न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः
शैवाद्युपदेशेन भगवज्ज्ञानं न भवति
उपनिषत्
न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ १.२.८।।
भाष्यम्
अन्यो भगवानन्योऽहमित्यजानन्ननन्यः । तेन प्रोक्ते गतिर्ज्ञानं नास्ति । " प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ" इति वाक्यशेषात् ॥
जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् ।
तदनुव्रताश्च ये केचित्तेषां ज्ञानं न जायते ।। इति ब्रह्मवैवर्ते
श्रीव्यासतीर्थ:
ननूपनिषदादिभिर्ब्रह्म केचन जानन्त्येवातः कथं बक्ता दुर्लभ इत्यतः ते सम्यज्ज्ञानरहिता इत्याह- न नरेणेति । अज्ञानिनावरः प्रोक्त एष सुज्ञेयो न भवतीत्यर्थः । कस्मान्नरेणावरत्वेनोच्यते इत्यत उक्तम्- बहुधेति ॥ अष्टगुणकत्वादिरूपेण बहुधा चिन्त्यमानत्वात् । अद्वैतिना प्रोक्ते ज्ञानमेव न जायत इत्याह- अनन्येति ॥ अत्र ब्रह्मणि अनन्यप्रोक्ते गतिर्ज्ञानं नास्ति । व्याख्यातुरभावात् मा भूदागमेन तत् ज्ञानम् । प्रत्यक्षतर्काभ्यां भविष्यतीत्यत आह- आणीयानिति || अणुप्रमाणादणुपरिमाणतोऽणीयानतिसूक्ष्मं महत्त्वेऽपि अतीन्द्रियं अतः प्रत्यक्षं न भवति । अतर्क्यं च ब्रह्म पक्षीकर्तुमशक्यत्वात् । क्षित्यादिपक्षीकरणे कार्यत्वादिहेतोः सत्प्रतिपक्षत्वात् ।। १.२.८।।
श्रीव्यासतीर्थ:
व्या. भा- अनन्यप्रोक्ते गुरुणा विना आत्मनैव दृष्टे सति शास्त्रे गतिर्नास्तीति अन्यथाप्रतीतेस्तव्याचष्टे - अन्य इति ॥ तथा कस्मान्न स्यादित्यत आह- प्रोक्तेति ॥ समाख्यया च स्वव्याख्यां समर्थयते- जीवानामिति ॥ १.२.८॥
वामनपण्डिताचार्य:
तत्रतत्र शास्त्रकारैः शास्त्र एवेत्थम्भूत इत्युच्यमानत्वात् सुज्ञेय एवेत्यत आह न नरेणेति ॥ एष परमात्मा येनकेनचित् खद्योतसदृशात्यल्प- ज्ञानिना नरेण सर्वगुणपूर्णत्वादिकमनङ्गीकृत्यात्यन्तमवरत्वेन प्रोक्तः सुष्ठु ज्ञेयो न भवतीति । जीवाभिन्नत्वेन, निर्गुणत्वेन, निर्विशेषत्वेन, भिन्नाभिन्नत्वेन, अष्टगुणत्वेन, अक्रियत्वेन, अव्यापकत्वेन इत्यादिरूपेणान्यथैव बहुधा चिन्त्यमानत्वात् । एवं चेत् जीवपरयोरनन्यत्वमित्येकधैव चिन्तनात् परत्वेन प्रोक्तः सुज्ञेयः स्यादित्यत आह- अनन्येति । एतद्वाक्यं विवृणोति — अन्य इत्यादिना भाष्येण || दुःख्यहमल्पज्ञोऽहमित्यनुभवसिद्धाज्जीवादन्यो भगवान्, सार्वज्ञ्यादिगुणविशिष्टाद् भगवतोऽन्योऽहमित्येतदजानता प्रोक्ते गतिः तत्त्वज्ञानं न सञ्जायते । तद्वचनस्य भ्रान्तिमूलत्वात् । सूक्ष्मप्रमाण- त्रेदिभिरेव हि सूक्ष्मरूपस्य हरेरतर्क्यरूपं सुज्ञेयमित्यर्थः ।। १.२.८ ।।
श्रीवादिराजतीर्थ:
वादि - अन्यो न भवतीत्यनन्यः स्वयम्, स्वेनैव प्रोक्त इत्यर्थस्य च वक्तृश्रोत्रार्भेदावश्यम्भावेनाप्रस्तुतप्रसङ्गत्वापातात् अन्यो भगवानन्योऽहमित्य- जानन्ननन्य इति भावेनोक्तं भाष्ये- अन्यो भगवानिति ॥ १.२.८ ॥
श्रीवेदेशतीर्थ:
"अनन्यप्रोक्ते गतिरत्र नास्ति" इत्यस्य "अनन्येनैवा- पृथग्दर्शिनाचार्येण प्रतिपाद्यब्रह्मभूतेन प्रोक्ते अत्रात्मनि गतिरनेकधास्ति नास्तीत्यादिलक्षणा चिन्ता नास्ति" इति व्याख्यानमसत् । वक्ष्यमाणरीत्या
ब्रह्मात्मैकत्वस्य बाधितत्वेन वस्तुत आचार्यस्य प्रतिपाद्यब्रह्मभूतत्वायोगात् ज्ञानमात्रव्युत्पन्नेन गतिशब्देन
तद्विशेषसंशयापरपर्यायचिन्तारूपार्थ- ग्रहणायोगाच्चेति भावेनाह- अन्य इति ॥ वस्तुगत्यानन्यत्वं बाधितमित्येवं व्याख्यातम् । तद्विपरीतञ्च जानन्नित्यपि ग्राह्यम् । ज्ञानं सम्यज्ज्ञानम् । ननु ज्ञानवाचकगतिशब्दस्य तद्विशेषपरत्वं भवतामप्यावश्यकम् । अतः संशयपरत्वमेव किन्न स्यादिति चेन्न । प्रमासंशययोः प्रमाया अतिशयितत्वेन तद्ग्रहणस्यैवोचितत्वात्, वक्ष्यमाणदोषाच्चेति । कुत एवं व्याख्येयं परोक्त एवार्थः किन्न स्यादित्यत आह- प्रोक्तेति ॥ वाक्यशेषे अन्येनैव जीवेश्वरभेदज्ञानिनाचार्येण प्रोक्ता वेदप्रवचनोत्पादितैव मतिः सुज्ञानाय साक्षात्काराय भावतीत्युक्तत्वेन "अनन्यप्रोक्ते" इति वाक्यमपि जीवेश्वरभेदाज्ञानिना तदभेदज्ञानिना च प्रोक्ते ज्ञानं नास्तीत्येव व्याख्येयम् । नत्वपृथग्दर्शिना प्रोक्ते आत्मनि उक्तप्रकारसंशयो नास्तीति वाक्यशेषविरोधादिति भावः । ननु वाक्यशेषस्थस्यान्येनेत्यस्यागमाभि- ज्ञेनेत्यर्थकत्वान्न विरोध इति चेन्न । तथासत्यनन्यप्रोक्त इत्यस्यागमानभिज्ञ- प्रोक्त इति व्याख्येयत्वेनापृथग्दर्शिप्रोक्त इति व्याख्यानायोगात् । अपदार्थत्वादनन्यशब्दः आगमानभिज्ञपरतया न व्याख्यायत इति चेत् तर्हि अन्येनेत्यस्यापि पृथग्दर्शिनेत्येव व्याख्येयतया आगमाभिज्ञेनेति व्याख्यानायोगात् । एतेन ‘“ अनन्यप्रोक्ते गतिरत्र नास्ति” इत्यत्रागतिरिति पदच्छेदमभ्युपेत्यानन्येन प्रोच्यमानब्रह्मभूतेनाचार्येण प्रोक्ते सति आत्मनि अगतिरनवगतिरनवबोधो नास्ति भवत्येवावगतिस्तद्विषया श्रोतुः
तदनन्योऽहमित्याचार्यस्येवेत्यर्थ इति यत्परकीयं व्याख्यानान्तरं तदपि परास्तम् । आचार्यस्य बस्तुतः प्रोच्यमानब्रह्मभूतत्वस्य बाधितत्वात् । अपृथग्दर्शिनेत्यर्थाङ्गीकारेऽपि ऐक्यज्ञानिना प्रोक्ते श्रोतुरैक्यज्ञानसम्भवेऽपि तस्य ज्ञानस्य भ्रान्तित्वेन सम्यज्ज्ञानत्वाभावात् । ऐक्यज्ञानस्य भ्रान्तित्वं कुत इति चेत् । बाक्यशेषे जीवेश्वरभेदज्ञानिनाचार्येण वेदप्रवचनोत्पादिता मतिः सुज्ञानाय भवतीत्युक्त्या भेदज्ञानस्यैव सम्यज्ज्ञानत्वावगमादिति भावः । यच्चोक्तमन्यस्वात्मभूते आत्मनि प्रोक्ते सति गतिरवगतिरन्या सम्पाद्या नास्ति । ऐक्यादन्यस्य ज्ञेयस्याभावात् । ज्ञानस्यैषा निष्ठा यदात्मैकत्वविज्ञानमिति । तदप्यसत् । अनन्यप्रोक्त इत्यस्य समस्तत्वेन अनन्ये आत्मनीति व्याख्यानायोगात् । बुद्ध्या विवेकेन अनन्य इत्यस्यात्रेत्यनेनान्वयं कृत्वा व्याख्यायत इति चेन्न । यथाश्रुतानुपपत्तौ तथा व्याख्येयत्वात् । प्रोक्त इत्यत्र कर्त्रनुक्तिप्रसङ्गात् अन्यावगतिरित्यन्यशब्दाध्याहारप्रसङ्गात्
वाक्यशेषपर्यालोचनया भेदज्ञानस्यैवावश्यसम्पाद्यत्वावगमेन तद्विरोधाचेति ॥ प्रमाणविरोधाच्च न परव्याख्यानं युक्तम् । किन्तु स्वकृतमेवेति भावेन श्रुत्यर्थनिश्चायकं प्रमाणमाह- जीवानामिति ॥ अभिधाञ्च वेत्तीति ग्राह्यम् । ज्ञानं सम्यज्ज्ञानम् । न जायत एवेति सम्बन्धः ॥ १.२.८ ।।
श्रीवेदेशतीर्थखण्डार्थ:
बे.खं- ननु शैबादिशास्त्रव्याख्यातॄणां बहूनामुपलम्भेन त एवास्य वक्तारो भविष्यन्तीति कथं दुर्लभ इत्यत आह- न नरेणेति ॥ नरेण मनुष्येण शैवब्राह्मसौरगाणपत्यादिना प्रोक्त एषः सुज्ञेयो न भवति । यतस्तेनावरः प्रोक्तः शिवादिरेव सर्वोत्तमो भगवांस्तदपेक्षयावर इत्युक्तः । तर्हि तदुक्तप्रकारेणायमवर एव किन्न स्यादित्यत आह- बहुधेति ॥ बहुगुणत्वेन पूर्णगुणत्वेन चिन्त्यमानो वेदादिभिर्यतोऽतो नायं तेन तथोक्तोऽप्यवरस्तस्य मिथ्याज्ञानित्वादिति भावः । तर्हि मास्तु शैवादिरस्य वक्ता अद्वैतवादी तु भविष्यतीत्यत आह- अनन्येति ॥ अन्यो भगवानन्योऽहमित्यजानन् स एवाहमिति जानंश्चानन्यः तेन प्रोक्ते अत्र ब्रह्मणि गतिर्ज्ञानं सम्यज्ज्ञानं न जायते कुतः जीवेश्वरयोर्विरुद्धधर्माधिकरणत्वेन भिन्नत्वात्तदभेदज्ञानिनो मिथ्याज्ञानित्वादिति भावेनाह- अणुप्रमाणादपि जीवादणीयान् हीति ॥ तस्मादस्य यथार्थतो ज्ञाता कुशलानुशिष्टो बक्ता आश्चर्य इति ध्येयम् । एवं
व्याख्यात्रभावेन आगमात्तज्ज्ञानासम्भवेऽपि प्रत्यक्षेण तज्ज्ञानं सम्भवतीत्यत- स्तदविषयत्वञ्चाह- अणीयानिति ॥ अणुप्रमाणादप्यणीयान् हि यस्मात् अतः प्रत्यक्षं न भवति ।। तर्हि अनुमानेन तन्निश्चयो भविष्यतीत्यत आह- अतर्क्यमिति ॥ १.२.८ ॥
श्रीवरदतीर्थ:
वरद.भा- “अनन्यप्रोक्ते" इत्यत्र अन्येन गुर्वादिना अप्रोक्ते अनुपदिष्टे अत्र अस्मिन् ब्रह्मणि गतिः ज्ञानं नास्ति न भवतीत्यन्यथाप्रतीति- निरासायार्थमाह- अन्य इति ॥ कुत एवमर्थकल्पनेत्यत आह- प्रोक्तेति ॥ केनचित् व्याख्याने कृते सत्येव ब्रह्मज्ञानं भवति नतु स्वयमेव ग्रन्थनिरीक्षणादिना भवतीत्येवमस्य वाक्यस्य व्याख्या नोपपद्यते । एतन्निगमनात्मके " प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ" इतिवाक्यशेषे अज्ञानविशिष्टेन प्रोक्तैव सुज्ञानाय भवतीत्युक्तत्वादन्यथाप्रोक्तैव सुज्ञानाय प्रेष्ठेत्येतावता पूर्णत्वेनान्यपदवैयर्थ्यप्रसङ्गात्, प्रोक्तेत्यनेनैवान्यप्रोक्तत्वसिद्धे- रित्यर्थः । अस्मिन्नेव व्याख्याने वचनान्तरञ्चाह - जीवानामिति ॥ १.२.८
श्रीवरदतीर्थखण्डार्थ:
ननु मनुष्या व्याख्यातारो भवन्ति अतः कथं बक्तरपूर्वत्वमित्यत आह- न नरेणेति । एष हरिर्नरेण मनुष्येण प्रोक्तः व्याख्यातः सुज्ञेयो न भवति । कुतः- अवरप्रोक्त इति । यतः मनुष्या अवरत्वेन हरिं प्रतिपादयन्ति अतो मनुष्येभ्यो यथार्थज्ञानं हरिविषये दुर्लभमित्यर्थः । किञ्च बहुधा च मनुष्या हरिं मन्यन्ते केचिन्निर्गुणत्वेन केचिदष्टगुणत्वेनेत्यादि । नत्वेकप्रकारेणैव हरिमुपदिशन्ति । अतश्च नरेभ्यो हरिज्ञानं सम्यङ् न भवतीत्याह - बहुधेति ॥ नन्वेवं सति किं सर्वथा हरिज्ञानं न भवत्येव नेत्याह- अनन्येति ॥ १.२.८ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
निरीश्वरवादिनां तदज्ञानेऽपि सेश्वरास्तु जानन्त्येवेत्यतः कथं वक्तृश्रोत्रोर्दुर्लभत्वमित्यतः सम्यज्ज्ञानिनस्ते न भवन्तीत्याह- न नरेणेति ॥ नरेणाज्ञानिमनुष्येण प्रोक्तोऽवरोऽप्रकृष्टः । कुतः ? बहुधा प्रकृत्युपसर्जनत्वाल्प-
गुणत्वप्राकृतदेहत्वादिनानाप्रकारेण चिन्त्यमानस्सन् तैरेषः सु सम्यक् यथावत्तया ज्ञेयो न भवतीति अद्वैतिना प्रोक्ते भगवज्ज्ञानमेव न जायत इत्याह- अनन्येति ।। अहं ब्रह्मणोऽनन्य इति जानन् स्वात्मब्रह्मणोर्भेद- मजानन् ऐक्यमेव जानन् अनन्य उच्यते । तेन प्रोक्ते अत्र ब्रह्मविषये गतिर्ज्ञानं नास्ति । यत्किञ्चिन्निर्विकल्पकवस्तुज्ञानमेव न भवतीति भावः व्याख्यातृवचनेन ब्रह्मज्ञानाभावेऽपि प्रत्यक्षानुमानाभ्यां स्यात् तज्ज्ञानमित्यत आह- अणीयानिति ॥ अणुप्रमाणात्, अणुपरिमाणतोऽणीयान् अतिसूक्ष्मं हि यतो अतो न प्रत्यक्षम् । अतर्क्यं च अनुमानागोचरञ्च । केवलानुमानस्य प्रतिपक्षादिग्रस्तत्वादिति भावः ।। १.२.८ ।।