ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्ध

अथ प्रथमाध्यायस्य तृतीया वल्ली

आत्मान्तरात्माख्यभगवद्रूपयोरेव ऋतपानकर्तृत्वम्

उपनिषत्

ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्ध ।

छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ॥

भाष्यम्

'आत्माऽन्तरात्मेति विभुरेक एव द्विधा स्थितः ।

स विष्णुः परमे वायौ परेभ्योऽप्यृद्धरूपके ॥

शुभान् पिबति भोगान् स च्छायेव विदुषां प्रभुः ।

आतपः पापिनां नित्यं …..।। १.३.१ ॥

श्रीव्यासतीर्थ:

व्यास-अध्यात्मयोगेन’” इति भगवतो ध्यानमुक्तम् । स कुत्र ध्येय इत्यत आह- ऋतमिति ।। सुकृतस्य पुण्यस्य कार्ये शरीरे । पञ्चाग्नयो देवयजनादयो येषां ते तथोक्ताः ।। १.३.१ ॥

व्या.भा- "ऋतं पिबन्तौइत्येतत्कैश्विद्बुद्धिजीवपरत्वेन अन्यैर्जीवेश्वर- विषयत्वेन व्याख्यातम् । तन्न । सुखभोक्तृत्वानुपपत्तेः । सुखस्यैव भोक्तृत्वानुपपत्तेश्चेत्याशयवान् यथावद्व्याचष्टे - आत्मेति ॥ आत्मा देहहृदये स्थितः । अन्तरात्मा जीवहृदये स्थितः । आ ऋद्धः अर्द्धः परेभ्योऽप्यर्धः परार्धः तस्मिन् परेभ्योऽप्यृद्धरूपके परमे गुहां प्रविष्टे वायौ विभुर्विष्णुः स एक एवात्मान्तरात्मेति द्विधा स्थितः असौ । भुज्यन्त इति भोगाः विषयाः

शुभानेव भोगान् पिबत्यनुभवति । ऋतं पिबन्तावुभावपि परमात्मानी चेत्कथं छायातपत्वमित्यतस्तद्व्याचष्टे - छायेति ॥ १.३.१ ॥

वामनपण्डिताचार्य:

अथेदानीमेतददन् किम्बन्वत्तीत्याकाङ्गायामाह- ऋतं पिबन्ताविति ॥ अत्र ऋतं शुभकर्मफलरसम् । तदेवायं पिबति नान्यत् । द्विवचनमेकस्यैव विष्णोर्द्वैरूप्येण द्विधावस्थानात् । अस्य खण्डस्याभिप्रायंआत्माइत्यादिना पुराणवचनेन व्याख्याति । उभौ पिबन्तौ जीवपरौ किं न स्यातामित्यत आह- " एक एव द्विधा स्थितः विष्णुः सः" इति ॥ सुकृतानामास्पदभूतमुख्यप्राणे द्विधा स्थित्वा तत्फलरसं पिबन्तौ ब्रह्म इति वदन्ति ब्रह्मविदः । विदुषां छायेव आह्लादकौ, पापिनामातप इव तापकौ । ये च त्रिःकृत्व आधेयत्वेन नचिकेतसे प्रोक्ताः पञ्चाग्नयः तांश्च ब्रह्मेति वदन्ति । गार्हपत्यादयस्त्रयः प्रणीताग्निरानीश्चेति पञ्चाग्नयः । तेषु नियामकत्वेन स्थितपरमाग्नय एवात्रोदिताः । " नाचिकेताग्निस्थो भगवानत्रोच्यतेइति प्रागेव निगमनात् ।। १.३.१ ॥

श्रीवादिराजतीर्थ:

पञ्चाग्नयः देवयजनपितृयजनभूतयजनमनुष्ययजनब्रह्मयजनभेदेन पञ्च अग्नयो येषां ते तथोक्ताः । अग्र्यकर्मरूपत्वादेतत्पञ्चकमप्यग्निपदेनोच्यते । त्रिनाचिकेताः त्रिवारं कृतनाचिकेताख्याग्निपूजाः । सुकृतस्य कार्ये लोके शरीरे । परार्द्धे आ ऋद्धः आर्द्धः परेभ्यो रुद्रादिभ्योऽप्यतिशयितमहिम्नि परमे मुख्यप्राणे स्थित्वा गुहां प्रविष्टौ ऋतं पुण्यकर्मफलभूतं सुखं पिबन्तौ आत्माऽन्तरात्मेतिपदवाच्यौ भगवतो मूर्तिविशेषौ । जीवान्तर्याम्यन्तरात्मा, देहान्तर्याम्यात्मेति विवेकः । छायातपौ भक्तानां सन्तापहारित्वेन छायारूपौ, दैत्यानां सन्तापकारित्वेनाऽऽतपरूपौ च ब्रह्मविदो वदन्तीति योजना । सुकृतपदमहिम्ना ऋतमपि सुकृतरसभूतं पूज्यमेवेति लभ्यते । ‘“तस्येदाहुः पिप्पलं स्वाद्वग्रे " (क्र.सं.१.१६४.२२) इति श्रुतेः । अत एवास्वाद्वपि स्वादुत्वेन भुञ्जानो जीव इव भगवान्नाश्नुत इति भावेन

प्रागनश्नन्नित्युक्तम् । न तु सर्वथाऽशनाभावात् । "तस्येदाहुः पिप्पलम्इत्युक्तत्वात् । एवञ्च " तयोरन्य: पिप्पलं स्वाद्वत्ति" इत्यत्राप्यस्त्राद्वेव स्वादुत्वेनात्तीत्यर्थो ग्राह्यः ।। १.३.१ ॥

श्रीवेदेशतीर्थ:

अध्यात्मयोगाधिगमेनेति भगवतो ध्यानमुक्तम् । स कुत्र ध्येय इत्यतस्तन्निरूपयन् पुनरपि भगवन्माहात्म्यमाह - ऋतमित्यादिना ॥ केचित्तुऋतं पिबन्तौइत्यत्र बुद्धिजीवावुच्येते द्विवचनश्रुतेः । नच बुद्धौ कर्मफलभोक्तृत्वानुपपत्तिः । जीवस्य भोक्तृत्वेन तत्सहितबुद्धौ छत्रिन्यायेनो- पचारोपपत्तेरित्याहुः । तदपरे न क्षमन्ते । अन्यतरस्य पातृत्वेन जीवत्वे सिद्धे द्वितीयस्य चेतनतयैव भाव्यत्वात् । " अस्य गोर्द्वितीयोऽन्वेष्टव्यःइत्यादौ सजातीयग्रहणस्यैव लोके दर्शनात् । नचैवं जीवान्तरं ग्राह्यम् । एकस्मिन् शरीरे भोक्तृजीवद्वयायोगात् । तस्माज्जीवेश्वरावेवात्रोच्येते । नचेशस्य कर्मफलभोगायोगः । छत्रिन्यायेन पातृजीवसम्बन्धात्पिबन्तावित्युपचारादिति । तदसत् । पित्रतोर्बुद्धिजीवत्वजीवेश्वरत्वयोर्हानिलाभादर्शनात् । पातृत्वस्य जीवनिष्ठत्वस्य तेनाप्यङ्गीकारात् । बुद्धाविवौपाचारिकत्वस्येश्वरे त्वयाप्य- ङ्गीकारात् । तस्मादयं मन्त्रः ईश्वरमात्रपर एव । तथासति द्विवचनानुपपत्ति- रिति चेन्न । तस्य द्विरूपत्वाभिप्रायेण सावकाशत्वादिति भावेन मन्त्रं प्रमाणेनैव व्याचष्टे - आत्मेति ॥ आत्मा देहहृदये स्थितः अन्तरात्मा जीवहृदये स्थित इत्याहुः | तत्त्वप्रकाशिकायां तु द्विरूपतया विष्णुर्देहनिविष्ट इत्युक्तम् । स्थितो हृदय इति शेषः । तेन गुहां प्रविष्टावित्येतद्व्याख्यातम् । परमे परार्ध इत्यस्य बाह्याकाशस्थानापेक्षया परमं परस्य ब्रह्मणः स्थानं परार्द्धं हार्दाकाशः । तत्र परब्रह्मोपलभ्यते । तस्मिन् परमे परार्धे हार्दाकाशे प्रविष्टाविति व्याख्यानमसत् हार्दाकाशस्य परमत्वाभावात् बाह्याकाशापेक्षयान्तराकाशस्य परमत्वे नियामकाभावात् । नच तत्र परब्रह्मोपलब्धिर्नियामिका । बाह्याकाशेऽपि योग्यानां परब्रह्मोपलब्धेः "गुहां प्रविष्टौ " इत्यनेनैव हार्दाकाशस्थितिलाभाच्च । प्रमाणविरोधाच्चेति भावेन व्याचष्टे - परम इति ॥ सर्वजीवोत्तमे इत्यर्थः । परेभ्योऽपि रुद्रादिभ्यः ऋद्धरूपकेऽतिपरिपूर्णस्वरूप इत्यर्थः । स विभुर्विष्णुरेक एवात्मान्तरात्मेति द्विधा हृदये तत्रापि परमे परेभ्योऽपि ऋद्धरूपके वायौ स्थित इत्यन्वयः । विष्णुशब्दव्याख्यानम्- विभुरिति ॥ तथापि कथमयं मन्त्रः ईश्वरपरः । तस्य कर्मफलपातृत्वायोगादिति चेन्न । " रसं पिबति कर्मजम्' (सू.भा. १.२.११) इत्यादिवचने नश्वरस्यापि कर्मफलपातृत्वश्रवणात् । तथासति दुःखभोगोअनश्नन्नन्योऽभिचाकशीति' (आ.उ.३.१.१)

इत्यादिश्रुतिविरोधश्च स्यादित्यतः ‘“ऋतं पिबन्तौइत्येतद्व्याचष्टे - शुभानिति ॥ सावधारणमेतत् । पिबति अनुभवति । भुज्यन्त इति भोगाः विषयाः । ‘‘ऋतं सत्यं तथा धर्मः'(गी.भा.७.९) इति स्मृतेः ऋतशब्दस्य धर्मवाचकत्वाच्छुभानित्युक्तम् । प्रत्युत जीवपक्ष एवेदमनुपपन्नम् । तस्याधर्मफलं प्रत्यपि भोक्तृत्वात् । नचापूर्णानन्दत्वप्रसङ्गः अचिन्त्यैश्वर्यबलेन सुखभोगोपपत्तेः

|

अशुभभोगाभावविषयं तद्वाक्यमिति भावः । नन्वेवमस्येश्वरपरत्वे छायातपत्व- विरोधः । तयोर्विद्वदविद्वत्परत्वेन जीवेश्वरपरत्वावगमादित्यत आह- छायेवेति ।। छायेव सुखकारणमित्यर्थः । आतप इत्यत्रापि इवशब्दोऽनुवर्तते । दुःखकारणमित्यर्थः । नचैवमौपचारिकत्वं दोषः । त्वन्मतेऽपि छायातपा - वित्यस्य विद्वद्वाचकत्वाभावेनामुख्यार्थस्य ग्राह्यत्वात् । नन्वेवं किं बलाद्विष्णु- मात्रपरत्वेन व्याख्यायत इति चेत् । गुहाप्रविष्टत्वलिङ्गादेव । तच्च विष्णुमात्रनिष्ठमित्युक्तम् ।। १.३.१ ॥

श्रीवेदेशतीर्थखण्डार्थ:

सुकृतस्य लोके सुकृतनिर्मितशरीरे । गुहां हृदयगुहां प्रविष्टौ । तत्रापि परमे सर्वजीवोत्तमे परार्धे आ ऋद्धः अर्धः परेभ्योऽर्द्धः परार्धः | परेभ्योऽप्यृद्धरूपके अतिपरिपूर्णे बायौ प्रविष्टौ ऋतं सुकृतफलं पिबन्तौ भुञ्जानावात्मान्तरात्माख्यभगवद्रूपविशेषौ । ये पञ्चाशयः पञ्चमहायज्ञवन्तो धुपर्जन्यादिपञ्चाग्निविद्यानिष्ठा वा त्रिनाचिकेताः त्रिवारकृतनाचिकेताश्च ब्रह्मविदस्ते छायातपौ विद्वदविदुषोः सुखदुःखकारणीभूतौ वदन्ति ॥

।। १.३.१ ।।

श्रीवरदतीर्थ:

वरद - "ऋतं पिबन्तौइत्यत्र जीवेश्वरौ प्रतिपाद्याविति व्याख्यानिरासाय व्याचष्टे - आत्मेति ॥ १.३.१ ॥

श्रीवरदतीर्थखण्डार्थ:

अध्यात्मयोगाधिगमेत्युक्तोऽध्यात्मयोगो निरूप्यते ऋतं पिबन्तावित्यादिना || यौ परमात्मानौ सुकृतस्य लोके शरीरे परमे उत्तमे परार्धे परेभ्योऽप्यासमन्तात् ऋद्धरूपे प्राणे हृदयगुहायां प्रविष्टौ वर्तेते | ब्रह्मविदो ब्रह्मज्ञानिनस्तावात्मानौ छायातपौ वदन्ति ॥ १.३.१

श्रीराघवेन्द्रतीर्थखण्डार्थ:

अध्यात्मयोगाधिगमेनेति भगवतो ध्यानमुक्तम् । स कुत्र ध्येय इत्यतोऽधिष्ठानमाह - ऋतमिति । यौ सुकृतस्य लोके पुण्यसम्बन्धिनि लोके पुण्यनिर्मितशरीरे हृदयगुहायां प्रविष्टौ तत्रापि परमे सर्वजीवोत्तमे परार्द्धे परमत्यन्तं, परेभ्य इति वा, आ समन्तात् ऋद्धे अभिवृद्धे ज्ञानादिपूर्णे मुख्यवायौ प्रविष्टौ ऋतं सुकृतफलं पिबन्तौ भुञ्जानौ आत्मान्तरात्माख्य- विष्णुरूपविशेषी ब्रह्मविदः ब्रह्मज्ञानिनः पञ्चाग्रयः देवयज्ञपितृयज्ञभूतयज्ञ- "धुपर्जन्यपृथिवीपुंस्त्रीरूपपञ्चाग्नि-

मनुष्ययज्ञब्रह्मयज्ञरूपपञ्चमहायज्ञवन्तः विद्यानिष्ठा वा" त्रिनाचिकेताः त्रिवारकृतनाचिकेताग्नयः ये ते छायातपौ ‘‘साध्वसाध्वोः’” छायातपाविव सुखदुःखौ वदन्तीति । तथा च सूत्रंगुहां प्रविष्टावात्मानौ हि तद्दर्शनात्" (ब्र.सू.१.२.१२ ) इति । हृदय- गुहास्थवायौ ध्येय इति भावः ।। १.३.१ ।।