अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः
अरणिशब्दितगुरुशिष्ययोः सर्वज्ञः हरिः सन्निहितः
उपनिषत्
'अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिवईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥२.१.८॥
भाष्यम्
'सर्वज्ञो भगवान् विष्णुररण्योर्गुरुशिष्ययोः ।
सुभृतः स्तूयते नित्यं जानद्भिः पुरुषोत्तमः" इति च ॥ 'अर्यते ण आभ्यामित्यरणी ॥२.१.८ ॥
श्रीव्यासतीर्थ:
अरण्योर्गुरुशिष्ययोः । अदनादग्निः । जातं वेत्तीति जातवेदाः भगवान्निहितः ।। २.१.८ ॥
व्या.भा- अरण्योर्निहित इति वाक्यं प्रसिद्धाग्निपरत्वप्रतीतिं निवारयन् व्याचष्टे - सर्वज्ञ इति ॥ सर्वज्ञ इति जातवेदा इत्यस्यार्थः । जागृवद्भिः इत्येतस्य प्रतिपदम् - जानद्भिरिति ॥ गुरुशिष्ययोररणीत्वं कथमित्यतः तद्व्युत्पाद्य दर्शयति- अर्यत इति । अर्यते ज्ञायते णः सुखरूपो भगवानाभ्यां गुरुशिष्याभ्यामित्यरणी गुरुशिष्यौ इत्यर्थः ।। २.१.८ ।।
वामनपण्डिताचार्य:
सोऽयं भगवान् ब्रह्मादिभिरीड्यः पूज्यश्चेत्याह- अरण्योरिति ॥ “सर्वज्ञः" इत्यादिना तद्व्याख्याति । जातं जातं वस्तुजातं सर्वं वेत्तीति जातवेदाः सर्वज्ञ उच्यते । ब्रह्माद्यङ्गनेतृत्वादग्निनामकोऽयं भगवान् विष्णुः ।
यथैवान्यादयः शब्दाः प्रवर्तन्ते जनार्दने ।
तथा निरुक्तिं वक्ष्यामोऽज्ञानिनां ज्ञानसिद्धये ।। इति व्यासनिरुक्ते
स भगवान् अरणिशब्दितयोर्गुरुशिष्ययोः सूक्ष्मरूपेणाव्यक्ततया नित्यं सन्निहितो भवति । अथ जिज्ञासाख्यमथनसमये लिङ्गव्यक्ततया सुभृतो लक्ष्यते । यथा गर्भिणीभिः सुभृतो गर्भस्तद्वदेव । अथ मथनान्ते ध्यातः प्रसूत इव प्रादुर्भविष्यति । अत्र मनुष्यशब्देन जीवा उच्यन्ते । “ततो मनुष्या अजायन्त’” (बृ.उ.३.४.३) इत्यादिवत् । नित्यं मननादिशीलत्वान्मनुष्य- शब्दितैर्देवादिभिः दिवसे दिवसे निरन्तरमीड्यः स भगवान् । हविष्मद्भिः विष्णुयाजिभिः । “यज्ञेन यज्ञमयजन्त देवाः ' ” (ऋ.सं.१०.९०.१६) इत्यादि श्रुतेः । जागृवद्भिः तमेतं पुरुषोत्तमं जानद्भिः । अरणिशब्दं गुरुशिष्यविषये निर्वक्ति-— आर्यत रण आभ्यामित्यरंणी इति || आर्यत आ समन्तादध्यगम्यत रणः शब्दो वेदादिशब्दराशि: वेदान्तश्च आभ्यामित्यरणी इति गुरुशिष्यौ । “ऋ गतौ” “रण शब्दे" इति हि धातुः । आर्यत रणः सम्भरणमन्त्रात्मकः शब्दः आभ्यामिति हि प्रसिद्धारणी अप्युक्ते । “यो अश्वत्थः शमीगर्भः’’(का.सं.७.४८ ) इत्यादिको ह्यरणीसम्भरणमन्त्रः ।।२.१.८।
श्रीवादिराजतीर्थ:
तर्हि सर्वैरपि किमिति न दृश्यत इत्यत आह- अरण्योरिति ॥ गर्भिणीभिः सुभृतो गर्भ इव । "ऋ गतौ " इति धातोः अर्यत इति कर्मव्युत्पत्त्या अरण्योरिति शब्दनिष्पत्तिर्भवति । तथा च णं सुखरूपं परं ब्रह्म अर्यते ज्ञायते आभ्यामित्यरणी हरितत्त्वज्ञानिनौ गुरुशिष्यौ । तयोर्निहित इत्यर्थः । आँपनिग्टः पुरुषः उपनिषदभ्यासवतामेव ज्ञेयो न सर्वस्य । यथा गर्भिणीनिहितो गर्भः तद्वदिति भावः । दिवे दिवे दिने दिने जागृवद्भिः ज्ञानिभिः ईड्यः स्तुत्य इत्यर्थः ।। २.१.८ ।।
श्रीवेदेशतीर्थ:
" अरण्योर्निहितो जातवेदाः " इति मन्त्रः प्रसिद्धाग्निपर इत्यसत् । तत्कथनस्यासङ्गतत्वादिति भावेन तं मन्त्रं विष्णुपरतया प्रमाणेन व्याचष्टे - सर्वज्ञ इति ॥ जातवेदा इत्यस्यार्थः- सर्वज्ञ इति ॥ जातं वेत्तीति जातवेदाः । अरण्योरित्यनुवादेन गुरुशिष्ययोरिति व्याख्यानम् । निहित इत्यस्यार्थः - सुभृत इति ॥ जागृवद्भिरीड्य इत्यस्यार्थः- जानद्भिः स्तूयत इति ॥ नचैवं सत्यग्निशब्दानुपपत्तिः । तस्य प्रागेव भगवत्परतया व्याख्यातत्वात् । गुरुशिष्ययोः कथमरणीशब्दवाच्यत्वमित्यतस्तद्व्युत्पादयति- अर्यत इति ॥ अर्यते ज्ञायते ण आनन्दरूपो “णश्च निर्वृतिवाचकः " (म.भा.उद्योग.६९.५) इत्युक्तेः । बलरूपो वा “णकारो बलम्” (ऐ.उ.३.२.६) इति श्रुतेः ॥८॥
श्रीवेदेशतीर्थखण्डार्थ:
किश्च जातं वेत्तीति जातवेदाः सर्वज्ञो गर्भिणीभिः गर्भो यथा सुभृतः सुधृतः तथा अरण्योः अर्यते णः सुखरूपो बलरूपो वा भगवान् आभ्यामित्यरणी गुरुशिष्यौ तयोर्निहितः सुभृतो जागृवद्भिः जानद्भिः हविष्मद्भिः पूजासाधनद्रव्यवद्भिश्च मनुष्यैः दिवे दिवे प्रतिदिनं ईड्यः स्तुत्य: योऽग्निः अदनादग्निनामा भगवान् एतद्वै तत् ।। २.१.८ ॥
श्रीवरदतीर्थ:
वरद - "अरण्योर्निहितो जातवेदाः" इत्यस्यार्थः- सर्वज्ञ इति ॥ कथं गुरुशिष्ययोररणीत्वमित्यत आह- अर्यत इति ॥ ण इति सुखस्वरूपो हरिरुच्यते ।। २.१.८ ॥
श्रीराघवेन्द्रतीर्थखण्डार्थ:
॥ अरण्योरिति ॥ “ऋ गतौ” इत्यतः कर्मण्यकारे गुणे च अरेति रूपम् । अरः ज्ञायमानः णः सुखरूपो हरिः याभ्यां गुरुशिष्याभ्यां तौ गुरुशिष्यावरणौ । समासान्त इकारः । अरण्योः गुरुशिष्ययोः, जातवेदाः जातं सर्वं बेत्तीति जातवेदाः, जातमित्युपलक्षणम्, सर्वज्ञो हरिः निहितः नितरां स्थितः । क इव ? गर्भिणीभिः स्त्रीभिः सुभृतः सम्यक् धृतः गर्भ इव, अग्निः अरण्योः गुरुशिष्ययोः निहितः । अदनादनिनामा हरिः जागृबद्भिः भगवज्ज्ञानवद्भिः, न हि ज्ञानादितोऽन्यज्जागरणमस्ति, "या निशा सर्वभूतानां तस्यां जागर्ति संयमी” (गीता. २.६९) इत्यादेः, हविष्मद्भिः यज्ञसाधनवद्भिः मनुष्येभिः मनुष्यैः दिवे दिवे प्रतिदिनं ईड्यः स्तुत्यो वर्तते ।। २.१.८ ।।