उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत
वेदपुरुषेण साधूनां हितोपदेशः
उपनिषत्
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथः तत् कवयो वदन्ति ॥ १.३.१४॥
श्रीव्यासतीर्थ:
वेदपुरुषः स्वयं साधूनां हितमुपदिशति उत्तिष्ठतेति ॥ किमर्थं बोधः सम्पादनीयः संसृतिनिवृत्त्यर्थमिति चेन्न । तस्याः कारणान्तरेणानायासेन निवृत्तौ प्रयाससाध्यबोधबैयर्थ्यादित्यत आह- क्षुरस्येति । संसृतिः क्षुरस्य धारेव निशिता । निशितत्त्वमेव विवरीतुमुक्तम् - दुरत्ययेति । तन्निवर्तकं पथश्चार्चिरादिमार्गाद्गम्यं दुर्गमिति कवयो वदन्ति ।। १.३.१४ ।।
वामनपण्डिताचार्य:
एवं तावन्नचिकेतसे प्रतिज्ञातं तत्त्वोपदेशमुपसंहृत्यान्यानपि सभ्यानुद्दिश्येदमाह– उत्तिष्ठतेति ॥ अहो महाजनाः, संसारशयनात् उत्तिष्ठत । अविद्यानिद्राया जाग्रत । यूयमपि मत्तोऽभीष्टवरान् प्राप्य तत्त्वं निबोधत । क्षुरस्य धारा निशिता पदविन्यासे दुरत्यया । अतः एतेन पथा यथा तद् गम्यं सुदुर्गममेवमेव तद् ब्रह्माख्यतत्त्वं सर्वप्रकारमार्गेणापि सुदुर्गं वदन्ति । तथाहि प्रमातृशक्त्या प्रमेयशक्त्या चाज्ञेयं गन्तृशक्त्या च दुष्प्रापम्, किन्तु तत्प्रसादादेव हि तत् सुज्ञेयं सुप्रापं चेत्यर्थः ।। १.३.१४ ।।
श्रीवादिराजतीर्थ:
वादि - " उत्तिष्ठत जाग्रत" इत्यत्र अज्ञानाख्यनिद्रापर्यङ्कात् संसारात् शीघ्रमुत्तिष्ठत । जाग्रत अज्ञानाख्यस्वापं बहिष्कुरुत । सद्गुरुं प्राप्य वरान् पूर्वोक्तरीत्या क्रमेणोत्तरोत्तरश्रेष्ठान् देवान्निबोधत । ननु किमर्थमिदं ज्ञानं सम्पादनीयमित्यत उक्तम्- क्षुरस्य धारेति ॥ क्षुरस्य धारा यथा स्वोपरि गच्छतः पदे पदे दुःखदात्री एवं संसृतिरपि क्षुत्तृनिकालगुणमारुतजैह्न- शैश्याद्युपद्रवैः जननमरणनरकयातनाद्युपद्रवैश्व पदे पदे दुःखदात्री । अतः क्षुरधारासदृशी । अत एव निशिता दुरत्यया । संसारोत्तारकज्ञानाख्योपायं विना तर्तुमशक्येत्यर्थः । पथस्थं पथः अर्चिरादिमार्गस्य स्थं अन्ते गम्यतया स्थितं कैवल्यपदं च दुर्गं कवयो वदन्ति । गुरुदेवताप्रसादं विना गन्तुमशक्यं कवयो वदन्तीति योजना ।। १.३.१४ ।।
श्रीवेदेशतीर्थखण्डार्थ:
वेदपुरुषः स्वयं साधूनां हितमुपदिशति उत्तिष्ठतेति ॥ हे अधिकारिणः संसार एवं निषण्णा यूयमुत्तिष्ठत अविद्यासुप्ताश्च जागृत कथं जागरणं वरान् उत्तमाचार्यान्प्राप्य निबोधत । भगवत्स्वरूपमिति शेषः । किमर्थं भगवद्बोधः सम्पादनीयः संसारनिवृत्तेः कारणान्तरेणापि सम्भवादित्यत आह- क्षुरस्येति ॥ इयं संसृतिः क्षुरस्य धारेव निशिता अत एव दुरत्यया ज्ञानं विना अत्येतुमशक्या । तत् तस्मात् पथः पन्थानं मोक्षमार्गं दुर्गं ज्ञानं विना गन्तुमशक्यमिति कवयो वदन्ति । भगबज्ज्ञानस्यापि प्रत्यक्षादिनापि सम्भवात्किमाचार्योपदेशेनेत्यत आह- दुर्ग ॥ तं पन्थानं सुखहेतुप्राप्तिमन्तम् । “तत्प्राप्तेः सुखहेतुत्वात्पन्था इति हरिः स्मृतः’’(बृ.भा.शा.ब्रा.) इति वचनात् दुर्गं आचार्योपदेशमन्तरेण ज्ञातुमशक्यमिति कवयो वदन्ति ।। १.३.१४ ।।
श्रीवरदतीर्थखण्डार्थ:
वेदपुरुषः प्राणिनां हितमुपदिशति परान्पुरुषान्प्राप्य किमर्थं बोध आपादनीय इत्यत आह- क्षुरस्येति ॥ संसाराख्यक्षुरस्य धारा निशिता ज्ञानमन्तरेण दुरत्यया अत्येतुमशक्या तत्पथः तं पन्थानं कवयो दुर्गं वदन्ति । येन मार्गेण प्रकारेण भगवान्प्राप्यते तं मार्गं दुरधिगमं वदन्तीत्यर्थः ।। १.३.१४ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
एवं यमनचिकेतसोः संवादमियता ग्रन्थेनानूद्य वेदपुरुषः स्वयं साधूनां हितमुपदिशति उत्तिष्ठतेति ॥ हे साधवः, उत्तिष्ठत नानाविध- विषयचिन्तनान्निवृत्ता भवत । जाग्रत जागृत आलस्यं मुञ्चत । प्राप्य वरान् महद्भ्यो वरान् प्राप्य, परानिति पाठे महतः प्राप्य, भगवन्तं निबोधत नितरां बुद्ध्यध्वम्, शब्विकिरणं परस्मैपदं छान्दगम् । कुतोऽयं भगवद्बोधः सम्पाद्यः ? बन्धनिवृत्तेः भगवद्बोधादन्येनापि सम्भवादित्यत आह- क्षुरस्येति ॥ संसृतिरिति शेषः । संसृतिः क्षुरस्य केशनिकृन्तनसाधनस्य धारा धारेव निशिताऽतितीक्ष्णा बहुशः दुःखकारिणी दुरत्यया दुःखेन अत्येतव्या तर्तव्या, भगबद्बोधादन्येन अत्येतुमशक्येति यावत् । अस्त्वेवं संसृतिर्भगवद्बोधनिबर्त्या । भगवज्ज्ञानार्थं उत्थानादिकं कुतः ? तत्सुलभोपायान्तरेणापि स्यादित्यत आह- दुर्गमिति ॥ तत् = संसृतिनिवर्तकं ब्रह्म पथः = श्रवणमननध्यान- रूपाद्वैराग्यभक्त्याद्यङ्गसहितान्मार्गात् दुर्गं अतिक्लेशेन ज्ञेयम् । तथा अर्चिरादिरूपादत्यायाससम्पाद्यान्मार्गात् दुर्गं अतियत्नेन गम्यं प्राप्यं चेति कवयो ज्ञानिनो वदन्ति । न च तस्य ज्ञानप्राप्ती सुलभोपायसाध्ये । न च तज्ज्ञानप्राप्ती विना निश्शेषबन्धनिवृत्तिर्भवति । अत उत्तिष्ठत जाग्रतेत्याद्युक्तिर्युक्तेति ॥ १.३.१४ ।।