक्षज्ञानम् । आत्मनः स्वस्य महिमानं पश्यतीत्यन्यथाप्रतीतिं निवारयन्त्र्याचष्टे- आत्मन इति ॥ आत्मनः सकाशान्महिमानं महामानम् । उक्तमर्थं दृढीकुर्वन्नात्मनो जीवाद्विष्णुः कस्मान्महिमेत्युक्त इति शङ्काञ्च परिहरति- जीवादिति ॥१.२.२० ॥

वामनपण्डिताचार्य:

साक्षान्मुख्यस्य विष्णोरणोरणीयस्त्वादिविधिवाक्यं दर्शयतिअणोरणीयानित्यादि । एवं नित्यस्येति । एवं स्वरूपापेक्षयां नित्यस्य जन्तोः हृदयगुहायां निहितः परमनित्यः परमात्मा । एवं उक्तलक्षणसाहित्येन तस्मिन्नकारात्र्ये विष्णा निश्वयज्ञानवान् अक्रतुः तं भगवन्तं पश्यति तस्यैव धातुः प्रसादात् । अथ तत्प्रसादात् वीतशोकश्च भवति । महीति महदुच्यते ।महि शर्म यच्छ" इत्यादिवत् । अतः स्वस्य सकाशान्महापरिमाण- मनन्तगुणपरिमाणमित्यर्थः । अत्रापि " जीवात्" इत्यादिकं महावराहवचन-प्रमाणमाह । अणुपरिमाणात् जीवात् विष्णोर्गुणपरिमाणं आनन्त्येन महत्त्वात् महत्तरमित्युक्तम् । परीमाणमिति मात्राधिक्याचैतदवगम्यते । " आधिक्ये अधिकम्’” इति सूत्रात् ।।१.२.२०।।

वादि- अक्रतुः अकारवाच्यपरमात्मविषयक्रतुः निश्चयो यस्य सः अक्रतुरित्यर्थः । ‘‘विविदिषन्ति यज्ञेन दानेन तपसानाशकेनइति श्रुतेः । यथाश्रुतार्थस्य बाधितत्वादुक्त एवार्थ इति भावः । महिमानंमाङ् मानेइति धातोः महि महत् मा मानं यस्य सः महिमा, तं महिमानमित्यर्थः । सकलजीवेभ्योऽप्युत्तमत्वेनैवापरोक्षज्ञानं न त्वैक्येनेत्यर्थसूचनायेदं विशेषणम् ।। १.२.२० ।।

श्रीवेदेशतीर्थ:

बे.भा- ननु ‘“अणोरणीयान्" इति मन्त्रो जीवपर एव ।हन्ता चेन्मन्यते हन्तुम्इति जीवस्यैव प्रकृतत्वात् । अन्यथा मध्ये जीवनित्यत्व- कथनस्यासङ्गतत्वादित्यतस्तस्योपयोगं दर्शयन्अस्य जन्तोर्निहितो गुहायाम्इति वाक्यं व्याचष्टे - एवमिति । अस्येत्यस्यैवार्थः- एवं नित्यस्येति ।। तथाच परमात्मनो नित्यभूतजीवहृद्गतत्वं वक्तुं जीवस्य नित्यत्वमुक्तमिति नासङ्गतिरिति भावः । नच जीवस्याणोरणीयस्त्वं महतो महीयस्त्वं वा युज्यते । तस्याणुत्वात् । नचाणु महद्वा यल्लेकेऽस्ति तत्तदात्मकत्वेन तथा व्यवहारः । तर्हि अणुर्महानित्येव वक्तव्यत्वापातात् ।अणोरणीयान्महतो महीयान्इति अणुमहद्भिन्नत्वस्यैवावगमाच्च । नचाणोः श्यामाकादेरणीयानिति श्यामाकाद्यपेक्षया सूक्ष्मवस्त्वात्मकत्वं महतः पृथिव्यादेरपि महानिति पृथिव्याद्यपेक्षया स्थूलवस्त्वात्मकत्वमुच्यत इति वाच्यम् । पञ्चम्यन्ताणु- महच्छब्दयोः सामान्यशब्दत्वेन सर्वाणुमहद्विषयत्वात् । नच बाधकं विना सामान्यशब्दो विशेषपरोऽङ्गीकर्तुमुचितः । नचैकस्यात्मनो विरुद्धपरिमाण- द्वयासम्भवादेत्रमङ्गीकारः । अणुमहत्पदार्थात्मकत्वस्य सुतरां विरुद्धत्वात् । यथाच न विरोधस्तथोपपादितमन्यत्राचार्यैः । वक्ष्यते च विरुद्धधर्मघटकमैश्वर्यं Iभगवतः । ‘“अक्रतुः अकामः दृष्टादृष्टविषयोपरतःइति व्याख्यानमसत् । दृष्टादृष्टविषयवैराग्यस्य साक्षादर्शनहेतुत्वाभावादिति भावेन तद्व्याचष्टे - ए विष्णाविति ॥ अ इत्यस्य सप्तमी ए' इति । अशब्दो ब्रह्मवाची ।अ इति ब्रह्म" इति श्रुतेरिति भावः । अनेन अक्रतुः क्रतूपलक्षितकर्मरहित इति यथाश्रुतप्रतीतिरप्यपास्ता । तर्हि विष्णुविषयक्रतुमान् पश्यतीति कथम् । क्रतोः कर्मात्मकत्वेन

तस्य साक्षादपरोक्षज्ञानसाधनत्वाभावादित्यत आह- तन्निश्चय इति ।। श्रवणादिरूपनिश्चय एव क्रतुशब्दार्थ इति भावः । आत्मनः स्वस्य महिमानं माहात्म्यमित्यन्यथाप्रतीतिनिरासाय महिमानमात्मन इत्येतद्व्याचष्टे - 'आत्मन इति ॥ षष्ठीभ्रमवारणाय सकाशादित्युक्तम् । जीवादित्यर्थः । अन्यथावीतशोको भवति" इत्यस्यानुपपत्तिः । प्रमाण- विरोधाच्च नान्यथाव्याख्यानं युक्तमिति भावेन तदर्थनिश्चायकं प्रमाणमाह- जीवादिति ॥ श्रुतौ " महिमानमात्मनः’” इत्यस्याम् ।।१.२.२०॥

श्रीवेदेशतीर्थखण्डार्थ:

उपदेशप्रकारमेवाह- अणोरिति ॥ आत्मा भगवानणोरणीयान् सूक्ष्मादपि सूक्ष्मतरः । महतो महीयान् स्थूलादपि स्थूलतरः । स्थूलस्यैवाणुप्रतियोगित्वात् अणोरणीयस्त्वमेव लेशेन दर्शयति । अस्यैवं नित्यस्य जन्तोर्जीवस्य परमसूक्ष्मस्यापि गुहायां हृदये निहित इति । ‘‘एतद्ध्येवाक्षरं ज्ञात्वाइत्यत्र न ज्ञानमात्रं विवक्षितं किन्त्वपरोक्षज्ञान- मेवेति भावेन तत्साधनं दर्शयन् तस्य फलमाह - तमिति ॥ अक्रतुः अशब्दो विष्णुवाची । ए विष्णौ क्रतुः निश्चयो यस्यासौ अक्रतुस्तन्निश्चयवानधिकारी आत्मनो जीवात् महिमानं महि महत् मानं गुणपरिमाणं यस्य स महिमानस्तं परमात्मानम् । धातुः धारकस्य परमात्मनः प्रसादात् पश्यति । ततश्च धातुः प्रसादादेव वीतशोको भवतीत्यर्थः ॥१.२.२०।।

श्रीवरदतीर्थ:

बरद- ‘‘आत्मास्य जन्तोर्निहितो गुहायाम्" इत्यत्रैव नित्यो यो जीवः योऽस्य जन्तोर्गुहायां निहित इत्येवमर्थो विवक्षित इति प्रतीतिनिरासायार्थमाह - एवमिति ॥ अक्रतुरिति कर्मरहित इति प्रतीतिनिरासायार्थमाह- एवमिति ।। इदमपि व्याख्यानं न युक्तम् । साक्षात्कर्मणो ज्ञानसाधनत्वा- भावादित्यत आह- तदिति ॥ क्रतुशब्दस्य निश्चयार्थत्वाङ्गीकारात् नैतच्चोद्यावकाश इति ।।१.२.२०।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

एवमुपदिश्यमानब्रह्मज्ञानिनः फलमुक्त्वा प्रेतजीवनियन्तृ- ब्रह्मोपदिशति - अणोरणीयानिति ॥ अस्य न बभूवेत्यादिनोक्तदिशा अनादिनित्यस्य जन्तोर्जीवस्य गुहायां हृदि प्रेरकतया निहितो नितरां स्थित इति । एतदालम्बनं ज्ञात्वेत्युक्तौ तज्ज्ञानस्य प्रथमभाविसाधनमाह - तमिति । तं अणीयस्त्वाद्युक्तगुणयुक्तं आत्मनः स्वस्मात् महिमानं महान्तं महागुणपरिमाणं अक्रतुः अकारवाच्यविष्णुविषयकक्रतुशब्दितनिश्चयवान् धातुः हरेः प्रसादात् पश्यति ध्यानद्वारा साक्षात्करोति । ततश्च वीतशोको भवति ।। १.२.२० ॥