नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्

देशविशेषे कालविशेषे च एतद्विद्याया:- श्रवणादिना जायमानं फलम्

उपनिषत्

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।

उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ।। १.३.१६ ॥

श्रीव्यासतीर्थ:

अत्राध्यायस्य समाप्तत्वादुक्तविद्यां श्रुत्वा वक्तुः फलमाह- नाचिकेतमिति ॥ १.३.१६ ॥

वामनपण्डिताचार्य:

अस्य श्रवणादिकमप्यभीष्टफलप्रदमित्याह - नाचिकेतमिति ॥ नाचिकेताग्निस्थभगवद्विषयं नचिकेतसा सुकृतं च । तत्त्वज्ञानी विरिञ्चोके | तत्त्वदर्शी चेंद् विष्णुलोके ।। १.३.१६ ।।

श्रीवेदेशतीर्थखण्डार्थ:

वेदपुरुष: पूर्वोक्तां विद्यां स्तौति - नाचिकेतमिति ॥ सनातनं अनादिकालत इत्थमेवागतम् । श्रुत्वा उक्त्वा चेति योज्यम् ॥ १.३.१६ ।।

श्रीवरदतीर्थखण्डार्थ:

अध्यायसमाप्तौ विद्यायाः फलमाह - नाचिकेतमिति ॥ १६ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

एवं वेदपुरुषः यमनचिकेतस्संवादमनूद्य साधुशिक्षां च कृत्वा एतद्विद्याप्रवचनश्रवणयोः फलोक्तिपूर्वकमुपसंहरति नाचिकेतमिति ॥ नचिकेतसः सम्बन्ध्युपाख्यानं तच्चरितप्रतिपादकग्रन्थसन्दर्भम् । सलोपः छान्दसः । व्यक्तो मन्त्रद्वयार्थः ।। १.३.१६ ।।

Load More