नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन

भगवत्प्रसादस्य वैराग्यादेरावश्यकता

उपनिषत्

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥१.२.२३॥

श्रीव्यासतीर्थ:

श्रवणादिना तज्ज्ञानोत्पत्तेस्तत्प्रसादात् " तमक्रतुः पश्यतिइत्युक्तिः कथमित्यत आह- नायमात्मेति ॥ १.२.२३।।

श्रीवादिराजतीर्थ:

 ‘“यमेवैष वृणुते’” इत्यत्र एवं परमात्मा यं वृणुते मदीयोऽयमित्य- ङ्गीकरोति, प्रसन्नो भवतीति यावत्, तेनैव लभ्य इत्यर्थः ।।१.२.२३।।

श्रीवेदेशतीर्थखण्डार्थ:

धातुः प्रसादो ज्ञानमोक्षहेतुरित्युक्तमयुक्तम् । प्रवचनादिनैव ज्ञानमोक्षयोरुपपत्तेरित्यत आह- नायमिति । अयमात्मा भगवान् प्रवचनेन वेदव्याख्यानेनैव लभ्यो ज्ञेयः प्राप्यश्च न, मेधयैव लभ्यो न, नापि बहुना श्रुतेनैव, किन्तु एष आत्मा प्रसन्नः सन् मदीयोऽयमिति यं वृणुते तेन लभ्यो ज्ञेयः प्राप्यश्च । ततश्चैष आत्मा तस्याधिकारिणः स्वां तनुं स्वस्वरूपं पूर्वमविद्यावृतं विवृणुते प्रकाशयतीत्यर्थः । यद्वा ज्ञानमोक्षहेतुः प्रसादोऽपि न प्रवचनादिमात्रसाध्यः किन्तु भक्त्येकसाध्य इत्याह- नायमिति ॥ लभ्यः प्रसन्नो भवति । वृणुत इत्यनेन भक्तत्वं सूचितम् । ततश्च तस्याधिकारिण एष आत्मा स्वस्वरूपं तद्योग्यतानुसारेण विवृणुते प्रकाशयतीत्यर्थः ।।१.२.२३।।

श्रीवरदतीर्थ:

वरद. खं- दर्शनञ्च भक्त्यैव भवतीत्याह - नायमात्मेति ॥१.२.२३ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

ननु श्रवणाद्युपायेनापि तज्ज्ञानसम्भवात् धातुः प्रसादात् तं पश्यतीत्यनुपपन्नमित्यत आह- नायमिति ॥ प्रवचनेन व्याख्यानेन लभ्यो दर्शनीयों न भवति । न मेधया स्वकीयप्रज्ञाबलेन न लभ्यः । बहुना श्रुतेन श्रवणेन न लभ्यः । किन्तु यं एष भगवान् वृणुते स्वीकरोति, यस्मै प्रसीदतीति यावत्, तेनैव लभ्यो दर्शनीयः । कथम् ? तस्य प्रसादविषयस्य एष आत्मा स्वां तनुं विवृणुते प्रदर्शयतीति । कथमन्यथा अव्यक्तैकस्वरूपस्य तत्प्रसादेन विना अपरोक्षतेति भावः । तथा च सूत्रं " अतोऽनन्तेन तथा हि लिङ्गम् " (ब्र.सू. ३.२.२७) इति ॥ १.२.२३ ॥

Load More