अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्

यमेनोपदिष्टभेदमतानुवादपूर्वकं पुनस्तत्त्वोपदेशप्रार्थनम्

उपनिषत्

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।

अन्यत्र भूताच्च भव्याच्च यत् तत् पश्यसि तद् वद । १.२.१४

श्रीव्यासतीर्थ:

अलं प्रशंसया तत्त्वं ब्रूहीत्याह- अन्यत्रेति ॥ धर्मादेरन्यत्र तद्बहिर्भूतं तद्रहितं यत्तत्पृष्टं पश्यसि तच्च । कृताकृतादित्युक्तं विशदयितुमुक्तम्- भूताच्च भव्याच्चान्यत्र विलक्षणमिति ।। १.२.१४ ॥

वामनपण्डिताचार्य:

यत्तत् धर्मादिभ्योऽप्यत्यन्तसूक्ष्मं भगवद्रूपं यज्ज्ञानात् तत्सद्म सुप्रवेशं त्वं मन्यसे तन्मे ब्रूहीति नचिकेता यमं प्रार्थयन्नेवाऽह धर्मादित्यादिना ।। यत्तत् धर्मादिभ्योऽन्यत्र पश्यसि तेभ्योऽत्यन्तविलक्षणं पश्यसि तत् मे वद । अस्मात् वर्तमानात् कृताकृतात् जगतः । कृताकृतरूपत्वं भूतभव्यजगतोऽपि समम् ।।१.२.१४।।

श्रीवादिराजतीर्थ:

वादि - "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्" इत्यत्र कृताकृतादन्यत्रेत्यत्र कृतादुत्पन्नान्महदहङ्कारादिप्रपञ्चादकृतादनुत्पन्नात् प्रकृतिजीवकालाव्याकृताकाशादिप्रपञ्चादन्यत्र विलक्षणम्, भूतादतीतजगतः भविष्याद्भविष्यज्जगतश्चान्यत्र विलक्षणमित्यर्थः । धर्मादन्यत्र धर्मबहिर्भूत - मधर्मादन्यत्राधर्मबहिर्भूतमिति जीववैलक्षण्ये युक्तिसूचनार्थं प्रयुक्तम् ॥

।। १.२.१४।।

श्रीवेदेशतीर्थखण्डार्थ:

एवं यमेनोक्तो नचिकेता अलं प्रशंसया तत्त्वं ब्रूहीति प्रवृह्येत्यनेनोक्तं जीवाद्भेदं सविशेषमनुवदन् प्रार्थयते - अन्यत्रेति ॥ अव्ययानामनेकार्थत्वादन्यत्रेत्यस्यान्यदित्यर्थः । धर्मात्पुण्यात्मनो जीवादन्यत् अधर्मात्मनो जीवादन्यत् न केवलं चेतनादेव किन्तु कृताकृतात् कार्याकार्यात् अचेतनादप्यन्यत् न केवलं वर्तमानादेव किन्तु भूतात् भव्याच्चान्यत् तत् मुक्तनियामकं ब्रह्म यत् येन प्रकारेण त्वं पश्यति तत् तेन प्रकारेण वदेत्यर्थः ।।।। १.२.१४ ।।

श्रीवरदतीर्थखण्डार्थ:

अलं प्रशंसया ब्रह्मोपदिशेत्याह नचिकेताः - अन्यत्रेति ॥ कृतं कार्यमकृतमकार्यं कार्यस्यैव प्रभेदौ भूतभव्यौ ।। १.२.१४॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

अलं मत्प्रशंसया तत्त्वं ब्रूहीत्याह नचिकेताः - अन्यत्रेति ॥ धर्मादन्यत्र अधर्मादन्यत्र धर्माधर्महीनमिति यावत् । अस्मात् प्रमितात् कृताकृतात्, द्वन्द्वैकवद्भावः, कार्यात् कारणाच्चान्यत्र अन्यत् तदुभय- विलक्षणमिति यावत् । भूताच्चातीतात् भव्याच्चागामिनश्च अन्यत्र तदुभय-बिलक्षणमिति यावत् । कृताकृतादित्यस्य विवरणं वा भूताच्चेत्यादि । तत् लोकविलक्षणतया प्रसिद्धं यत् यद्वस्तु पश्यसि जानासि तद्वद मह्यमित्यर्थः ॥ ।। १.२.१४ ।।