आसीनो दूरं व्रजति शयानो याति सर्वतः

ऐश्वर्यादिव आसीनः भगवान् दूरं व्रजति

उपनिषत्

आसीनो दूरं व्रजति शयानो याति सर्वतः ।

कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।। १.२.२१॥

भाष्यम्

ऐश्वर्यादेवआसीनो दूरं व्रजति" इत्यादि ।

'आसीनो दूरं व्रजति शयानो याति सर्वतः ।

ऐश्वर्याद्भगवान्विष्णुर्विरुद्धं घटयत्यसौ ।" इति च ॥

॥ इति काठकभाष्ये प्रथमाध्यायस्य द्वितीया वल्ली ॥ १.२.२१ ।।

श्रीव्यासतीर्थ:

व्यास - पुनश्च महिमानमेवाह - आसीन इत्यादिना || मदश्चामदश्च यस्माद्भवतः असौ मदामदः । तं मदामदम् ॥ १.२.२१।।

व्या.भा- विरोधादासीनत्वं तत्त्वम् । दूरव्रजनं तु भ्रान्तमित्यन्यथाप्रतीतिं निवारयंस्तद्धटकमाह- ऐश्वर्यादिति ॥ युज्यत इति शेषः । आसीनस्य दूरव्रजनं व्याहतेरयुक्तमित्यतो घटकमुक्तम् । तत्कुत इत्यतस्तत्प्रमाणं पठति- आसीन इति ॥ १.२.२१॥

वामनपण्डिताचार्य:

आसीनःइत्यादिलोकविलक्षणानपि धर्मान् विष्णोरुपदिशति । तत्र युक्तिं भगवानाह - ऐश्वर्यादेवेति । नहीदं मायाशक्त्येति मथितार्थः । तदपि ‘‘आसीनः’” इत्यादि महावराहवचनेन दृढयति । स्वभक्तान् मदयति स्वाभक्तान् न मदयतीति भगवान् मदामदः । मदन्यः प्राकृतपुरुषः ।।

श्रीवेदेशतीर्थ:

नन्वासीनस्य दूरव्रजनादिकं विरुद्धम् । नहि भगवान् मायावी । येनैन्द्रजालिकक्रियावदुपपत्तिः स्यादित्यत आह- ऐश्वर्यादेवेति ॥ तत्र प्रमाणमाह- आसीन इति ॥ अनेन " अणोरणीयान् महतो महीयान्इत्येतद्विरुद्धमिति परास्तम् ।।१.२.२१।।

श्रीवेदेशतीर्थखण्डार्थ:

पुनरपि तन्माहात्म्यमाह - आसीन इति ॥ आसीनः उपविष्ट एव दूरं व्रजति । शयान एव सर्वतो याति परमैश्वर्यात् । तं मदामदं मदः सुखं अमदो दुःखं मदसहितोऽमदो येनासौ मदामदस्तं विबुधासुरसुख- दुःखकारणमिति यावत् । भगवन्तं मदन्यः को वा मद्वत् ज्ञातुमर्हति न कोऽपीत्यर्थः । यो मदन्यस्तं मदामदं को वा साकल्येन ज्ञातुमर्हति । न कोऽपीति वा योज्यम् । यद्वा मदन्यः कः ब्रह्मैव तं मदामदं देवं सकलवेदोक्तप्रकारेण ज्ञातुमर्हति नत्वन्य इत्यर्थः ॥ १.२.२१।।

श्रीवरदतीर्थ:

वरद- 'महिमानमात्मनः " इति स्वस्य माहात्म्यञ्चेत्यर्थं इति प्रतीतिनिरासायाह- ऐश्वर्यादिति । अस्मिन्नेव व्याख्याने संवादञ्चाह- आसीन इति ॥ १.२.२१।।

श्रीवरदतीर्थखण्डार्थ:

मदामदमिति ॥ सुजनानां सुखकारणत्वात् मदम्, दुर्जनानां दुःखकारर्णत्वादमदम् ॥१.२.२१॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

पुनश्च भगवतो महिमानमेवाऽह - आसीन इति ॥ सामर्थ्याति- शयादेवाऽसीन इत्यादिविरुद्धधर्मवत्त्वं तस्य ज्ञेयम् । मदामदं मदश्चामदश्च सुखमसुखं ततो भवतीति मदामदं सुखासुखहेतुं तं देवं मदन्यः कः ज्ञातुमर्हति ।।१.२.२१।।