यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः

ब्रह्मविषयदर्शनादिभोगस्य भगवत्प्रसादैकसाध्यत्वम्

उपनिषत्

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते । २.३.१४ ।।

भाष्यम्

अन्तःकरणकामानां त्यागो व्यक्तिश्चिदात्मनाम् ।

कामानां तु तदा मुक्तो मृतिं नैवाभियास्यति ॥ २.३.१४ ॥

श्रीव्यासतीर्थ:

व्या- नन्वाधिक्यज्ञानाद्भवन् भगवत्प्रसादो न फलम् । किन्तु फलहेतुः अतस्तत्फलं किमित्यतो मोक्ष इत्याह- यदेति । तत्सर्वकामप्रहाणप्रतीतिं निवारयन् व्याचष्टे- अन्तः करणेति । २.३.१४ ॥

वामनपण्डिताचार्य:

एवं सर्वोत्तमत्वज्ञानेन प्रसन्नात् परमात्मन: संसारमोक्षो जीवस्य स्यादित्याह - यदेति ॥ इमां सर्वकाममोक्षश्रुतिं सर्वकामाप्तिश्रुत्यविरोधेन योजयति-अन्तःकरण..." इत्यादिना महावराहवचनेन ॥ अमृतो भूत्वा स्वयोग्यतानुसारेण परिपूर्णं सुखमश्नुते ।। २.३.१४ ॥

श्रीवेदेशतीर्थ:

 यदा सर्वे प्रमुच्यन्ते कामाः " इत्यत्र सर्वकामत्याग उच्यत इति प्रतीतिनिरासाय मन्त्रं प्रमाणेनैव व्याचष्टे - अन्तःकरणेति । अत एव श्रुतौ

"हृदि स्थिताःइति विशेषणम् । अन्यथा तद्व्यर्थं स्यादिति भावः । ननु सर्वात्मना कामत्याग एव श्रुत्यर्थः किन्न स्यात् । विशेषणस्य स्वरूपकथन- परत्वोपपत्तेरित्यत आह- व्यक्तिरिति ॥ चिदात्मनां तु इत्यन्वयः । मुक्तौ चिदात्मककामव्यक्तिसद्भावात्सर्वकामत्यागस्य श्रुत्यर्थत्वे बाधः स्यादित्युक्त एव श्रुत्यर्थ इति भावः "अथ मर्त्योऽमृतो भवति" इत्येतद्व्याचष्टे - तदेति ॥ अथशब्दार्थः- तदेति ।। अमृतो भवतीत्यस्यार्थः- मृतिं नैवाभियास्यतीति

।। २.३.१४ ।।

श्रीवेदेशतीर्थखण्डार्थ:

भगवद्विशेषप्रसादे सति किं भवतीत्यत आह- यदेति । यद्वास्य ज्ञानिनो भगवत्प्रसादाद्धृदि स्थिता अन्तःकरणाश्रिताः कामास्ते सर्वे प्रमुच्यन्ते सवासना उच्छिद्यन्ते अथ तदा मर्त्यो मरणादिधर्मकोऽपि अमृतो भवति मृर्ति नैवाभियास्यतीति । अत्र मुक्तौ ब्रह्म समश्नुते ब्रह्मविषय- दर्शनादिभोगान् करोतीत्यर्थः ।। २.३.१४ ।।

श्रीवरदतीर्थ:

बरद- तत्त्वभावप्रसादाच्चान्तःकरणविकारभूतकामादिप्रपञ्चनिवृत्तिर्भवती- त्युच्यते - यदा सर्वे प्रमुच्यन्त इति ॥ तत्र जीवस्य काममात्रनिवृत्तिः कथ्यत इति प्रतीतिं निराकुर्वन्नेव कामादिनिवृत्त्यनन्तरममृतो भवतीति कथं युज्यते । कामादिनिवृत्तिव्यतिरेकेण मोक्षाभावादित्याशङ्कां परिहरति- अन्तःकरणेति ।। २.३.१४-१४॥

श्रीवरदतीर्थखण्डार्थ:

वरद. खं- प्रसादे च सति किं भवतीत्यत आह- यदेति ॥ भगवत्प्रसादे सति मनोमयाः कामा निवर्तन्ते । यदा च ते निवर्तन्ते अथ तदनन्तरं मर्त्यस्सन् मरणादिधर्मकस्सन् अमृतो भवति मृत्युवर्जितो भवतीत्यर्थः ।।

श्रीराघवेन्द्रतीर्थखण्डार्थ:

तादृशप्रसादसाध्यं फलमाह - यदेति । परमप्रसादे सति पश्चाद्ये हृदि स्थिताः अन्तःकरणगताः सर्वे कामाः ते यदा प्रमुच्यन्ते, कर्मकर्तरि - प्रयोगः, मुक्ता भवन्ति, अपगच्छन्तीति यावत्, अथ अनन्तरं मर्त्योऽमृतो भवति मृतिं नैव प्रपद्यते । कुतः ? अत्र श्वेतद्वीपादिस्थानविशेषे ब्रह्म समश्नुते प्राप्नोति, तस्मादिति योज्यम् ॥ २.३.१४ ॥