स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति

स्वप्नाद्यवस्थानियामकस्यैव मोक्षे नियामकत्वकथनम्

उपनिषत्

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। २.१.४ ॥

श्रीव्यासतीर्थ:

नियामकं विस्तार्य ब्रूहीत्याकाङ्क्षायां स्वप्नान्तमित्यादिना नियामकं ब्रह्म विस्तरेणाह- स्वप्नान्तमिति । स्वप्नान्तमित्यतः पूर्वंहन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्" इति प्रतिज्ञावाक्यं द्रष्टव्यम् । स्वप्नान्तं स्वप्नाख्यमन्तम् । स्वप्नसुषुप्ती इति यावत् ।। २.१. ४ ॥

वामनपण्डिताचार्य:

बामन - रूपादिज्ञापकत्वं ब्रह्मलक्षणं ह्यत्रोक्तम् । तत् त्रिविधमस्तीत्याह- स्वप्नान्तमित्यादिना ॥ स्वप्नाद्यवस्थाद्वयमुक्त्वा उभाविति पृथग्वचनात् उभयात्मकावस्था च गृह्यते । इमास्तिस्रोऽपि येनैव पश्यति । ‘“बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ” ( मां.भा.२.१) इति वचनात् समुच्चयपक्षोऽपि गम्यते । तं महान्तं विष्णुं स्वामिनं मत्वा जीवो न शोचति ॥४॥

श्रीवादिराजतीर्थ:

वादि- पुनरपि जाग्रत्स्वप्नसुषुप्तिप्रेरकत्वादिना भगवतो माहात्म्यातिशय- मुक्त्वा मुक्तेरपि नित्यजाग्रदवस्थारूपत्वात् प्रेरकत्वमपि हरेरावश्यकमिति भावेनाह- स्वप्नान्तमिति ॥ स्वप्नान्तं जागरितान्तं जागरितस्थानं तत्रत्यत्र्यापारमिति यावत् । महान्तं सर्वोत्तमम् । मननानन्तरमात्मानं स्वस्वरूपं विशेषेण गोष्तुं रक्षितुं नेच्छति स्वतन्त्र भगवदिच्छयैव ममापि रक्षा भवेत् । अतोऽस्वतन्त्रेण मया मम रक्षणार्थं क्रियमाणो यत्नो व्यर्थ इति तत्रोदास्त इति भाव: । एतत् स्वाप्नजाग्रदादिप्रवर्तकं जीवस्य हृदि स्थित्वा सुखसारस्यैव भोक्तृभूतभव्यसकलजगदीशानं व्याप्तं सर्वोत्तमं वस्तु तद्वै मुक्तनियामकतया मुक्तावपि परिशिष्यमाणम् । वैशब्देनेह जीवनियामकतया जीवहृदि स्थितो भगवान् तस्यैव जीवस्य मुक्तौ सत्यां कथं हृदि स्थितो न भवेत् ? तदाऽप्यस्वतन्त्रो जीवः स्वेष्टमुक्तेर्दातारं स्वतन्त्रं च स्वहृदिस्थं भगवन्तं कथं बहिष्कुर्यादिति युक्तिप्रसिद्धिं सूचयति । विभुपदेनापि व्याप्तस्य भगवतः कथं मुक्तौ हृद्यभाव इति युक्तिः सूचिता । सकलमूर्तद्रव्यसंयोगित्वं हि विभुत्वम् ।। २.१.४ ।।

श्रीवेदेशतीर्थखण्डार्थ:

तदेवाह - स्वप्नान्तमिति ॥ अत्र स्वप्नान्तशब्दः स्वप्नसुषुप्त्यु- भयाभिप्रायेण । येन प्रेरितो जीवः । उभौ तस्यैव विवरणं स्वप्नाख्योऽन्तः स्थानं स्वप्नान्तः तम् । 'अन्तः स्थानं स्थलं वास: प्रदेश इति चोच्यते " (बृ.भा.६.३.११ ) इत्यभिधानात् । "जागरितान्तञ्च" जागरितस्थानं च पश्यति तं महान्तं परममहत्त्वोपेतं अत एव विभुमात्मानं मत्त्वा धीरो न शोचति ।। २.१.४ ॥

श्रीवरदतीर्थखण्डार्थ:

माहात्म्यज्ञानपूर्वकं जानीयामिति नचिकेतसा प्रार्थितत्वात्त- न्माहात्म्यं निरूपयति- स्वप्नान्तमित्यादिना ॥ स्वप्नान्ता स्वप्नावस्था, जागरितान्ता जागृदवस्था, स्वप्नान्तं जागरितान्तञ्चेत्युभौ अन्तौ येन हरिणा पश्यति जीवः तं महान्तं विष्णुं ज्ञात्वा धीरो न शोचतीत्यर्थः ।। २.१.४ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

मुक्तौ नियामकं ब्रह्मस्वरूपं विस्तरेण ब्रूहीति पृष्टो यमो विस्तरेणाह - स्वप्नान्तमिति ॥

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।

यथा मरणं प्राप्यssत्मा भवति गौतम ||

इति उत्तराध्यायगतं प्रतिज्ञावाक्यं अत्रादौ योज्यमिति वदन्ति । भाष्ये अत्रैव व्याख्यानात् । पूर्वार्धः स्पष्टार्थः । उत्तरार्धस्य तु आत्मा जीवः मरणं प्राप्य यथा भवति तच्च प्रवक्ष्यामि । जीवेशभेदज्ञापनायेत्यर्थः । स्वप्नान्तं सुषुप्तिम्, जागरितान्तं स्वप्नं चोभौ सुषुप्तिस्वप्नौ येन प्रेरितो जीवः पश्यति तं महान्तमित्यन्वयः ।। २.१.४ ॥