दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता

प्रेयः कामानां निन्दनम्

उपनिषत्

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।

विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः ॥ १.२.४ ॥

श्रीव्यासतीर्थ:

‘“योगक्षेमान्इति ‘“स त्वं प्रियान्" इति च प्रेयसः स्वरूपं निरूपितम् । साम्प्रतं उभयस्वरूपं स्पष्टं निरूपयति- दूरमिति ॥ विपरी विरुद्धे इत्युक्तं विरुद्धत्वमेव विवरीतुमुक्तम् - विषूची विरुद्धगतिहेतू इति ॥ लोलुपन्तो लोलुपयन्तः प्रलोभयन्तीति यावत् ।।१.२.४॥

वामनपण्डिताचार्य:

अतः श्रेयःप्रेयःसाधकयोः पुंसोरन्योन्यविरुद्धगतिमत्त्वं ह्युक्तम् । अथ तत्साधनभूतयोर्विद्याविद्ययोश्चात्यन्तं विरुद्धगतित्वं वक्ति - दूरमिति ॥ येयं जीवेऽनादितस्तत्त्वाविद्या या च तद्विद्याऽत्यर्थं प्रयत्नसाध्येति ज्ञाता ते दूरत एव विपरीतत्वेन विष्वग्गते । तमः प्रकाशवत् सहस्थितिरहिते इत्यभिप्रायः । अतो विद्याभीप्सितं नचिकेतसं त्वां ऐहिकाः कामाः सुबहवोऽपि नालोलुपन्त नैवाचालयन्नित्यर्थः ।। १.२.४ ।।

श्रीवेदेशतीर्थखण्डार्थ:

श्रेयः प्रेयसोः स्वरूपं निरूपयन्ते उभे नानार्थेइत्युक्तमेव विवृणोति - दूरमेत इति ॥ या प्रेयोरूपा अविद्या विद्याविरुद्धेति विज्ञाता । या च श्रेयोरूपा विद्येति ज्ञाता विद्वद्भिः त एते श्रेयः प्रेयसी । दूरं विपरीते अतिविरुद्धे । विरुद्धत्वमेव विवृणोति - विषूची इति ॥ विरुद्धगतिहेतू इत्यर्थः । तत्राहं नचिकेतसं विद्याभीप्सितमेव मन्ये । कुतः । त्वा त्वां बहवः कामा न लोलुपन्तः न लोलुपन्ति । न प्रलोभयन्तीति यावत् ।। १.२.४ ।।

वरद. खं- इदानीं श्रेयसः स्वरूपं निरूपयन्नेव नानार्थे इत्युक्तमेव विवृणोति - दूरमिति । एते श्रेयः प्रेयसी दूरं विपरीते अतिविरुद्धे कथं विषूची विरुद्धगती । या अविद्या सा प्रेय इत्युच्यते या च विद्येति विद्वद्भिः ज्ञाता सा श्रेय इत्युच्यत इत्यर्थः ॥ १.२.४ ॥

श्रीराघवेन्द्रतीर्थखण्डार्थ:

पूर्वं ‘“योगक्षेमान्इति "प्रियान् प्रियरूपांश्च" इति प्रेयस्स्वरूपं किञ्चित् स्पष्टीकृतम् । श्रेयस्स्वरूपं तु न स्पष्टम् ।श्रेय आददानस्य’” इति सामान्यत उक्तेः । अतस्तदुभयं स्पष्टयन् नचिकेतसं स्तौति - दूरमिति ॥ या अविद्या विद्याभिन्ना ऐहिकसुखसाधनत्वेन ज्ञाता या च विद्येति ज्ञाता, एते दूरं अन्योन्यं विदूरतो वर्तमाने । तदेवाह - विपरीत इति ॥ परस्परं विरुद्धे, तद्व्यनक्ति विषूची विषूचीने विरुद्धफलहेतू । नचिकेतसं त्वा त्वां विद्याभीप्सितं विद्याभिकाङ्क्षिणं मन्ये जानामि । बहवः कामाः त्वा त्वां लोलुपन्तः लोलुपयन्तः अपेक्षां जनयन्तः न वर्तन्त इत्यर्थः । कामैः प्रलुब्धस्त्वं न भवसीति यावत् ॥ १.२.४ ।।

Load More