स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्

स्वर्ग्यान्युपदेशरूपद्वितीयवरप्रार्थनम्

उपनिषत्

स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो

प्रब्रूहि तं श्रद्दधानाय मह्यम् ।

स्वर्गलोका अमृतत्वं भजन्ते

एतद् द्वितीयेन वृणे वरेण ।। १.१.१३ ।।

श्रीव्यासतीर्थ:

स्वर्ग्यं स्वर्गसाधनं अध्येषि जानासि । ज्योतिष्टोमादौ प्रवृत्तस्य रोचकफलं स्वर्गः प्रधानफलं तु मोक्ष इत्याशयवानाह- स्वर्गेति ।। एतत् द्वितीयेन वरेण वृणे द्वितीयं वरं वृणे ।। १.१.१३ ।।

वामनपण्डिताचार्य:

अथ नचिकेताश्च "स्वर्गे लोके" इत्यादिना भगवल्लोकं प्रशस्य " स त्वमग्निम्इत्यादिना तत्प्रापकमग्निं पृच्छति । स्वयमेव रमते स्वस्मिन्नेव चेति स्वर्नामा नारायणः । तेन गतो वैकुण्ठादिस्तल्लोकः स्वर्गलोक उक्तः । तत्प्रापकत्वाद् विष्णुरेव स्वर्ग्याग्निरुच्यते । किञ्चित्कालं स्वर्गे स्थिता जना अपि स्वर्गलोका उच्यन्ते । "जनो लोकः प्रजा प्रोक्तः" इत्यभिधानात् । ते क्रमात् अमृतत्वं भजन्ते । प्रागेव ज्ञानित्वात् ।तत्र भयातिगः । उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात् '' इत्यधस्तादुक्तम् ।। १.१.१२-१३ ॥

श्रीवेदेशतीर्थखण्डार्थ:

वे.स्वं- किं तत इत्यत आह- स त्वमिति ॥ हे मृत्यो स त्वं मम वरदाता त्वं स्वर्ग्यं पूर्वोक्तमाहात्म्यवत्स्वर्गसाधनीभूतं अग्निं अग्निस्थमग्र्यत्वादनिनामानं विष्णुम्, अध्येषि अधिकं जानासि तं श्रद्दधानाय मह्यं प्रब्रूहि सम्यक्कथय इत्येतत् द्वितीयेन वरेण वृणे । न केवलं ज्योतिष्टोमानिस्थविष्णुज्ञानिनः स्वर्ग एव फलम् । किन्तु स्वर्गप्राप्त्यनन्तरं मोक्षोऽपीत्याह- स्वर्गलोका इति ॥ स्वर्गो लोको येषां ते स्वर्गलोकाः स्वर्गे विद्यमाना जना वा अमृतत्वं मोक्षं क्रमाद्भजन्ते ।। १.१.१३ ॥

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- स त्वमग्निं स्वर्गमध्येषि इति स्वर्गसाधनमग्निष्टोमयज्ञं जानासीत्यर्थः ।। १.१.१३ ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

एवं स्वर्ग्याग्निज्ञानफलं निरूप्य स्वर्ग्यानिं पृच्छति - सत्त्वमिति ॥ मृत्यो स त्वं स्वर्ग्यं उक्तरूपस्वर्गसाधनमग्निं अग्निशब्दितेष्टकाचितिस्थ- मग्र्यत्वादिगुणयुक्ततयाऽग्निनामकं हरिम् अध्येषि जानासि । तं चितिस्थ- मग्निनामकं हरिं श्रद्दधानाय मह्यं ब्रूहि । कुत: ? न हि स्वर्ग्यत्वमात्रेण तद्वचनमावश्यकमित्यत आह- स्वर्गेति ॥ स्वर्गो लोको येषां ते तथोक्ताः मन्वन्तरं स्वर्लोके स्थास्यन्तः पश्चादमृतत्वं मुक्तिं भजन्ते प्राप्नुवन्ति । एतत् एतं द्वितीयेन वरेण द्वितीयं वरं वृण इत्यर्थः ।। १.१.१३ ।।