तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्
इन्द्रियनियमनावस्थायामेव ज्ञानी अप्रमत्तो भवति
उपनिषत्
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ २.३.११ ॥
भाष्यम्
प्रभवाप्ययौ प्रति हि योगः । भगवतस्सकाशात् प्रभवाप्ययौ ॥
श्रीव्यासतीर्थ:
व्या- ननु कथं धारणायाः परमगतिसाधनत्वम् । ध्यानसमाधिलक्षणयोग- स्यैव तत्त्वादित्यतः स्थिरधारणायाः ततोऽतिविशेषाभावादित्याह - तामिति ॥ अनतिविशेषत्त्वमेव विशदमाह- अप्रमत्त इति ॥ योगस्य विषयमाह- योग इति ॥ योगः प्रभावाप्ययौ हि इति सामानाधिकरण्यप्रतीतिमपेक्षितप्रक्षेपेण वारयति - प्रभवेति ॥ ननु जगतः प्रभवाप्ययध्यानं कथं योगः । तस्येश्वरा- सम्बन्धित्वादिति शङ्कामपेक्षितपूरणेन वारयति - भगवत इति ॥ सकाशात् भवन्ताविति पूरणीयम् । प्रति हि योग इति पूर्वेण सम्बन्धः ।।२.३.११।।
वामनपण्डिताचार्य:
तस्य लक्षणमाह- यदा पश्चेति । यदा पञ्चेन्द्रियाणि श्रोत्रादीनि मनसा बुद्ध्या च सह निश्चलमवतिष्ठन्ते । बाह्यार्थेषु न गच्छन्ति । सैवेन्द्रियधारणा भगवद्दृष्टिसाधनी । " दर्शनं तु चिराय न’” इत्यन्यत्र वचनात् । अतस्तां योगाख्यां परमगतिमाहुः, मोक्षपर्यवसायित्वात् । तदा योगमवस्थाय अप्रमत्तो भवति । कृतकृत्यत्वात् । योगाभ्यासस्याप्रमादहेतुत्वे कारणमाह-योगो हि प्रभवाप्ययाविति । अस्यान्वयमाह - प्रभवाप्ययौ प्रति योगः || प्रभवः सुखाभिव्यक्तिः । अप्ययो दुःखनाशः । तावुद्दिश्य वर्तमानो ह्ययं योगः । तत्फलभूतौ प्रभवाप्ययौ भगवतः सकाशादेव भवतः ।। २.३.१०-११ ।।
श्रीवादिराजतीर्थ:
वादि- “इन्द्रियधारणाम्” इन्द्रियाणां भगवति धारणामित्यर्थः ‘“प्रभवाप्ययौ हि’” इत्यत्र भगवतः सकाशात् प्रभावाप्ययौ भवत इति योगः मनोयोग एव हि ध्यानम्, न तु यस्य कस्यचिद् ध्यानमित्यर्थः ।।२.३.११ ।।
श्रीवेदेशतीर्थ:
“योगो हि प्रभवाप्ययौ " इति सामानाधिकरण्येनोत्पत्ति- विनाशावेव योग इति प्रतीयते तदसत् । प्रपञ्चनिष्ठोत्पत्तिविनाशयोः मुमुक्षुनिष्ठयोगरूपत्वासम्भवात् । नचानेन योग उत्पत्तिविनाशधर्मक इत्युच्यत इति वाच्यम् । प्रभवाप्ययशब्दस्य तद्वति लक्षणाप्रसङ्गात् । अनुपयुक्तत्वेनावक्तव्यत्वाच्चेत्यतस्तद्व्याचष्टे - प्रभवाप्ययाविति ॥ प्रतियोगे द्वितीया इति भावः । ननु प्रपञ्चनिष्ठप्रभवाप्ययौ प्रति कथमिन्द्रियधारणारूपो योगः । भगवन्तं प्रत्येव तस्य कर्तव्यत्वादित्यत आह- भगवत इति ॥
श्रीवेदेशतीर्थखण्डार्थ:
ननु योगस्यैव परमगतित्वोक्तेः कथमेतदित्यत आह- तां योगमिति ।। इन्द्रियधारणारूपोऽपि योगः कमुद्दिश्य कर्तव्य इत्यत आह- योग इति ॥ भगवतः सकाशाज्जगतः प्रभवाप्ययौ प्रति योगः जगत्प्रभवाप्यय- कर्तारं भगवन्तं प्रति योगः कर्तव्य इत्येतत्प्रसिद्धमिति भावः ।।२.३.११ ।।
श्रीवरदतीर्थ:
वरद - "योगो हि प्रभवाप्ययौ" इत्यत्र सामानाधिकरण्यव्यपदेशात् उत्पत्तिनाशावेव योग इति प्रतीतिनिरासायाह- प्रभवेति ॥ ननु प्रतिशब्दा- ध्याहारेऽपि कथं प्रभवाप्यययोरेव योगत्वं भगवद्विषयत्वाभादित्यत आह- भगवत इति ।। भगवतस्सकाशाज्जगतः प्रभवाप्ययौ भवत इत्येवं ज्ञानं योगो भवति । योगश्च धारणा ध्यानं समाधिश्च । तत्र खण्डस्मृतिर्धारणा अखण्डा ध्यानं अप्रयत्नेन भगवति मनसोऽभिनिवेशनं समाधिरिति विवेकः ||
श्रीवरदतीर्थखण्डार्थ:
वरद. खं- तामिन्द्रियधारणात्मिकामवस्थां स्थिरां सर्ती योगमिति च मन्यन्ते महान्तः, धारणाध्यानसमाधिरूपस्य योगस्य साधनत्वात् । प्रत्याहाराद्धि धारणादिकं जायते । कथमिन्द्रियधारणावस्थाया योग- साधनत्वमित्यत आह- अप्रमत्त इति ॥ यस्यामवस्थायामिन्द्रियधारणा जायते तदा तस्यामवस्थायामप्रमत्तः प्रमादरहितो भवति । ततश्च परमेश्वर- कर्तृकसृष्टिसंहारौ प्रति योगः । ध्यानादिरूपयोगो भवतीत्यर्थः ।।२.३.११।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
ननु कथं प्रत्याहारस्य परमसाधनता ? ध्यानसमाधिलक्षण- योगस्यैव तथात्वादित्यत आह- तां योगमितीति ॥ तामित्यस्य विवरणम्- स्थिरामिन्द्रियधारणामिति ॥ इन्द्रियाणां विषयेभ्यो व्यावर्तनेन भगवद्विषये अचञ्चलां धारणामेव ध्यानसमाधिलक्षणयोगमिति मन्यन्ते प्राज्ञा इति । तयोरनतिभेदं व्यनक्ति- अप्रमत्त इति ॥ तथा सत्यप्रमत्तो भवति, भगवज्ज्ञान्येव भवतीत्यर्थः । योगं मन्यन्त इत्युक्तं तस्य विषयमाह - योगो हीति । प्रभवाप्ययौ उत्पत्तिविनाशौ जगतो भगवत्सकाशाद्भवत इत्येतद्योगो हि ध्यानरूपभगबद्योगविषयो हीति । २.३.११ ।।