यच्छेद् वामनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि
उत्तमदेवाः नीचदेवानां नियामकाः
उपनिषत्
यच्छेद् वामनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति तद् यच्छेच्छान्त आत्मनि ॥ १.३.१३।।
भाष्यम्
‘तस्माद्वागात्मिका देवीरुमाद्यास्तु शिवादिषु ।
शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेन्महदात्मनोः ॥
तौ रमायां परानन्दे तां विष्णौ परमात्मनि ।
तद्वशत्वेन तद्ध्यानं नियमो नाम नापर: ।।
कुतस्तु मानुषो देवान्नियच्छेद्विनियामकान् " ॥ इति च ।। १.३. १३ ॥
श्रीव्यासतीर्थ:
इन्द्रियादिभ्योऽर्थादय उत्तमत्वेन ध्येया इत्युक्तम् । न केलमुत्तमत्वेन । किन्तु पूर्वपूर्वेषां उत्तरोत्तरनियतत्वञ्च ध्येयमित्याह- यच्छेदिति ॥ इन्द्रियाणि वाचि नियच्छेत्, वाचं मनसि, मनश्च ज्ञाने बुद्धौ शान्ते अतिशयितसुखरूपे ।। १.३.१३ ।।
व्या. भा- यच्छेदित्यादि व्यचष्टे - तस्मादिति ॥ तस्मादुक्तप्रकारेण तारतम्याभावादिति । वागात्मिकाः वागभिमानिनीः । इन्द्रियाणि वाचि नियच्छ॑त् इत्यादौ ग्राह्यम् । इन्द्रियादीनामर्थादिषु नियमनं नाम किमित्यत आह- तद्वशत्वेनेति ॥ नापरो नियमनरूपः । प्रसिद्धनियमनार्थत्वे बाधकमाह- कुत इति ॥ १.३.१३
वामनपण्डिताचार्य:
‘“यच्छेत्” इत्युपदेशोपसंहारवाक्यं “ तस्मात्" इत्यादिना व्याख्याति । यद्यपि वागिन्द्रियदेवताऽग्निरिति पुरस्तादुक्तम् । तथाऽप्यत्र वागात्मकत्वमुमादीनाम् । अविरुद्धं चेदम् । शब्दविवक्षया तदुक्तेः । एताः
शिवादिषु यच्छेत् । एतान् द्युदेवताद्वारेण ब्रह्मवाय्वोर्यच्छेत् । तावव्यक्तदेवताद्वारेण शान्ते सुखपूर्णे परमात्मनि यच्छेत् । नियम्यमानुषस्य नियन्तृदेवनियमनं कथमित्यत आह- तद्वशत्वेनेति ॥ विष्णुपरिवारतया वर्तमानानामुमादीनां शिवादिवशत्वेन ध्यानमेव हि तैर्नियम्यत्वमिति भावः ।। ।। १.३.१३ ।।
वादि- "यच्छेद्वाङ्गनसि” इत्यत्र तद्यच्छेदिति नपुंसकैकवचनेन परामर्शादुभयोरपि यमधातुयोगाच्चेन्द्रियाणि वाचि यच्छेद्वाचं मनसि यच्छेदित्यर्थः । यच्छेदित्युक्तं स्वाधिकदेवतानियमनं कथं ध्यातुर्घटत इति चेन्न । नियमनं नाम तद्वशत्वेन ध्यानम्, न तु साक्षान्नियमनम् । तदुक्तं भाष्ये- " तद्वशत्वेन तद्ध्यानं नियमो नाम नापरः" इति ।। १.३.१३ ।।
श्रीवेदेशतीर्थ:
" यच्छेद्वाङ्गनसि प्राज्ञः" इत्यादिकमपि प्रसिद्धजडवागादिपर- मिति प्रतीतिनिरासाय प्रमाणेन व्याचष्टे - 'तस्मादिति ॥ उक्तरीत्या उमादीनां परस्परनियम्यनियामकभावसत्वादित्यर्थः । वागात्मिकाः वागभि- मानिनीः शिवादिषु नियच्छेदित्यन्वयः । यद्यपि प्राक् बागभिमान्यग्निरुक्तः तथापि तस्य साक्षान्मनोऽभिमानिरुद्रादिनियम्यत्वाभावादुमाद्या गृहीताः । अनेन ‘‘यच्छेद्वाङ्गनसि प्राज्ञः" इत्येतद्व्याख्यातम् । शिवादीन् ब्रह्मवाय्वोस्तु नियच्छेदित्यत्र सरस्वतीद्वारेति ग्राह्यम् । “ तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति" इत्युक्तत्वात् । " तद्यच्छेच्छान्त आत्मनि” इति महदभिमानिब्रह्मवाय्बोः साक्षाद्भगवन्नियतत्वमुच्यते । तदयुक्तम् । “महतः परमव्यक्तम्” इत्युक्तत्वादित्यत आह- तौ रमायामिति । परानन्द इति शान्तशब्दार्थः । आत्मशब्दार्थः परमात्मनीति । यच्छेदित्यनेन वागादीनां मनआदौ नियमनकर्तृत्वं जीवस्योच्यत इति प्रतीतिनिरासाय तस्य विवक्षितमर्थमाह- तद्वशत्वेनेति ॥ प्रतीत एवार्थः किन्न स्यादित्यत आह- कुतस्त्विति ॥ तत्र हेतुर्विनियामकानिति ।। १.३.१३ ।।
श्रीवेदेशतीर्थखण्डार्थ:
इन्द्रियादिदेवेभ्य अर्थादिदेवा उत्तमत्वेन ध्येया इत्युक्तम् । न केवलमुत्तमत्वेन किन्तु पूर्वपूर्वेषां उत्तरोत्तरनियतत्वञ्च ध्येयमित्याह- यच्छेदिति ॥ इन्द्रियाभिमानिदेवान् वाचि वागभिमानिदेवतासु उमादिषु यच्छेदिति ग्राह्यम् । वाक् वाचं वागभिमानिनीं मनसि मनोऽभिमानिनि रुद्रादौ यच्छेत् । तद्यच्छेत् तत् मनोऽभिमानिरुद्रादिकं ज्ञानआत्मनि ज्ञानाभिमानिन्यां सरस्वत्यां यच्छेत् । ज्ञानं ज्ञानाभिमानिनीं सरस्वतीं महत्यात्मनि महदभिमानिनि ब्रह्मवाय्वोर्नियच्छेत् । महान्तं चाव्यक्ते श्रीतत्त्वे नियच्छेत् । इति ग्राह्यम् । तत् अव्यक्तश्रीतत्त्वं शान्ते परमानन्दे आत्मनि परमात्मनि नियच्छेत् इत्यर्थः ।। १.३.१३ ।।
श्रीवरदतीर्थ:
बरद- एवं ध्यातव्यस्वरूपमुक्तम् । ततश्च किमित्यत उच्यते- यच्छे- द्वामनसि इत्यादि ॥ तस्यार्थः- तस्माद्वागात्मिका देवी इत्यादि || शिवादीन् ब्रह्मवाय्वोर्नियच्छेदिति विज्ञानद्वारा उपनिषदि “ तद्यच्छेत् ज्ञान आत्मनि " इत्युक्तत्वात् । ननु देवानां नियमनं नाम किमित्यत आह- तद्वशत्वेनेति ॥ किमर्थमेवम्? आज्ञाप्रधानमेव किं न स्यादित्यत आह- कुत इति ॥ १३ ॥
श्रीवरदतीर्थखण्डार्थ:
वरद. खं भवेदिन्द्रियादीनामेकैकस्मादेकैकस्योत्तमत्वं ततः किमित्यत आह- यच्छेदिति ॥ वागिति प्रथमा द्वितीयार्थे । वागभिमानिनीं देवतां मनोऽभिमानिदेवे यच्छेत् अधीनत्वेन चिन्तयेदित्यर्थः ।। १.३.१३ ।।
श्रीराघवेन्द्रतीर्थखण्डार्थ:
पूर्वत्र भगवतस्सर्वोत्तमत्वेन पूर्वपूर्वस्मादुत्तरोत्तरेषां उत्तमत्वेन च ध्यानं कार्यमिति भावेन तारतम्यमुक्तम् । न केवलं तावदेव । किन्तु पूर्वपूर्वेषां उत्तरोत्तरनियतत्वं च ध्येयमिति भावेनाऽह - यच्छेदिति ॥ प्राज्ञः ज्ञानी इन्द्रियाभिमानिनः प्रागुक्तान् सोमादीन् वाचि वागभिमानिनीषु पार्वती - वारुणीसौपर्णीषु यच्छेदिति आदौ योज्यम् । नियमनं नाम तदधीनत्व- चिन्तनम् । तन्नियतान् चिन्तयेदित्यर्थः । एवमग्रेऽपि । वाङ्मनसीत्यत्र वाचं वागभिमानिनीः उमाद्यास्तिस्रो देवीः मनसि मनोऽभिमानिषु शिवशेषसुपर्णेषु यच्छेत् तन्नियतत्वेन ध्यायेत् । तत् मनो मनोऽभिमानिनः शिवशेषसुपर्णान् त्रीन् ज्ञाने आत्मनि ज्ञानाभिमानिन्योः सरस्वतीभारत्योः यच्छेत् । ज्ञानं ज्ञानाभिमानिन्यौ सरस्वतीभारत्यौ महति महत्तत्त्वाभिमानिनोः आत्मनि आत्मशब्दोदितयोः विरिञ्चवाय्वोः यच्छेत् । तत् महत्तत्त्वाभिमानिद्वयं शान्ते सुखरूपे आत्मनि परमात्मनि यच्छेत् । प्राज्ञ इति सर्वत्रानुषङ्गः । अत्र तद्यच्छेदव्यक्ते, तच्च शान्त आत्मनीति वक्तव्येऽपि अव्यक्ततत्त्वाभिमानिनः श्रीतत्त्वस्य स्वभर्तृनियतत्वं च सिद्धमेवेति नोक्तम् । अध्याहारो बा बोध्यः । तथा हि भाष्यं ‘‘तौ रमायां परानन्दे तां विष्णौ परमात्मनि ” इति ||१३||