इन्द्रियेभ्यः परार्था अर्थेभ्यश्व परं मनः
इन्द्रियाद्यभिमानिदेवतातारतम्यनिरूपणम्
उपनिषत्
'इन्द्रियेभ्यः परार्था अर्थेभ्यश्व परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ।। १.३.१० ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिः ॥ १.३.११ ॥
भाष्यम्
देवेभ्य इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः ।
सोमवित्तपसूर्याप्पा अध्यग्नीन्द्रेन्द्रसूनवः ॥
यमो दक्षचेन्द्रियेशास्सुपर्णी वारुणी तथा ।
उमेति चार्थमानिन्यस्तिस्रो द्विद्वयेकदेवताः ।
मनोऽभिमानिनो रुद्रवीन्द्रशेषास्त्रयोऽपि तु ।
श्रेष्ठ अर्थमानिभ्यस्तेभ्यो बुद्धिः सरस्वती ॥
तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा ।
तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः ।
कश्चित्कुतश्चिच्छ्रेष्ठस्तु नास्तीति किमु सा कथा ।। १.३.१०-११
श्रीव्यासतीर्थ:
भगवद्ध्यानञ्च तारतम्यान्तर्गतत्वेन कार्यमित्याह- इन्द्रियेभ्य इत्यादिना ॥
व्या. भा- “ इन्द्रियेभ्यः पराः" इत्यादिवाक्यं प्रसिद्धेन्द्रियपरत्वप्रतीतिं निवारयन् व्याचष्टे - देवेभ्य इति । के ते इन्द्रियदेवा इति जिज्ञासायामाह - सोमेति श्रोत्रत्वक्चक्षूरसनघ्राणवाग्घस्तपादपायूपस्थानामिन्द्रियाणां क्रमात्सोमादयो देवा ईशा इत्यर्थः । अर्थदेवता आह- सुपर्णीति ॥ ननु रूपादयः पञ्चार्थाः सौपर्ण्याद्यास्तु तिस्रः । अतः कथं तासामर्थविभाग इत्यत उक्तम्- द्विद्व्येकदेवता इति ॥ द्वौ च द्वौ च एकश्च द्विब्येके तेषां देवताः द्विव्येकदेवताः । सुपर्णीवारुण्यौ द्वयोर्द्वयोरभिमानिन्यौ उमात्वेकस्येत्यर्थः । काष्ठा अवसानं परा गतिः परमप्राप्यम् । “पुरुषान्न परम्" इत्यादे- स्तात्पर्यार्थमाह- नैवेति ॥ १.३.१०-११ ॥
वामनपण्डिताचार्य:
अथ तत्परिवारभूतानामिन्द्रियदेवतानां ध्यानमपि तत्तारतम्यानु- सारेण कार्यमित्यभिप्रायेणाह - इन्द्रियेभ्य इति ॥ एतद्वाक्याभिप्रायं "देवेभ्यः" इत्यादिना पुराणवाक्येन व्यक्तं व्याख्याति । सोमाद्याः श्रोत्राद्यभिमानिनः । इन्द्रसूनुर्यज्ञनामा जयन्त इति चोच्यते । अत्र श्रोत्रादीनां शब्दादयो वागादीनामभिजल्पादयश्चेति इन्द्रियविषया अपि दशैव भवन्ति । तेषामर्थानां सुपर्णी वारुण्युमा चेति तिस्रोऽभिमानिन्य उच्यन्ते एवञ्चेदियतामिति विभागः कथमित्याकाङ्क्षायामाह - तिस्रो द्विव्येकदेवता इति ।। द्वयोरर्थयुग्मयोः एकार्थस्य चेति पञ्चार्थानां द्विर्भावेन दशार्थानां तिस्रो देवताः । इदमुक्तं भवति शब्दस्पर्शयोः सुपर्णी, रूपरसयोर्वारुणी, गन्धस्योमेति ज्ञानेन्द्रियविषयाणाम् । अथ कर्मेन्द्रियविषयाणामप्येवमेव । तथाहि अभिजल्पशिल्पयोः सुपर्णी, गतिविसर्गयोर्वारुणी, भोगस्योमेति । मनोऽभिमानिनो वीन्द्रादयस्तद्भर्तारस्ततः श्रेष्ठाः । तेभ्यो बुद्धिमानिन्यौ सरस्वती भारती च । ताभ्यां महादात्मानौ ब्रह्मवायू । ताभ्यामव्यक्तदेवता रमा श्रेष्ठा । तस्याः पूर्णत्वात् पुरुषाख्यो विष्णुः, तस्मादुत्तमः कश्चिन्नास्ति । यद्यपि पुरुषशब्देन पूर्णत्वं सकृदुक्तम् । तथाऽपि काष्ठाशब्देन पुनस्तद्वचनमन्ययोगव्यवच्छेदाय । अतः स एव पूर्णो नान्यस्तत्सम इत्यर्थः । एवं समाधिकराहित्याद्विष्णुरेव जीवानामुत्तमगतिः ।। १.३.१०-११ ।।
श्रीवादिराजतीर्थ:
वादि- 'इन्द्रियेभ्यः परा ह्यर्था:" इत्यत्रेन्द्रियपदेन श्रोत्रादिदशेन्द्रिया- भिमानिनः सोमादिदशदेवता गृह्यन्ते । अर्थपदेन साक्षाज्ज्ञानेन्द्रियविषयभूत- रूपरसगन्धस्पर्शशब्दाभिमानिन्यः सुपर्णीवारुणीपार्वत्यख्याः तिस्रो देवता गृह्यन्ते । तत्र रूपरसयोः सुपर्णी, गन्धस्पर्शयोर्वारुणी, शब्दस्योमेति विवेकः । तदिदमुक्तं भाष्यकृता द्विद्वयेकदेवता इति ॥ द्वयोरेका पुनर्द्वयोरेका- अवशिष्टस्यैकेत्यर्थः । सुपर्णीवारुण्योः प्राप्तनिजपदत्वाद्वयोर्द्वयोर्देवतात्वम् । उमायास्त्वप्राप्तनिजपदत्वादेकदेवतात्वमिति विवेकः ।। १.३.१०- ११ ।।
I
श्रीवेदेशतीर्थ:
“इन्द्रियेभ्यः” इति मन्त्रं जडानामेव तारतम्यमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे - देवेभ्य इति ॥ इन्द्रियात्मभ्यः इन्द्रियाभिमानिभ्य इत्यर्थः । अनेन श्रुताविन्द्रियार्थादिशब्दा अभिमान्यधि- करणन्यायेन तदभिमानिपरा इत्युक्तं भवति । के ते इन्द्रियाभिमानिनो देवा इत्यत आह- सोमेति || दक्षश्चेत्येते दशेन्द्रियेशाः । तत्र श्रोत्रस्य सोमः, त्वचो वित्तपः, चक्षुषः सूर्यः, रसनस्याप्पः वरुणः, प्राणस्याश्विनौ, वाचोऽग्निः, पाण्योरिन्द्रः पादयोरिन्द्रसूनुर्जयन्तः, पाय्वोर्यमः, गुह्यस्य दक्ष इति विवेकः । श्रोत्राद्यभिमानिनो बहव इति अन्यत्रान्यथोक्तावप्यविरोधः । के ते अर्थाभिमानिनो येषामिन्द्रियदेवेभ्य उत्तमत्वमित्यत आह- सु (सौ) - पर्णीति ।। ननु शब्दादयः पञ्चार्थाः सौपर्ण्याद्यास्तु तिस्रः । अतः कथं तासां तदभिमानित्वमित्यत आह- द्विव्येकदेवता इति ॥ द्वौ च द्वौ चैकश्च द्विद्व्येके द्विद्व्येकेषां देवता द्विद्व्येकदेवताः । सुपर्णीवारुण्यौ द्वयोर्द्वयोरभिमानिन्यौ, उमा त्वेकस्येत्यर्थः । तत्र सुपर्णीशब्दस्पर्शयोः, वारुणी रूपरसयोः, उमा गन्धस्येति विवेकः । " अर्थेभ्यश्च परं मनः " इति वाक्यं व्याख्यातुं मनोऽभिमानिदेवता आह- मनोऽभिमानिन इति ॥ अपिरभिव्याप्तौ, इन्द्रकामादिव्यावृत्त्यर्थम् । तुशब्दोऽवधारणार्थः । इदानीं तद्वाक्यं व्याचष्टे - ते इति ॥ " मनसस्तु परा बुद्धिः" इति वाक्यं व्याचष्टे - तेभ्य इति ॥ मनोऽभिमानिभ्यः । लिङ्गवचनव्यत्ययेन श्रेष्ठेत्यनुवर्तते । “बुद्धेरात्मा महान् " इति वैयधिकरण्यप्रतीतिनिरासाय तव्याचष्टे - तस्या इति ॥ वायुरपि ग्राह्यः | महान् महत्तत्त्वाभिमानी । आत्मा सर्वजीवस्वामी । “महतः परमव्यक्तम्” इत्येतद्व्याचष्टे - तत इति ॥ " अव्यक्तात्पुरुषः परः" इत्येतद्वाक्यं व्याचष्टे- तस्यास्त्विति पुरुषशब्दप्रवृत्तिनिमित्तमाह- पूर्णत्वादिति पूर्णषड्गुणत्वादित्यर्थः । ‘“पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः " इति पुरुषाच्छ्रेष्ठो नास्तीत्युक्तम् । तत्कैमुत्येन साधयति - नैवेति ॥ कुतश्चित्कुत्रापि देशे काले वा । ननु रमासमाभावेऽपि तदधिकवत् भगवदधिकोऽपि किन्न स्यादिति चेन्न । भगवतं एव रमासमस्य सत्त्वात् । नहि तदधिकः तत्सदृशगुणवान्नेति युक्तम् । पुरुषादुत्तमस्य पाशुपतादिशास्त्रेषु कथनात् कथमेतदित्यत उक्तम्- सा कथेति ॥ किम्वित्यनुवर्त्तते । सा कथा श्रेष्ठोऽस्तीति कथा किमु कथमुपपन्ना, उक्तयुक्तिविरुद्धत्वादित्यर्थः ॥
॥१.३.१०-११ ॥
श्रीवेदेशतीर्थखण्डार्थ:
भगवज्ज्ञानं तारतम्यान्तगत्वेन सम्पाद्यमिति भावेन देवता- तारतम्यमाह- इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्रादीन्द्रियाद्यभिमानि- देवेभ्यः इन्द्रादिभ्योऽर्थाः अर्थाभिमानिन्यः देवताः सौपर्णी बारुण्युमा च परा उत्तमाः | अर्थेभ्यश्च परं मनः मनोऽभिमानिदेवता रुद्रादय उत्तमाः । मनसस्तु परा बुद्धिस्तदभिमानिनी सरस्वती । बुद्धेर्महानात्मा । महत्तत्त्वाभिमानी ब्रह्मा परः ।। १.३.१०॥
श्रीवेदेशतीर्थखण्डार्थ:
महतः परमव्यक्तं तदभिमानि श्रीतत्त्वम् । अव्यक्तात्पुरुषः पूर्णषड्गुणो भगवान् परः । पुरुषादप्युत्तममस्ति किमित्यत आह- पुरुषान्न परमिति । पुरुषात्किमपि परं न । यतः सा काष्ठा स एवावधिः । कुतः सा परागतिः गम्यत इति गतिः ।। १.३.११ ।।
वरद- वशीकृतेन्द्रियाश्वस्य मनोनियमयुक्तस्य पुरुषस्य ध्यातव्यमुच्यते ‘“इन्द्रियेभ्यः परा ह्यर्थाः” इत्यादिना । तदभिप्रायं प्रमाणवचनेनैवाह- देवेभ्य इति ॥ सोमः श्रोत्रस्य, वित्तपः स्पर्शस्य, सूर्यश्चक्षुषः, आपो रसनस्य, अश्विनौ घ्राणस्य, अग्निर्वाचः, इन्द्रः पाण्योः, इन्द्रसूनुः पादयोः, यमः पाय्वोः, दक्षो गुह्यस्य । द्वौ च द्वौ च एकश्च द्विद्व्येके तेषां देवता द्विद्व्येकदेवता इति विग्रह: । तत्र सुपर्णी शब्दस्पर्शयोरुभयोरभिमानिनी, वारुणी रूपरसयोः, उमा गन्धस्येति तद्विवेकः ।। १.३.१०-११ ।।
श्रीवरदतीर्थखण्डार्थ:
एवं प्रत्याहारं निरूप्य ध्यानार्थं ध्येयं वस्तु निरूपयति- इन्द्रियेभ्य इति ॥ १.३.१० ॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
भगवद्ध्यानं च तारतम्यान्तगत्वेन कार्यमिति भावेन देवतातारतम्यमाह- इन्द्रियेभ्य इति ॥ इन्द्रियेभ्यः श्रोत्रत्वक्चक्षूरसन- घ्राणवाक्पाणिपादपायूपस्थेभ्यः ज्ञानेन्द्रियकर्मेन्द्रियनियन्तृतया तत्तन्नामभ्यः क्रमात् तत्तदभिमानदेवेभ्यः सोमकुबेरसूर्यवरुणाश्व्यग्नीन्द्रजयन्तयमदक्षेभ्यः अर्थाः शब्दस्पर्शरूपरसगन्धरूपाः श्रोत्रादिविषयाः तदभिमानिन्यः सुपर्णी, वारुणी, पार्वतीति तिस्रो देव्यः परा उत्तमा इत्यर्थः । अभिमानिनयन्यायेन इन्द्रियादिशब्दानां अभिमानिषु मुख्यत्वात् । शब्दादीनां पञ्चत्वेऽपि सौपर्णीवारुण्यौ द्वयोर्द्वयोर्देवते, पार्वती त्वेकस्येति विवेकः । अर्थेभ्यः अर्थाभिमानिनीभ्यः तिसृभ्यो देवीभ्यः मनः मनोऽभिमानिनो रुद्रवीन्द्रशेषाः पराः । तेभ्यः बुद्धिः बुद्धितत्त्वाभिमानिनी सरस्वती परा । तस्याः महान् महत्तत्वाभिमानी आत्मा विरिवः परः ।। १.३.१० ॥
महतः चतुर्मुखात् अव्यक्तं प्रकृत्यभिमानिनी श्रीः परा । अव्यक्तात् श्रीतत्त्वात् पुरुष: पूर्णत्वहेतुना पुरुषनामा विष्णुः परः । पुरुषात् परं किञ्चिन्नास्ति । सा पुरुषः काष्ठा अवधिः देवतातारतम्यविश्रान्तिभूमिः । सेति विधेयापेक्षया स्त्रीलिङ्गोक्तिः । परा गतिः परमप्राप्यः ।। १.३.११ ॥