न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्
अपरोक्षज्ञानिनो जनिमृती न स्तः इत्यस्य विवरणम्
उपनिषत्
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न ह्यन्यते हन्यमानेऽपि देहे ॥ १.२.१८ ॥
भाष्यम्
'देहोत्पत्तिविनाशाख्यौ ज्ञानिनोऽप्युद्भवाभवौ ।
न कुतश्चिद्यतो विष्णुर्जायतेऽतस्तदीक्षणात् ॥
भावाभावौ न विदुषो यस्माज्जीवो न कश्चन ।
जायते म्रियते वाऽपि स्वरूपेण कथञ्चन ।
अजो नित्योऽविकारश्च जीवः पुरमणन्नपि ।। " इति च ॥
अयं भगवान् कुतोऽपि न बभूव यस्मादतस्तद्वेत्ताऽपि विपश्चिन्न जायते, न म्रियते च । यतः कथिंजीवः स्वतो न बभूव । देहसम्बन्धाद्धि जायते । विपश्चितस्तु देहसम्बन्धाभावान्न जायते न म्रियते च ॥
।। १.२.१८ ।।
श्रीव्यासतीर्थ:
ननु ब्रह्मलोकं प्राप्तोऽपि कदाचिज्जन्मादिमांश्चेत्तर्हि न तदतिशयितं फलमित्यत आह- न जायत इति ॥ कुतो न जायत इत्यतो बिम्बस्य जननादिरहितत्वादित्युक्तम्- नायं कुतश्चिदिति ॥ बन्धदशायामपि न जायते जीवः । किमु तदपगम इत्युक्तम्- न बभूव कश्चिदिति ॥ हेतुमुक्त्वा निगमयति- अजो नित्य इति ॥ १.२.१८ ॥
व्या.भा- ‘“न जायते म्रियते वा विपश्चित्" इत्येतद्व्याचष्टे - देहेति ॥ नेत्युत्तरत्रापि सम्बध्यते । न कुतश्चिदित्येतत्प्रकृते हेतुत्वाप्रतीतेर्व्याचष्टे - न कुतश्चिदिति || भावाभावौ जनिमृती । " न बभूव कश्चित्" इत्येतत्प्रकृते हेत्वन्तरार्थत्वाप्रतीतेर्व्याचष्टे - यस्मादिति ॥ "अजो नित्यः" इति निगमनवाक्यं व्याचष्टे- अत इति ॥ अतः स्वरूपेण जननाभावात् अजो नित्यश्च । “शाश्वतोऽयं पुराणः" इत्येतदप्रतीतेर्व्याचष्टे - अविकारश्चेति ॥ " नायं कुतश्चिन्न बभूव कश्चित्" इति वाक्यद्वयं प्रमाणवचनेऽपि प्रकृतहेत्वर्थतया स्फुटमप्रतीतेः स्ववचनेन स्पष्टं व्याचष्टे - अयमित्यादिना ॥ ।। १.२.१८।।
वामनपण्डिताचार्य:
ननूत्पत्तिनाशवतो जीवस्य कथं नित्यावस्थितियोग्यत्व- मित्याशङ्कय परिहरति- न जायत इत्यादिना ॥ अस्य वाक्यस्याभिप्रायमपि " देहोत्पत्ति" इत्यादिना महावराहवचनेनैव प्रकाशयति । “न जायते म्रियते वा विपश्चित्'' इत्यत्र ब्रह्मज्ञानिनोऽप्युद्भवाभवौ निषिद्धयेते । देहोत्पत्ति- विनाशावप्येतावेव जीवस्यानादितः सम्पृक्तौ । एवं जीवस्यैवन्त्वे तत्प्रहाणे किं कारणमित्याकाङ्क्षायामाह - नायं कुतश्चिदिति । अयं विष्णुः देहतः स्वरूपतो वा कुतश्चिदपि न जायते म्रियते चेति । अतः तदीक्षणात् तद्विदुषोऽपि तत्प्रसादात् भावाभावौ न भवत इत्युक्तौ । अतद्विदस्तु स्यातामेवैतौ । परिहर्तुमशक्यत्वात् । अथ स्वरूपोत्पत्तिविनाशौ कस्यापि जीवस्य न स्यातामित्याह - न बभूव कश्चिदित्यादिना ॥ “कश्चित् " अज्ञानी ज्ञानी वा जीवः इतः पूर्वं स्वरूपेण “ न बभूव " नोदपद्यत । अथाप्येष स्वरूपेण सर्वथा न जायते न म्रियते चेति यस्मात् तस्मात् तद्विवक्षया जीवस्याजत्वादिविशेषणं पठ्यते । यद्यपि जीवः पुरं देहमणतीति पुराणशब्देन जन्मभागुच्यते । अथापि स्वरूपतो जन्माभावात् अज इत्युच्यते । मरणाभावात् नित्यश्वोक्तः । परिणामाख्यविकाररहितत्वात् शाश्वतश्च स भवति । अथापि न जायत इत्यादिवाक्यस्यान्वयभेदं स्ववाक्येनापि सुव्यक्तं वक्ति अयं भगवानित्यादिना ॥ यद्यपि नित्यानित्यपदार्थानां सत्तादिधर्माः परत एव भवन्ति । तथाऽप्यस्य सत्तामात्रमपि नान्याधीनम् । कुतः पुनः पारतन्त्र्यातिरेकलक्षणं जन्मेत्यर्थः । तद्वेत्तुरपि जन्माभावोक्तेस्तस्य तदभावः कैमुत्यान्निश्चीयते । यदि वा ज्ञानिनः स्वरूपोत्पत्तिनाशयोरेवाभावोऽभिप्रेतः स्यात् तर्हि अज्ञानिनस्तद्भावो ह्यनुज्ञातः स्यात् । नहि तस्यापि सोऽस्तीत्याह -- यतः कश्चिदिति ॥ नह्ययं स्वरूपेण जायत इति क्वाप्युक्तम् । नच तस्य स्वरूपनाशलक्षणं मरणमपि श्रूयते ॥ १.२.१८ ॥
श्रीवादिराजतीर्थ:
वादि- ‘“न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ” इत्यत्र विपश्चित् भगवन्तमपरोक्षीकृत्य मुक्त इत्यर्थः । अयं बिम्बभूतः परमात्मा कुतश्चित् न जायते न म्रियत इति पूर्वेणान्यः । अत एव तत्प्रतिबिम्बभूतो मुक्तोऽपि न जायते न म्रियते चेति भावः । वर्तमान- प्रयोगान्मुक्त्यवस्थेति ज्ञायते । कैमुत्यमप्याह " न बभूव कश्चित्" इति । कश्चिद् यः कश्चिज्जीवः संसारदशायामपि न बभूव "जीवो नित्यो धातुरस्य त्वनित्यः” इति वचनात् । देह एवोत्पद्यते नश्यति च, न तु जीवः । अत एवातीतसंसारदशाज्ञापनायातीतप्रयोगः ॥ १.२.१८।।
श्रीवेदेशतीर्थ:
ननु यदुक्तमिदं प्रकरणं विष्णुपरमेवेति तन्त्र । " न जायते" इति मन्त्रे जीवस्य जननमरणाभावोक्तेस्तस्य जीवविषयकत्वावगमात् । तथाहि विपश्चित् अविपरिलुप्तज्ञानस्वभावो न जायते न म्रियते च नायमात्मा कुतश्चित्कारणाद्बभूव स्वस्माच्च न बभूव कश्चित्पदार्थः । अतोऽयमात्मा अजो नित्यश्च शाश्वतः अपक्षयवर्जितः अत एव पुराणः पुरातन एवेति । नचैतत्प्रकरणस्य विष्णुपरत्वे मन्त्रः सङ्गच्छते । असङ्गतत्वादिति चेन्मैवम् । विपचिच्छब्दस्य ज्ञानिमात्रे निरूढस्याविपरिलुप्तज्ञानस्वभाव इति ज्ञान्यज्ञानिसाधारण्यकारणायोगात् । कुतश्चिन्न जायत इत्येतावता पूर्तेर्नायमित्यस्य वैयर्थ्यात् । कारणान्तराभावेऽपि स्वस्मादेवोत्पत्तिः- भवत्वित्याशङ्काया एवानुदये न " न बभूव कश्चित् ” इत्यस्यावक्तव्यत्वाच्च । कारणमात्रस्यापि कुतश्चिदित्यनेन निषेधसम्भवात् । नचास्माकमसङ्गतिदोषः । " एतदालम्बनं ज्ञात्वा" इति प्रकृतज्ञानिनो जननमरणाभावलक्षणफल- प्रतिपादकत्वेन सङ्गतत्वादिति भावेन मन्त्रार्थनिश्चायकं प्रमाणमेवोदाहरति- देहेति ।। न केवलं भगवतः किन्तु ज्ञानिनोऽपीत्यर्थोऽपिशब्दः । उद्भवाभवौ उत्पत्तिविनाशौ नेत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । मुक्तिदशायामेतत् । अनेन मन्त्रतात्पर्यमुक्तं भवति । ननु देहोत्पत्तिविनाशाख्यौ उत्पत्तिविनाशौ यदि भगवत इव ज्ञानिनोऽपि न स्तस्तर्हि भगवद्विपश्चितोरविशेषः स्यादिति चेन्न । विपश्चित उत्पत्तिविनाशाभावयोर्भगवज्ज्ञानसाध्यत्वादित्यभिप्रेत्य " न जायते म्रियते वा विपश्चित्" इत्यत्र नायं कुतश्चिदिति हेतुप्रतिपादकमिति भावेन तद्व्याचष्टे - कुतश्चिदिति ॥ म्रियते चेति ग्राह्यम् । भावाभावौ देहांत्पत्तिविनाशौ । “ यादृशो भावितस्त्वीशस्तादृशो जीव आभवेत्' (भा.ता.३.१०.११) इत्यादेरित्यर्थः । ननु भागवद्विपश्चितोरुभयोरपि देहोत्पत्तिविनाशाभावमङ्गीकृत्य विपश्चितस्तदभावो भगवज्ज्ञानसाध्य इति तयोर्विशेषः कुतः समर्थनीयः । ज्ञानिनः स्वरूपत एवोत्पत्तिविनाशाभावो भगवतस्तु देहतोऽप्युत्पत्तिविनाशाख्यौ उद्भवाभवौ न स्त इति कुतो न व्याख्यायत इत्यत आह- यस्मादिति ॥ तस्मात् देहतोऽप्युत्पत्ति- विनाशाख्यावेबोद्भवाभवौ ज्ञानिनो न स्त इति व्याख्येयम् । नतु स्वरूपोत्पत्तिविनाशाख्यौ । तदभावस्य सर्वसाधारण्येन ज्ञानिनो विशेषा- भावप्रसङ्गादित्यर्थः । ननु देहिनो जीवस्य कथं स्वरूपेण जननमरणाभाव इत्यतः प्राप्तं ‘‘अजो नित्यः शाश्वतोऽयं पुराणः" इति वाक्यं व्याचष्टे - अज इति ॥ स्वरूपेणेति वर्तते । पुरं देहमपन्नपीत्यनेन देहित्वस्याप्रयोजकत्वमुक्तम् । अनेन हन्यमानेऽपीत्यपिशब्दस्य पुराणशब्देनापि सम्बन्ध इत्युक्तं भवति । एवं प्रमाणमुदाहृत्य स्ववचनेनापि विवृण्वन् नायं कुतश्चिदित्यत्र प्रकृतविपश्चित एवं परामर्श इति भ्रमं वारयन् पूर्वत्रायं हेतुरिति भावेन तद्व्याचष्टे- अयं भगवानिति ॥ कुतोऽपि कारणात् । उपलक्षणमेतत् । ‘“न म्रियते” इत्यपि ग्राह्यम् । म्रियते चेत्यनेन वाशब्दश्वशब्दार्थं इत्युक्तं भवति । अत्र ज्ञानिनो जननमरणाभावौ देहोत्पत्तिविनाशाभावाख्यावेव विवक्षितौ नतु स्वरूपेण जननमरणाभावावित्यभिप्रेत्य " न बभूव कश्चित्” इति वाक्यं व्याचष्टे- यत इति ।। स्वतः स्वरूपेण म्रियते न चेति ग्राह्यम् । तर्हि का गतिर्जीवोत्पत्त्यादिवाक्यानामित्यत आह- देहसम्बन्धादिति ॥ देह- वियोगान्म्रियते चेति ग्राह्यम् । हिशब्दः प्रमाणप्रसिद्धिमाह, हेतौ वा । यस्माद्देहसम्बन्धादेव जायते तस्मात्कश्चिदपि स्वतो न बभूवेति । अस्त्वेवं सर्वेषां जीवानां स्वरूपेणोत्पत्तिविनाशाभावौ । किं तत इत्यत आह- विपश्चितस्त्विति ॥ तुशब्दोऽज्ञानिभ्यो विशेषद्योतकः । यतः कश्चिदपि जीवः स्वतो न बभूव अतो विपश्चितो मुक्त्यनन्तरं कर्मनिर्मितदेहसम्बन्धा- भावान्न जायते । तद्वियोगाभावान्न म्रियत इत्येव वक्तव्यम् । नतु स्वरूपोत्पत्ति- विनाशाभावेन । तस्य सर्वजीवसाधारणत्वेन ज्ञानफलत्वानुपपत्तेरिति भावः ।।
श्रीवेदेशतीर्थखण्डार्थ:
ननु ब्रह्मलोकं प्राप्तस्यापि ज्ञानिनो यदि जनिमृती तदा तदतिशयितं फलमित्यत आह- न जायत इति ॥ विपश्चित् ज्ञानी ब्रह्मलोकं प्राप्तो न जायते न म्रियते च । कुतः ? यतोऽयं भगवान् कुतोऽपि न बभूव उपलक्षणमेतत् । न म्रियते च । अतस्तद्वेत्तापि न जायते न म्रियते च । अत्र विपश्चितो जननमरणराहित्यं नाम देहोत्पत्तिविनाशशून्यत्वमेव नतु स्वरूपोत्पत्तिविनाशशून्यत्वम् । तस्य सर्वजीवसाधारणत्वादिति भावेनाह- न बभूवेति ।। यतः कश्चिदपि जीवः स्वरूपेण न बभूव । न जातो न जायते न जनिष्यते च । अत एव न म्रियते च । किन्तु देहसम्बन्धादेव जायते म्रियते च । अतो विपश्चित् देहोत्पत्तिविनाशशून्यत्वादेव न जायते न म्रियते चेत्यर्थः । ननु जीवस्य देहित्वात्कथं स्वरूपेण जननाद्यभाव इत्यत आह- अज इति । जीवः पुराणोऽपि पुरं देहमणन्नपि स्वरूपेणाजो नित्यः शाश्वतो अविकारश्च । नित्यत्वमेव स्पष्टमाह - न हन्यत इति ॥ देहे हन्यमानेऽपि जीवः स्वरूपेण न हन्यते तस्य ततो भिन्नत्वादिति भावः ।। १.२.१८।।
श्रीवरदतीर्थ:
बरद- ‘‘एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते" इत्युक्तं तत्र कियत्कालं महीयत इत्युच्यते " न जायते न म्रियते विपश्चित्" इत्यादि, तद्व्याचष्टे- देहेति ॥ यौ देहोत्पत्तिदेहनाशलक्षणावुद्भवाभिभवौ तौ ज्ञानिनोऽपि न स्त इति योजना । न केवलमीश्वरस्यैव तौ न स्तः किन्तु ज्ञानिनोऽपि इत्यपिशब्दः, ज्ञानिन उद्भवाभिभवौ किमिति न स्त इत्यतो नायं कुतश्चिदित्येतद्व्याचष्टे - यत इति ॥ अत्र नेति पदमध्याहर्तव्यम् । विष्णुर्न जायते यतः अतस्तदीक्षणात्तज्ज्ञानात् कारणाद्विदुषोऽपि तौ भावाभावौ स्तः । ‘“यादृशां भावितस्त्वीशस्तादृशो जीव आभवेत् ' ( भा.ता.३.१०.११) इति वचनादित्यर्थः । मुक्तस्य जन्ममरणे न स्त इत्यत्र निमित्तान्तरमुच्यते " कुतश्चिन्न बभूव कश्चित्” इति । तद्व्याख्याति - यस्मादिति ॥ यस्मात्कश्चन संसार्यपि जीवस्वरूपेण न जायते न म्रियते च । अपि तर्हि जीवसम्बन्धेनैव जायते म्रियते च । मुक्तस्य देहसम्बन्धाभावान्न जननं मरणञ्चेत्यर्थः । स्वरूपेण जीवो न जायते चेत्कथम्भूतश्च मे स्वरूपमित्यत आह- अक्षय इति ॥ मुक्तानां जन्ममरणाभावे प्रमाणवचनोक्तां युक्तिं स्ववाक्येन विवृणोति- अयमिति ॥ विपश्चितस्तु देहसम्बन्धाभावात्स विपश्चिन्न जायते न म्रियते चेत्यर्थः ।। १.२.१८॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
ब्रह्मलोकस्थः पुनः कथम्भूत इत्यतो जन्मादिहीनश्चेत्याह- न जायत इति ॥ नेत्यग्रेऽप्यन्वेति । विपश्चित् ज्ञानी देहयोगवियोगलक्षण - निमृतियुक्तो न भवति । कुत इत्यतो हेतुद्वयमाह - नायमिति न बभूवेति ॥ अयं भगवान् कुतश्चिदपि न जायते न म्रियत इत्यनुकर्षः । भगवतो जन्ममृतिहीनत्वात् तादृशभगवद्विपश्चितोऽपि देहयोगवियोगरूपजन्ममृती न स्त इति । स्वरूपतो जन्माद्यभावाच्च नोक्तरूपजन्ममृती ज्ञानिन इति भावेन हेतोरसिद्धिनिरासाय तत्साधयितुं स्वरूपेण जननं बन्धवेलायामपि नास्ति किमुत मुक्तावित्याह- न बभूव कश्चिदित्यादि । अयं जीवः पुराणः पुरं देहमणति गच्छतीति पुराण: देहबन्धयुक्तः सन्नपि अजो नित्यतः स्वरूपेण जन्ममृतिहीनः, शाश्वतश्च अविकारश्च किमु मुक्तौ । कश्चिदपि न बभूव स्वरूपेण न जायत इति । न नश्यतीत्युपलक्ष्यते । जीवस्य कदाऽपि स्वरूपेण जन्ममृत्योरभावात् देहयोगादिनैव जन्मादेर्वाच्यत्वात् सर्वथा देहबन्धान्मुक्ति- दशायां कथं देहयोगादिरूपजन्ममृती विपश्चितः स्यातां इति न बभूव कश्चिदित्यनेनोक्तस्य स्वरूपतो जन्माद्यभावस्य न जायते न म्रियत इत्युक्तार्थे हेतुत्वं बोध्यम् । यद्वा, न बभूव कश्चिदित्यनेनैव कदाऽपि स्वरूपेण न बभूव न नश्यतीति न जायत इत्यादाँ उक्तेऽर्थे स्वरूपाजननादिहेतुमुक्तत्वोपसंहरति । स्वरूपस्यानादिनित्यत्वं ‘“अजो नित्यः" इत्यादिना । प्राग्वदेवार्थः । ननु पुराणत्वे देहहानिरस्ति किमित्यतो नेत्याह- न हन्यत इति ।। १.२.१८ ।।