अन्यच्छ्रेयोऽन्यदुतेव प्रेयः ते उभे नानार्थे पुरुषं सिनीतः
प्रथमाध्याये द्वितीया वल्ली
अन्यच्छ्रेयोऽन्यदुतेव प्रेयः ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते ॥ १ ॥
श्रेयश्च प्रेयश्च मनुष्यमेत स्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते ॥ २ ॥
स त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥
शृङ्कां शृङ्कलाम् ॥
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः ॥ ४ ॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥
न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरस्य नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥
अन्यो भगवानन्योऽहमित्यजानन्ननन्यः । तेन प्रोक्ते गतिर्ज्ञानं नास्ति । प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ इति वाक्यशेषात् ।
जीवानां चैव विष्णोश्च यो न वेत्ति भिदां पुमान् ।
तदनुव्रताश्च ये केचित्तेषां ज्ञानं न जायते ॥ इति ब्रह्मवैवर्ते ।
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नचिकेतश्चितोऽग्नि रनित्यद्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥
आख्यं विष्ण्वाख्यं नित्यं शेवधिरिति जानामि । नित्यमाख्यविष्णुविषयैः द्रव्यैर्मन आदिभिः । आख्यनित्यविषयैर्विष्ण्वाख्यनित्यविषयैः द्रव्यैः । नित्यं भगवन्तं प्राप्तवानस्मि । ध्रुवो भगवान् । अध्रुवैस्तद्भक्तिवर्जितैर्न प्राप्यते ॥ १० ॥
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोत्यस्राक्षीः ॥ ११ ॥
क्रतोरानन्त्यहेतुम् । स्तोमैरपि सर्वात्मना प्राप्तुमशक्यम् । स्तोमेभ्योऽपि महान्तम् । उरुगायमित्युक्तत्वाच्च न जीवविषयोऽयं प्रश्नः ।
शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । शरवत् तन्मयो भवेत् ।
अभयं तितीर्षतां पारम् । तादृगेव भवति ।
इत्यादौ सर्वत्र भेदस्यैवोक्तेश्च न जीवाभेदः ।
नाचिकेतं शकेमसीत्युक्तत्वाच्च नाचिकेताग्निस्थो भगवानेवात्रोच्यत इति सिद्धम् । उरुगायं दृष्ट्वा कामस्याप्तिमत्यस्राक्षीः । न च मृत्वा यमं प्राप्तस्य नचिकेतसो मृतोऽस्ति न वेति संशयो युज्यते ॥ ११ ॥
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥
गह्वरे मुक्तजीवे स्थितम् ॥ १२ ॥
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेनमाप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥
प्रवृह्य जीवात् पृथक्कृत्य ।
मुक्तजीवे स्थितं विष्णुं विदित्वा जीवतः पृथक् ।
मोदते मोदनीयं तं प्राप्य मुक्तस्सदैव च ॥ इति महावाराहे ।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद ॥ १४ ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥
एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥
एतद्ध्येवाक्षरं ब्रह्म विष्ण्वाख्यं परमव्ययम् ।
सर्वस्यालम्बनं ज्ञात्वा मुच्यते नात्र संशयः ॥ इति च ॥ १७ ॥
न जायते म्रियते वा विपश्चि न्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमानेऽपि देहे ॥ १८ ॥
देहोत्पत्तिविनाशाख्यौ ज्ञानिनोऽप्युद्भवाभवौ ।
न कुतश्चिद्यतो विष्णुर्जायतेऽतस्तदीक्षणात् ॥
भावाभावौ न विदुषो यस्माज्जीवो न कश्चन ।
जायते म्रियते वापि स्वरूपेण कथञ्चन ॥
अजो नित्योऽविकारश्च जीवः पुरमणन्नपि ॥ इति च ।
अयं भगवान् कुतोऽपि न बभूव यस्मादतस्तद्वेत्तापि विपश्चिन्न जायते न म्रियते च । यतः कश्चिज्जीवः स्वतो न बभूव । देहसम्बन्धाद्धि जायते । विपश्चितस्तु देहसम्बन्धाभावान्न जायते न म्रियते च ॥ १८ ॥
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तै न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
जीवस्यापि स्वतो मरणाभावादुभौ तौ न विजानीतः ।
अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥
एवं नित्यस्य जन्तोर्गुहायां निहितः । ए विष्णौ क्रतुर्यस्य सोऽक्रतुस्तन्निश्चयः । आत्मनः सकाशान्महिमानं महामानम् ।
जीवाद् गुणपरीमाणं यस्माद्विष्णोर्महत्तरम् ।
तस्माज्जीवात् स महिमा विष्णुरित्युच्यते श्रुतौ ॥ इति च ॥
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥
ऐश्वर्यादेव आसीनो दूरं व्रजति इत्यादि ।
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ ॥ इति च ॥ २१ ॥
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥
नायमात्मा प्रवचेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ २३ ॥
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः ।
नाशान्तमनसो वापि प्रज्ञानेनैवमाप्नुयात् ॥ २४ ॥
यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥
इति प्रथमाध्याये द्वितीया वल्ली ॥