योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः
मनुष्यादियोनिं प्राप्तानां जीवानां नियामकत्वं हरेरेव
उपनिषत्
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ।। २.२.७ ॥
श्रीव्यासतीर्थ:
ब्या- आत्मा मरणं प्राप्य यथा भवतीति प्रतिज्ञातमाह - योनिमिति ॥ शरीरत्वाय शरीरवत्त्वाय ।। २.२.७ ।।
श्रीवेदेशतीर्थखण्डार्थ:
एतदेवाह - योनिमिति । अन्ये केचित् देहिनः मृताः सन्तः शरीरत्वाय शरीरवत्त्वाय मनुष्यादियोनिं प्रपद्यन्ते । तन्नियामकतया भगवानपि योनिं प्रपद्यते इति भावः । अन्ये केचित् स्थाणुं अनुसंयन्ति । तन्नियामकतया भगवानपि । केषाञ्चित् योनिप्राप्तिः केषाञ्चित् स्थाणुप्राप्तिरिति कुत इत्यत आह- यथेति ॥ तत्तज्ज्ञानकर्मानुसारेण तत्तत्प्राप्तिरिति भावः ।। २.२.७ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
तत्र ब्रह्मगुणान् इयता निरूप्योत्तरत्रापि जीवभेदकगुणान् ब्रह्मणो विवक्षुरितरेणेति पूर्वमन्त्रे भेदस्य प्रस्तुतत्वात् तत्प्रकटनाय मरणं प्राप्य आत्मा जीवो यथा भवति तच्च वक्ष्यामीत्युक्तम् । ब्रह्मण्ययुक्तं धर्मं जीवस्याऽऽह- योनिमिति ॥ देहिनो देहधारणयोग्याः अन्ये केचन जीवाः शरीरत्वाय, अर्श आद्यच् प्रत्ययान्तात् त्वप्रत्ययः, शरीरवत्त्वाय योनिं प्रपद्यन्ते प्राप्नुवन्ति कथम् ? यथाकर्म यथाश्रुतम्, स्वस्वविद्याकर्मानतिक्रमेण । अन्ये देहिनः स्थाणुं स्थावरं देहं संयन्ति स्वकीयकर्माद्यनुसारेणेति ।। २.२.७ ।।