एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्
- उपनिषत्
- एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
- एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १.२.१६ ॥
- एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
- एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १.२.१७॥
- भाष्यम्
- श्रीव्यासतीर्थ:
- वामनपण्डिताचार्य:
- श्रीवादिराजतीर्थ:
- श्रीवेदेशतीर्थ:
- श्रीवरदतीर्थखण्डार्थ:
- श्रीवरदतीर्थ:
- श्रीराघवेन्द्रतीर्थखण्डार्थ:
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्
प्रणवप्रतिपाद्यस्य भगवतो महिमा तद्वेत्तुः फलम्
उपनिषत्
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १.२.१६ ॥
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १.२.१७॥
भाष्यम्
एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम् ।
सर्वस्याऽलम्बनं ज्ञात्वा मुच्यते नात्र संशयः ।। इति च
।। १.२.१६-१७ ॥
श्रीव्यासतीर्थ:
ब्रह्मस्वरूपं निरूपयन् तज्ज्ञातुः फलमाह - एतदित्यादिना ॥ एतत् त्वया पृष्टं ब्रह्मैव परमक्षरम् । एतत् श्रेष्ठमालम्बनमाश्रयं परं विलक्षणम् ।। १.२.१६-१७ ॥
‘“एतद्ध्येवाक्षरम्” इत्यादि “ तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्” इत्युक्त- भगवद्वाचकप्रणवमाहात्म्यमुच्यत इत्यन्यथाप्रतीतिं निवारयन् व्याचष्टे- एतद्ध्येवेति ।। १.२.१६-१७ ॥
वामनपण्डिताचार्य:
‘“एतद्ध्येवाक्षरम्" इत्यादावेतच्छब्देन जीवस्वरूपमनूद्य तस्य ब्रह्मत्वादिकमुपदिशतीति शङ्कानिवृत्त्यर्थं "एतद्ध्येवाक्षरम्” इत्यादिकं महावराहवचनमुद्धरति । अत्र "विष्ण्वाख्यम्” इति विशेषणात् सा शङ्का दूरतोऽपास्ता ।। १.२.१६ ।।
आलम्बनं आधारः । नह्याधाराधेययोरेकत्वं युक्तम् । अत्र ब्रह्मलोको विष्णुलोकः । सः ज्ञानी तत्र गत्वा तमेवाप्य मोदमानः स्वावरैर्नित्यं महीयते ।। १.२.१७ ।।
श्रीवादिराजतीर्थ:
एतद् ब्रह्म सकलगुणपरिपूर्णत्वादोमिति कथ्यते । एतत्प्रमाण- वाक्यार्थभूतं वस्तु नाशरहितत्वादक्षरम्, गुणबृंहितत्वाद् ब्रह्म । एतदक्षरं नाशरहितं परं मुमुक्षुप्राप्यं च ।। १.२.१६ ।।
एतद्ध्येवाक्षरमित्युक्तानुवादः ।। १.२.१७ ।।
श्रीवेदेशतीर्थ:
किञ्च ओमित्येतदिति तस्योंनामकत्वमुच्यते तच्च ब्रह्मण एव न जीवस्य । ‘“ओमिति ब्रह्म' ( तै. आ. ७.८) इति श्रुतेः । "ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः " (गीता १७.२३ ) इत्यादिस्मृतेश्च । किञ्च " एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्" इति परब्रह्मत्वादिव्यपदेशाद्विष्णुरेव जीवः ननु ओमित्येतदिति पूर्वमात्मतत्त्वस्योंशब्दवाच्यत्वं तत्प्रतीकत्वञ्चोक्तम् । अत्र तु एतदेवाक्षरं ओमित्यक्षरं ब्रह्म अपरं एतदेवाक्षरं परञ्च ब्रह्मेति तस्यैबोङ्कारस्य परापरब्रह्मत्वमुच्यत इति कथमिदं साधकमिति चेन्न । ओङ्कारस्य शब्दात्मकस्य जडत्वेन परापब्रह्मत्वाभावात् । “एतदालम्बनम्’” इत्युक्तसर्वाश्रयत्वासम्भवाच । नचाविद्यमानमप्युपासनार्थमुच्यत इति वाच्यम् । ‘‘तत्त्वमसि’” इत्यादावप्यविद्यमानमेवैक्यं उपासनार्थमुच्यत इत्यापातात् ।। अविद्यमानोपासनस्यानर्थफलत्वाच्च । प्रमाणविरोधाच्च नैवं व्याख्यानं युक्त- मिति भावेन मन्त्रद्वयार्थनिश्चायकं प्रमाणमुदाहरति- एतद्धयेवेति ॥ परमित्यत्रापि एतद्ध्येवाक्षरमिति सम्बध्यते । एवञ्च "एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्" इति अनुवादेन विष्ण्वाख्यमिति व्याख्यानम् । अक्षरशब्दार्थोऽव्ययमिति ॥१.२.१६-१७॥
श्रीवरदतीर्थखण्डार्थ:
बे.खं- ओंनामकस्यैव भगवतो माहात्म्यमाह - एतदिति ॥ एतदेव आम्नामकमेवाक्षरं अव्ययं देहादिनाशशून्यं ब्रह्म गुणपूर्णं हि एतदेवाक्षरं परं सर्वोत्तमं हि । अत एवैतदेवाक्षरं ज्ञात्वा योऽधिकारी यदिच्छति तस्य तत् भवति हि प्रसिद्धमित्यर्थः ।। १.२.१६ ।।
एतत् ओम्नामकं ब्रह्म श्रेष्ठमालम्बनं मुख्यतः सर्वाश्रयः । न राजादिवदाश्रय इत्याह- एतत्परं विलक्षणमालम्बनमिति ॥ ब्रह्मलोके सत्यलोके विष्णुलोके वा महीपते पूज्यते स्वावरैः ।। १.२.१७॥
श्रीवरदतीर्थ:
वरद - " एतद्ध्येवाक्षरं ब्रह्म" इत्यादिना तत्र ब्रह्मत्वादिकं प्राणमात्रस्य विधीयत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे - एतदिति ॥१.२.१६-१७॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
ब्रह्मस्वरूपं विवक्षुः तज्ज्ञानिनः फलं महिमोक्तिपूर्वकमाह- एतद्ध्येवेति ॥ एतत् त्वया पृष्टमक्षरं अविनाशि ब्रह्मैव । एतदेव परं अक्षरं परमाक्षरनामकम् । हिशब्दौ उभयत्र प्रसिद्धियोतकौ । योऽधिकारी ज्ञात्वा यदिष्टमिच्छति कामयते तस्य तदिष्टं भवत्येवेत्यर्थः ।। १.२.१६ ।।
एतत् त्वया पृष्टं श्रेष्ठमालम्बनं सर्वेषां मुख्याश्रयम्, परमालम्बनं विलक्षणाश्रयम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते भगवल्लोके पूज्यत इति ।।१.२.१७।।